________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 145 न्यायकन्दली ईश्वरानुमाने तु विशेषो न सिद्धयति, प्रमाणविरोधात् / तथा हि-नात्र 'शरीरपूर्वकत्वं साधनीयम्, शरीरे सत्यवश्यमिन्द्रियप्राप्तावतीन्द्रियोपादानोपकरणादिकारकशक्तिपरिज्ञानासम्भवे सति कर्तृत्वासम्भवात् / 'अशरीरपूर्वकत्वञ्चाशक्यसाधनम्, 'सर्वोहि कर्ता कारकस्वरूपमवधारयति, तत इच्छतीदमहमनेन निवर्तयामीति, ततः प्रयतते, तदनु कायं व्यापारयति, ततः कारणान्यधितिष्ठति, ततः करोति, अनवधारयन्नप्रयतमानः कायमव्यापारयन् 'कारणान्यनधितिष्ठन् न करोतीत्यन्वयव्यतिरेकाभ्यां बुद्धिवच्छरीरमपि कार्योत्पत्तावुपायभूतम् / निखिलोपाधि प्रहाणे व्याप्तिग्राहकप्रमाणादेवावधारितं न [टि०] वच्छेदलक्षणो हि विशेषो न 'दृष्टान्ते दृष्टः किन्त्वपूर्व एवेत्यर्थः / [अन्यत्राभिनिवेशाद् इति] अभिनिवेश चेत्तव न भविष्यति तहि तुल्यता सत्यवेति / बुद्धिवच्छरीरमपि इति:- अत्रोपमायां 'वत्' / वह्निरेवेन्धनेति धूमाद्धि यो वह्निः / 'सिद्धयति स इन्धनदाहक एव सिद्धयति न त्वदाहकः / एवं तहि इति-व्याप्तिर्दाढ्यात सामान्य सिद्धयत्येवेति भावः / [पं०] तदा किमनुमानेन / तत्साध्यस्यार्थपूर्वमेव सिद्धत्वादित्यर्थः / ईश्वरानुमानेऽपि तुल्यमिति यथाऽग्निसामान्ये सिद्धयति पर्वतावच्छिन्नाग्निलक्षणो विशेष: सिध्ये देवं बुद्धिमत्पूर्वकत्वसामान्यसिद्धयति सति पृथिव्यादिनिर्माणसामर्थ्याख्यो विशेष: सेत्स्यत्येवेति भावः / सिद्धयत्यनुमाने विशेषोऽपीति-अनमानमध्ये विशेषोऽपि सिद्धयतीत्यर्थः / अतीन्द्रियोपादानोपकरणादोत्यादि-अतीन्द्रियमुपादानपरमाणुलक्षणम्, अतीन्द्रियमुपकरणम् अदृष्टलक्षणं द्रष्टव्यम् / कारकस्वरूपमवधारयतीति प्रथम मिति शेषः / करणानीति-कुठारादीनि / निखिलोपाधिग्रहणेनेति = निःशेषदोषत्यागेन / व्याप्तिग्राहकप्रमाणादेवेति-अन्वयव्यतिरेकव्याप्तिग्राहकात्प्रत्यक्षप्रमाणादेवेत्यर्थः / इन्धनविकारसामर्थमिति - इन्धनविकारस्यात्वलक्षणस्य सामर्थ्यम् / धूमानुमाने इति धूमानुमाने उपायभूतं न शक्यते हातुमित्यर्थः / तत्परित्यागे इति = शरीरपरित्यागे / अशरीरवदिति = अशरीर इव / [कु०] अथेदमिति (कं. 55.11) / वह्निस्वलक्षणं "वह्निव्यकिरचमवी न तु बौद्धवत् परमाणुपुञ्जरूपं तस्याने निराकरिष्यमाणत्वात् / ननु धूमानुमाने विशेषयोर्महानसपर्वतरूपाधिक रणभेदो वत्त्वाअदः ईश्वरानुमाने कर्तृव्यापकः शरीरसम्बन्धः तदभावकृतोऽपीति वैषम्यमाशक्यते अथ मतमिति (कं. 55.14) शेषोपपत्तिः पक्षधर्मताबलादिति शेषः / अतीन्द्रियोपा[दा] नोपकरणादि[कारक] शक्तिपरिज्ञानासम्भवे सतीति (कं. 55.18) योगिनामपि प्रमाणाभावेनानुभ्युपगमादिबदनुमानं, यो य इन्द्रियवान् सोऽस्मदाद्यतीन्द्रियसाक्षात्कारविरही इन्द्रियत्वादस्मदादिवदित्यपव्यभिचारीति द्रष्टव्यम् / परोक्षं चोपादानोपकरणज्ञानं न कर्तृत्वप्रयोजकम्, अनुमितागतपरमाण्वदृष्टादीनामस्मदादीनामङ्कुरादिकर्तृत्वप्रसङ्गात् / तद्यशरीरीशङ्का [स] शरीरस्यापि कर्तव्या / 1 शरीरि-जे. 1, जे. 2; जे 3 / 2 अशरीरि-जे. 1; जे. 2; जे. 3 / 3 सर्वोऽपि-कं. 1; कं.२। 4 पाठोऽयं-कं. 1; कं. 2 इत्यनयोर्नास्ति / 5 ग्रहणे--कं. 1; कं:२; प्रहाणेन-जे. 2; जे. 3 / 6 दृष्टान्त - अ; 7 [ ] एतच्चिह्नान्तर्गतः पाठः ड-पुस्तके नास्ति; 8 श्चेन्न भविष्यति - ड; 9 सिद्धयः सिद्धयति - अ; 10 प्रहणे - अ%; ग्रहणे - के। 11 अर्थदृष्ट्या वह्निव्यक्तिरेकमेव एतादृशः पाठः पूर्वापरसम्बन्धेन स्यादिति भाति अथवा वह्निस्वलक्षणं वह्निव्यक्तिरवयवी एतादृशः पाठः स्यात्- /