________________ 142 न्यायकन्दलीसंबालतप्रशस्तपादभाष्यम् न्यायकन्दली बुद्धिमत्पूर्वकत्वयोश्च व्याप्तिग्रहणमशक्यम्, घटादिषु कर्तृप्रतीतिकाले एवाङकुरादिषूत्पद्यमानेषु तदभावप्रतीतेः / न चाङकुरत्वादीनामपि पक्षत्वमिति न्याय्यम्, गृहीतायां व्याप्तावनुमानप्रवृत्तिकाले प्रतिवाद्यपेक्षया पक्षादिप्रविभागः, इह तु सर्वदैव प्रतिपक्षप्रतीत्याक्रान्तत्वाद् व्याप्तिग्रहणमेव न सिद्धचतीत्युक्तम् / अत्र प्रतिविधीयते-'घटादिषु कर्तृपूर्वककार्यत्वप्रतीतिरस्ति नाङकुरादिष्वित्येवं द्वैतोपलम्भेऽपि व्याप्तिग्रहणसम्भवे पृथिव्यादिषूपलब्धिमत्पूर्वककार्यत्वानुमानं वर्तते-यदि चैवं द्वैतानुपलम्भाद् व्याप्तिग्रहणाभावः, तदानीं मीमांसाभाष्यकृदभिमतं सामान्यतोदृष्टमादित्यगत्यनुमानमपि न सिद्धयति, तत्रापि देवदत्तगतिपूर्वकदेशान्तरप्राप्तिग्रहणकाल एव 'नक्षत्रादिषु केवल देशान्तरप्राप्ति [टि०] 'विप्रतिपन्नं प्रति महाभूतचतुष्टयमिति कृतेऽन्यतरस्य त्यागेनाकाशस्य ग्रहणे भागासिद्धो हेतुः सिद्धान्तविरोधश्च स्यात्। ['तथा घटस्यापि पक्षान्तर्भूतत्वा] दृष्टान्तः कोऽपि न स्यात्। घटादीनां च 'सकर्तृकत्वाभ्युपगमात् 'भोगे (भागे) 'सकर्तकत्वस्य सिद्धत्वेन साध्यधर्मविशिष्टे धर्मिण्य वर्तमानाद भागासिद्धो हेतः स्यात / तथा 'महा'शब्देन परमाणवद यणुकस्यापि व्यवच्छिन्नत्वात् तस्य पक्षत्वाभावे सकर्तृकत्वासिद्धौ च सपक्षत्वाभावे "अकर्तृकत्वासिद्धौ च विपक्षत्वाभावे तस्य का गतिरिति "नोद्यं स्यात् / तस्माद् विवादाध्यासितमिति पक्षः कार्यः, सन्दिग्धकर्तृकमित्यर्थः / कार्यत्वाद् [पं०] कार्यमेव / कार्यत्वबुद्धिमत्पूर्वकत्वयोश्चेति - कार्यत्वं साधनं बुद्धिमत्पूर्वकत्वं साध्यम् / अंकुरादिषूत्पद्यमानेषु . तदभावप्रतीतेर्बुद्धिमत्पूर्वकत्वाभावप्रतीतेः / अंकुरादयो हि कार्यरूपाः, न तु बुद्धिमत्पूर्वका इति गमनिका। प्रतिवाद्यपेक्षया पक्षादिप्रविभाग इति -प्रतिवादिनोऽप्रतीतो धर्मः प्रतिवादिने साध्यतया प्रतिपाद्यत इत्यर्थः / प्रतिपाद्यपेक्षया पक्षादिप्रविभाग इति पाठान्तरम् / तत्र प्रतिपाद्यः शिष्यः / शेषं सुगमम् / इहत्विति - अंकुरादिषु पुनः / प्रतिपक्षप्रतीत्येति - अबुद्धिमत्पूर्वककार्य त्वप्रतीत्या / मीमांसाभाष्यकृदभिमतमीमांसाभाष्यकृत्शबरस्वामी / सामान्यतोदृष्टमादित्यगत्यनुमानमिति - इह विधाऽनुमानम् / तद्यथापूर्ववच्छेषवच्चैव सामान्यतो दृष्टम् / तत्राचं कारणात्कार्य [कु०] यत्कार्य तत्सकर्तृकमिति / इह तु सर्वदेवेति, (कं. 54.18) एवमेव व्याप्तिग्रहणे धूमरासभयोरपि व्याप्तिः स्यादिति भावः / "तदा मीमांसेति (कं. 54.20) यद्यप्याकाशादिदेशस्थाप्रत्यक्षतया भिन्नतया च देशान्तरप्राप्तिरादित्यस्य सिद्धा तथापि भवदभिमतमनुसृत्य प्रतिबन्धसिद्धिरिति भावः / समानन्यायतया प्रतिबन्दी मोचनमाशङ्कते अथ तेष्विति (कं. 54.22) / तुल्यक"क्ष्यत्वाभावादिति (कं. 54.24) कर्तुर्योग्यतयेति भावः / स्वाभ्युपगमप्रदर्शनेन तुल्यकक्ष्यत्वं दर्शयति एवं चेदिति (कं. 54.24) / 1 'घठादिष्वारम्य...वर्तते' पर्यन्तः पाठः-कं. 1; कं. 2 इति पुस्तकयो स्ति। 2 नक्षत्रादिषु देशान्तरंकं. 1; कं. 2 / 3 विप्रति तु-अ, ब; 4 काशग्रहणे-अ, ब; 5 [ ] एतच्चिह्नान्तर्गतः पाठः ड पुस्तके नास्ति / 6 सकर्तृत्वा-अ, ब; 7 भावे-ड; 8 सकर्तृत्व - अ, ब; 9 वर्तनाद्-ब, क; 10 'अकर्तृकत्वासिद्धावसपक्षत्वाभावे' इत्यधिकं ब पुस्तके, अ पुस्तके अकर्तृत्वासिद्धौ च इति नास्ति। 11 नाद्यं-अ%B 12 तदानीं मीमांसाभाष्यकृत्-कं 1, कं. 2 / 13 °कक्ष्यत्वा-कं 1, कं. 2 /