________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् 141 न्यायकन्दली 'परस्परं संवदन्तः व्यवहरन्ति / तेषां व्यवहारात् तत्कालवत्तिनां प्राणिनां व्युत्पत्तिः, तद्व्यवहाराच्चान्येषा'मित्युपपद्यते व्यवहारपरम्परया शब्दार्थव्युत्पत्तिरित्यर्थः / [67] किं पुनरीश्वरसद्भावे प्रमाणम्? आगमस्तावदनुमानञ्च। महाभूतचतुष्टयमुपलब्धिमत्पूर्वकं कार्यत्वाद् 'यत्कार्यं तदुपलब्धिमत्पूर्वकं यथा घटः कार्यञ्च महाभूतचतुष्टयं तस्मादेतदप्युपलब्धिमत्पूर्वकम् / प्रमाणेन पूर्वकोटयनुपलब्धेरसिद्धं पृथिव्यादिषु कार्यत्वमिति चेत् ? तदयुक्तम्, सावयवत्वात्, यत्सावयवं तत्कायं यथा घटः सावयवञ्च पृथिव्यादि तस्मादेतदपि कार्यमेव / ननु व्याप्तिग्रहणाद'नुमानस्य प्रवृत्तिः, कार्यत्व [टि०] [67] . [ // अथ प्रसङ्गागतमीश्वरसिद्धिनिरूपणम् / / ] आगमस्तावद् इति:-नन्वागमस्याप्यनुमानेऽन्तर्भावात् द्वयोरुपादाने पौनरुक्त्यम् ? न, आगमशब्देनानुमानान्तर्भावानन्तर्भावे विवादास्पदमनुमानमुच्यते, अनुमानशब्देन तु निर्विवादमिति / अत्र च * अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। . ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा // इत्यागमः, प्रसिद्धत्वान्न दर्शितः / अत्र च महाभूतचतुष्टयमिति प्रस्तावतोऽनन्तरोक्तं चतुष्टयं गृह्यते / [पं०] [67] आगमस्तावदितिअज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः / ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा // इत्यागमः / / महाभूतचतुष्टयमिति -पृथिव्यप्तेजोवायुलक्षणम् / उपलब्धिमत्पूर्वकमिति - उपलब्धिमान् = बुद्धिमान् पूर्वकारणं यस्य सदुपलब्धिमत्पूर्वकम् / प्रमाणेन पूर्वकोटयनुपलब्धेरिति-पूर्वकोटिशब्देनादिरुच्यते / यत्किल कार्य घटादि तस्यादिः प्रमाणेनोपलभ्यते, न तु पृथिव्यादीनामादिरुपलभ्यते, अतस्तेषां कार्यत्वं नोचितमिति पराशयः / सावयवादिति अत्रैवं प्रयोग:-कार्य पृथिव्यादि / सावयवत्वात् / यद्यत्सावयवं तत्तत्कायं यथा घट: / सावयवं च पृथिव्यादि / तस्मात्तदपि [कु०] [67] ननु सृष्टिसंहारयोश्च प्रमाणमागम एव, स चेश्वरे प्रमाणभावेनातत्पर इति शङ्कमानः पृच्छति कि पुनरिति (कं. 54.10) / आगमस्तावदिति (कं. 54.10) 'द्यावाभूमी जनयं देव एक' इत्यादिः सुप्रसिद्ध इति भावः / महाभूतचतुष्ट[य] मिति (कं. 54.10) सकर्तृकतया च विप्रतिपन्नं विवक्षितम् / तेन न प्राकारादी सिरसाधनमित्यर्थः / प्रमाणे [ने]ति (कं. 54.12) कार्यत्वं नाम कारणवत्त्वम्, कारणं चोत्पत्तेः पूर्वस्मिन् क्षणे वर्तमानमुपपत्तिनिश्चयात्तदु ... निश्चयमिति भावः / तदयुक्तमिति (कं. 54.13) अनुमानेन निश्चयादित्यर्थः / इह 1 परस्परं बहवो-कं. 1; कं. 2 / 2 च्चापरेषाम् - जे. 1; जे. 3 / 3 मित्युत्पद्यते-कं. 1 / 4 यद्यत् कार्य - जे. 3 / 5 नुमानप्रवृत्ति:-कं. 1; कं. 2 / 6 मानान्तर्भावनन्तरमपि-अ, ब, क; 7 प्रसिद्धत्वात् दर्शत -म; 8 कृतेऽन्यतरस्य त्यागेन इति -अ, ब, क; पुस्तकेषु अधिकम् /