________________ 140 न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् न्यायकन्दली पितृगणान् / मुखबाहूरुपादतश्चतुरो वर्णान् मुखाद् ब्राह्मणान्, बाहूभ्यां क्षत्रियान्, अरुभ्यां वैश्यान्, पद्भयां शूद्रान्, अन्यानि चोच्चावचानि क्षुद्रक्षुद्रतराणि च भूतानि सृष्ट्वा, आशयानुरूपैः आशेते फलोपभोगकालं यावदात्मन्यवतिष्ठत इत्याशयः कर्म, तदनुरूपैधर्मज्ञानवैराग्यश्वर्यैः, संयोजयति यस्य यथाविधं कर्म 'तत्तदनुरूपेण ज्ञानादिना सम्यग् योजयति, मात्रयाऽप्यन्यथा न करोतीत्यर्थः / [66] यत् खल केचिदेवमाचचक्षिरे-प्रेक्षावत्प्रवृत्तिरिष्टार्थाधिगमा स्यादनिष्टपरिहारार्था वा, न चेष्टानिष्टप्राप्तिपरिहारावीश्वरे 'समस्तावाप्तकामे सम्भवतः, तेनास्य जगन्निर्माणे प्रवृत्तिरनुपपन्ना / तत्रोत्तरम्-प्राणिनां भोगभूतय इति / 'परार्था सिसृक्षायां प्रवृत्तिन स्वार्थनिवन्धनेत्यभिप्रायः / नन्वेवं तहि सुखमयीमेव सृष्टि कुर्यान्न दुःखशबलां करुणाप्रवृत्तत्वा दित्यत्रैष परिहारः-प्राणिनां कर्मविपाकं विदित्वेति / परार्थं प्रवृत्तोऽपि न सुखमयीमेव करोति, विचित्रकर्माशयसहायस्य कर्तृत्वादित्यर्थः / न चैवं सति करुणाविरोधः, 'दुःखोत्पादस्यापि वैराग्यजननद्वारेण परमपुरुषार्थहेतुत्वात् / यदि धर्माधर्मावपेक्ष्य करोति नास्य स्वाधीनं कर्तृत्वमित्यनीश्वरतादोष इत्यस्यायं प्रतिसमाधिःभाशयानुरूपैर्धर्मज्ञानवैराग्यश्वर्यैः संयोजयति / स हि सर्वप्राणिनां कर्मानुरूपं फलं प्रयच्छन् कथमनीश्वरः स्यादिति भावः / नहि योग्यतानुरूप्येण भृत्यानां फलविशेषप्रदः प्रभुरप्रभुभवति / कल्पावावुत्पन्नानां प्राणिनां सर्वशब्दार्थेष्वव्युत्पन्नानां सङ्केतस्याशक्यकरणत्वाच्छाब्दव्यवहारानुपपत्तिरिति चोदनायां प्रत्यवस्थानबीजमिदम्-मानसानिति / योनिजशरीरो हि महता गर्भवासादिदुःखप्रबन्धेन विलुप्तसंस्कारो जन्मान्तरानुभूतस्य सर्वस्य न स्मरति / ऋषयः प्रजापतयो मनवस्तु मानसा अयोनिजशरीरविशिष्टादृष्ट सम्बन्धेनाऽभ्रष्टसंस्काराः कल्पान्तरामभूतं सर्वमेव शब्दार्थव्यवहारं सुप्तप्रतिबुद्धवत् प्रतिसन्वधते, प्रतिसन्दधानाश्च [कु०] परमपुरुषार्थहेतुत्वादिति (कं. 53.23) कारुणिकोऽयमित्युपासकानां भक्तिश्रद्धातिशयसिद्ध एव / वचनमेतत्पर मार्थतत्कारणस्वभावानरोधित्वमस्य स्वभाव इति परिहार:, इतरथाऽपवर्गस्यैव कारुणिकतया सम्पादनप्रसक्तेरिति / कथमनीश्वरः स्यादिति (कं. 53.26) अचेतनप्रवर्तकत्वादीश्वरत्वमिति भावः / 1 तदनुरूपेण-जे. 1; जे. 3 / 2 प्राप्तसमस्तकामे-जे. 1; जे. 3 / 3 परार्थं सिसक्षया-जे. 1; जे. 3 / 4 दित्यत्रव-जे.१; जे. 3 / 5 पादस्य - कं.१; कं. 2 / 6 भवतीति-जे.१; जे.३। 7 सम्बन्धिनो दृष्ट - कं. 1; कं.२।