________________ 147 टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपैतम् न्यायकन्दली कत्वानुमानं व्याप्तिग्राहकप्रमाणबाधितत्वात् कालात्ययापदिष्टम्, व्याप्तिबलेन चाभिप्रेतमशरीरित्वविशेषं 'विरुन्धद् विशेषविरुद्धम, 'तत स च विरुद्धावान्तरविशेष एवेति पूर्वपक्षसडक्षेपः। [68] 'अत्र प्रतिसमाधिः-कि शरीरित्वमेव कर्तृत्वमुत परिदृष्टसामर्थ्यकारक प्रयोक्तृत्वम्? न तावच्छरीरित्वमेव कर्तृत्वम्, सुषुप्तस्योदासीनस्य च कत्वर्तृप्रसङ्गात्, किन्तु परिदृष्टसामर्थ्यकारकप्रयोजकत्वम्, तस्मिन् सति कार्योत्पत्तेः / तच्चाशरीरस्यापि निर्वहति यथा स्वशरीरप्रेरणायामात्मनः। अस्ति तत्राप्यस्य स्वकर्मोपाजितं तदेव शरीरमिति [पं०] तेन बाधिसत्वात् / यद्यत्कायं तत्तद् बुद्धिमपूर्वकमित्यत्र व्याप्तिग्रहणकाले अंकुरादिभिर्व्यभिचारादिति भावः / कालात्ययापविष्टमिति -प्रमाण बाधिते पक्षे हेतुः प्रयुज्यमाने कालात्ययापदिष्ट: / व्याप्तिबलेन चाभिप्रेतशरीरिवविशेष विरुग्धद्विशेषविरुद्धमिति - व्याप्तिबलेन विरुन्धदिति योगः / अयं वाक्यार्थः -बुद्धिमत्पूर्वकत्वं साध्यो धर्मस्तविशेषोऽशरीरित्वं वक्तुरभिप्रेतं तद्विरुद्धं सशरीरत्वं व्याप्तिबलेन साध्यते / अतः कारणादशरीरिपूर्वकत्वानुमानं विशेषविरुद्धं द्रष्टम्यमिति पूर्वपक्षसंक्षेपः / .. [68] - अथ समाधानम् / आत्मनः इति शरीरस्यापि / प्रेरणोपायो न भवतीति अत्र शरीरमिति पूर्वस्मात्संबध्यते / ततश्चायं वाक्यार्थः / शरीरं शरीरप्रेरणोपायो न भवति किन्विच्छाप्रयत्नावेव शरीरप्रेरणोपायौ / स्वात्मनि क०] विपरीतप्रतिपत्तेविप्रतिपत्त्या वेति शेषः / नन्वाकाशस्य निरवयवतयाऽवयवनोदनरूपसामध्येकदेशवकल्यादेव कुठारमुद्यच्छन्नपि गगने नोदनमकुर्वन् पुरुषो निगृह्यते तद्वदिहापि सामग्रीवैकल्यप्रयुक्तकार्यभावतयैव निग्रहो वक्तव्य इत्यत आह 'तदानीमिति (कं. 56.7) / कत् / य) त्कार्य तत्सकर्तृकमिति घटादौ व्याप्ति ग्राहयत् प्रमाणं तदानीमेव यत्कार्य तच्छरीरिकर्तृ कमित्यपि ग्राहयति उपजीव्यतया प्रबलं चेति भावः / त'च्चेति (कं. 56.9) भभिमतविशेषप्योवृत्ततया सपक्षस्यैव विवक्षि [त] स्वात् [त] त्र वर्तमानो विशेषविरुद्धसाध्यसामान्यविरहिणि विपक्षे वर्तमानो मुख्यो विरुद्ध इति विवेक इति भावः / [68] अत्रेति (कं. 56.10) अनाधारित्यर्थः (इ)। शरीरस्य ब्यापकत्वे सिद्ध व्याप्तिग्राहकप्रमाणबाधः ग्याप्तिपक्षधर्मतयोविरोधो वा तब (तत्र) [श]रीरस्य व्यापकत्वं कर्तृस्वरूपतया कार्यत्वं हेतुमेव प्रति वाऽन्या; एनं कर्तारं प्रतिवेति विकल्पयति कि शरीरित्वमिति (कं. 56.10) / सुषुप्तस्येति (कं. 56.12) तस्यापि हि कर्तृस्वरूपतयाङ्गीकृतं शरीरमस्त्येवेति भावः / अस्तु तर्हि द्वितीय इत्यत आह तच्चेति (कं. 56.13) / इह शरीरस्योपायतया वा कर्तृव्यापारत्वं साहचर्यमात्रेण वा ? नाद्य इत्याह यथेति (कं. 56.13) / द्वितीयं शङ्कते 'प्रेयंतेति (प्रेर्यतयेति) (कं. 56.16) / निराकरोति ईश्वरस्यापीति (कं. 56.16) / अयं स्वभावः स्वशरीरप्रेरणे शरीरस्य भोगायतन[स]या वा साहचर्यकर्मतया वा आर्ये (धे) कमित्वमपाधिः / द्वितीयेत्वभिमतत्वान्न बाध्यते / न विरुध्यते चेति / 1 विरुन्धन् - जे. 1, जे. 2, जे. 3 / 2 ततश्च - कं. 1, कं. 2; तच्च -जे. 1, जे. 3 / 3 भस्य सम्प्रति समाधिः-जे. 2 / 4 प्रयोजकत्वम् - कं. 1, कं.२। 5 इदमपि प्रतीकं नोपलभ्यते कं. तदिदम इत्यस्ति / (कं. 56.7) / 6 ततश्च-कं 1. / 7 प्रेर्यतया-कं.१।