________________ न्यायकन्दलीलंवलितप्रशस्तपादभाष्यम् न्यायकन्दली सामथ्यलक्षणोऽपि विशेषः 'सिद्धचत्येव, निर्विशेषस्य सामान्यस्य सिद्धयभावात् / ननु मा सिबचतु सामान्यमिति चेन्न, कार्यत्वेन सह तद्व्याप्ते'रप्रतिक्षेपार्हत्वात् / यदि हि व्याप्तमपि न सिद्धचति, धूमादप्यग्निसामान्यं न सिद्धयेत्, अग्निविशेषस्यानन्वितस्यासिद्धेः, "निर्विशेषस्य च सामान्यस्यानवस्थानात् / अथेवमुच्यते-द्वयमनमानस्य स्वरूपं व्याप्तिः पक्षधर्माता च, तत्र 'व्याप्तिसामर्थ्यात् सामान्यं सिद्धयति, 'पक्षधर्मताबलेन चाभिप्रेतो विशेषः पर्वताद्यवच्छिन्नवह्निस्वलक्षणात्मा सिद्धयति / अन्यथा पक्षधर्मतायाः क्वोपयोगः, क्व 'चानुमानस्य गृहीतग्राहिणः प्रामाण्यम् ? एवञ्चेत, ईश्वरानमानेऽपि तुल्यम्, अन्यत्राभिनिवेशात् / अथ मतम्, सिद्धयत्यनुमाने विशेषोऽपि यत्र प्रमाणविरोधो मास्ति / तथा हि-धूमात्पर्वतनितम्बवतिवह्निविशेषसिद्धौ का नामानुपपत्तिः? दृष्टो हि देशकालादिभेदः स्वलक्षणानाम् / [टि०] माध्यकृत् शबरस्वामी / कार्यत्वेन सह इति:- तस्य सामान्यस्य न्याप्तिः प्रतिहन्तुं न शक्यते, व्याप्तिबलाच्च यत्सामान्य सिद्धयति तद् विशेषाक्रान्तमेव सिद्धयतीति भावः / "ननु [अन्येन केनचित्त"त्त्वानभिमतेन] "विशेषेणाक्रान्तं सेत्स्यतीत्याह पक्षधर्मताबलेन इति-अभिप्रेतो विशेषो नित्यज्ञानादिरूपः सिध्यतीति सम्बन्धः / पक्षधर्मतेति पर्वता [पं०] श्रीधर:-नायं प्रसंग इत्यादि। तद्व्याप्तेरिति = बुद्धिमत्पूर्वकत्वसामान्यव्याप्तेः / पक्षधर्मताबलेन चाभिप्रेतो विशेषः इति / कार्य दमित्याकारेण / व्याप्तमपीति कार्यत्वेति न हेतना व्याप्तमपीत्यर्थः / सामान्यमिति = बद्धिमत्पूर्वकत्वसामान्यम / अग्निविशेषस्यानन्वितस्यासिद्धेरिति-तार्णपर्णादिरथकाष्टादिप्रभव इति यो वह्नविशेषः स धमेन सहान्वितो संयुक्तः / न हि धूमेन विशेषो ज्ञायते / किन्तु वह्निसामान्यम्, अत एव धूमेनासिद्धिरित्यर्थः / क्व चानुमानस्य गृहीतग्राहिणः प्रामाण्यमिति अग्नित्वं हि पूर्वमेव सिद्धम् समस्ति / यदि तदनुमानात्पर्वतादिधर्म्यवच्छिन्नं न प्रतीयते [कु०] सिद्ध्यतीत्यर्थः / तर्हि व्याप्त्या किं क्रियत इत्यत आह-तत्रेति (कं. 55.10) / एवमनङ्गीकारे सर्वानुमानोच्छेदः / प्रतिबन्दी (न्दि) (न) माह यदिहीति (कं. 55.8) दृष्टान्तदृष्टस्य विशेषस्य पभ एव प्रमाणबाधितत्वात्तदितरस्य चाप्याप्त्यत्वान्निविशेषस्य सामान्यस्य सिद्धयोगाद्भूमानुमानेऽपि समान इति भावः / यत्रोभयोः समो दोषः परिहारोऽपि तत्समः / नैक: पर्यनुयोग्यः स्यात्तादगर्थनिरूपणे / / इति दर्शयन्नाह 1 सिद्धचति-जे. 1, जे. 3; सिद्धयतीति-जे. 2 / 2 'नन' जे. 1 पुस्तके नास्ति ; ननु न सिदचतु-जे. 3 / 3 रप्रतिक्षेपत्वात् -कं। 4 निविशेषस्यानवस्थानात् - कं। 5 पक्षधर्मताबलेन इत्याक्लिष्ट: पाठ: जे. 3 इत्यत्र विपर्यस्तः पुनरावृतश्च / 6 वह्निलक्षणात्मा-कं / जे.२। 7 जे.२ इत्यत्र क्वचानुमानस्य इत्यस्य स्यात धारानुमामस्येति पाठः अन्यत् सर्वं जे. 3 वत् आवृत्तम्। 8 नितम्बवृत्ति-कं.। 9 सामान्यं तद्-अ; 1. अन्येन-अ, ब, क; 'ननु' नास्ति / 11 तदा-अ, ब, क; अ-पुस्तके [ ] एतच्चिह्नान्तर्गतः पाठः आवृत्तः / 12 विशेषणा-अ;