________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् 143 न्यायकन्दली मात्रोपलम्भात् / अथ तेषु देशविप्रकर्षेणापि गतेरनुपलब्धौ सम्भवन्त्यां न तया व्याप्तिग्रहणहेतोनिरुपाधिप्रवृत्तस्य भूयोदर्शनस्य प्रतिरोधः, तुल्य'कक्ष्यत्वाभावात् / एवञ्चेत्, 'अत्राप्यशरीरत्वेनाभ्युपेतस्य कर्तुः स्वरूपविप्रकर्षणाप्यङकुराविष्वनुपलम्भसम्भवान्न तेन निरुपाधिप्रवृत्तस्य भूयोदर्शनस्य सामर्थ्यमुपहन्यत इति समानम् / अपि च भोः! किमनुमानेन कर्तृमानं साध्यते? पृथिव्यादिनिर्माणसमर्थो वा? कर्तृमात्रसाधने ताव'दभिप्रेतस्यासिद्धिः, नह्यस्मदाविसदृशः कर्ताऽभिप्रेतो भवताम्, न च सेनेदं पृथिव्यादिकार्य्यमर्वागदृशा शक्यनिर्माणम्, पृथिव्यादिनिर्माणसमर्थस्तु कर्ता न सिद्धयत्यनन्वयात्, अन्वयबलेन हि दृष्टान्तदृष्टकर्तृसदृशः 'सिद्धचतीति / नायं प्रसङ्गः, कर्तृ'विशेषस्याप्रसाधनात्, व्याप्तिसामर्थ्याद् बुद्धिमत्पूर्वकत्वे सामान्ये साध्यमाने पृथिव्यादिनिर्माण [टि०] इत्यभूस्वाभाविवादित्यर्थः। 'अभूत्वाभावित्वं च पूर्वस्वरूपस्योत्तरकालावच्छिन्नं स्वरूपमिति न कार्यत्वानित्यत्वे कारणवतामेवेति भार्यव्याख्यावसरोक्तदोषावकाशः / सावयवत्वाद् इति :-सावयवत्वं यद्यवयवैः सह संयोगः तदाऽऽकाशेन व्यभिचारः, समवायेऽपि सामान्येन व्यभिचारः, तस्यापि पटा'वयवतन्तुसमवेतत्वात् / तस्मात्स्वावयवसमवायः सावयवत्वं, द्रव्यस्य सतो 'द्रव्ये समवाय इत्यर्थः / व्याप्यत्वासिद्धि परो दर्शयति-'ननु व्याप्तिग्रहणाद् इति / मीमांसा [पं०] मनुमानमिह गीयते / 1 / पथा रालंबगव [मरालबक?] ब्यालतमालमलिनत्विषः वृष्टिव्यभिचरन्तीह नैवंप्रायाः पयोमुचः // 1 // कार्यात्कारणानुमानं यत्तच्छेषवत्मतम् / तथाविधमदीपूरान्मेघो वृष्टो यथोपरि // 3 // ( // 2 // ) यच्च सामान्यतोदृष्टं तदेव गतिपूर्विका पुंसि देशान्तरप्राप्तिर्यथा सूर्योऽपि सा तथा // 4 // (3) // इति // परवाक्यं अथ तेष्वित्यादि / तयेति = अनुपलब्ध्या / निरुपाधिप्रवृत्तस्येति = निर्दोषप्रवृत्तस्य / तुल्यकक्षत्वाभावादिति गत्यनुपलब्धे योदर्शनस्य च तुल्यबलत्वं नास्ति / भूयोदर्शनस्य बलवत्त्वात् / गत्यनुपलब्धेश्चाबलत्वात् / तुल्यबलयोश्च विरोधो नान्ययोरिति भावः / श्रीधरवाक्यं एवं चेत्यादि / परः प्राह अपि (च) भोः किमनुमानेनेत्यादि क्वचित्तु-अथ मतं किमनुमामेनेत्यादिति पाठो दृश्यते / सोऽपि प्रमाणम् / अनन्वयाविति = अव्याप्तः / अन्वयबलेनेति-सपक्षानुगमबलेन / [कु.] कर्तुमात्रमिति (कं. 55.1) दृष्टान्तर्मिणि सिद्धः / शरीरा असर्वज्ञ इत्यर्थः / निविशेषस्य सामान्यस्य साधयितुमशक्यत्वात् / ननु पर्वतवर्ती वह्निमहानसत्तिना वह्नेरन्य एव यथा सिद्धयति तद्वदिहापि कुलालादिभ्योऽन्य एव सेत्स्यतीत्यत आह अन्वयबलेनेति (कं. 55.4) / व्यक्तिभेदेऽपि तज्जातीयस्यैव सिद्धि[रि]ति भावः / कर्तृविशेषस्येति (कं. 55.5) व्याप्तिमात्रे[णे]ति शेषः / तर्हि केन साधयिष्यत इत्यत आह व्याप्तिसामर्थ्यादिति (कं. 55.5) / विशेषः (प्र) सिद्धयतीत्यत्र (कं. 55.6) गूढाभिसन्धिः / तमेव विवरीतुं चोदयति "न सिद्धयत्विति (कं. 55.7) विवृणोति नेति (कं. 55.7) / अभिप्रेतं विशेषमुपस्थाप्य प्रतीत्यपर्यवसानं पक्षधर्मताया बलं तेनाभिप्रेतो विशेषः 1 कक्ष-जे. 1, जे. 3 / 2 अत्राशरीर-कं. 1, कं.२। 3 दभिप्रेतासिद्ध:-कं. 1, कं. 2 / जे. १.जे. 3 / 5 विशेषस्य प्रसाधनात्-जे. 2 / 6 अभूतत्वा-अ, ब, 7 घटा-अ, ब; समवायेत्यर्थ:- 9 तमनु-अ, ब, क; 1. मा-कं. 1, कं. 2 / 4 सिद्धयति८ द्रव्य-भ3;