________________ 139 टिप्पणपम्बिकाकुसुमोद्गमाविटीकात्रयोपेतम् प्रशस्तपादभाष्यम् एवं समुत्पन्नेषु चतुर्षु महाभूतेषु महेश्वरस्याभिध्यानमात्रात् तंजसेभ्योऽणुभ्यः पार्थिवपरमाणुसहितेभ्यो महदण्ड मारभ्यते। तस्मिश्चतुर्वदनकमलं सर्वलोकपितामहं ब्रह्माणं 'सकलभुवनसहितमुत्पाद्य प्रजासर्गे 'विनियुङक्त। [66-67-68-69] स च महेश्वरेण विनियुक्तो ब्रह्मातिशयज्ञानवैराग्यश्वर्यसम्पन्नः प्राणिनां कर्मविपाकं विदित्वा कर्मानुरूपज्ञानभोगायुषः सुतान् प्रजापतीन् मानसान् मनुदेवर्षिपितृगणान् मुखबाहूरुपादतश्चतुरो वर्णानन्यानि चोच्चावचानि 'भूतानि च सृष्ट्वाशयानुरूपैर्धर्मज्ञानवैराग्यैश्वर्यैः संयोजयतीति / - न्यायकन्दली एवम् अनन्तरोक्तेन प्रक्रमेणोत्पन्नेषु महाभूतेष महेश्वरस्य अभिध्यानमात्रात् सङ्कल्पमात्रात्, तैजसेभ्यः परमाणुभ्यः पार्थिवपरमाणुसहितेभ्यो महदण्डं महद् बिम्बमारभ्यते / बिम्बारम्भे पार्थिवा अवयवा उपष्टम्भकाः, तेमेदं वह्निपुञ्जप्रायं नाभूत् / तस्मिन्नण्डे चत्वारि वदनकमलानि यस्य तं ब्रह्माणं सर्वलोकपितामहं सर्वेषामेव लोकानामाद्यं पुरुषं समस्तैर्भुवनैः सहोत्पाद्य प्रजानां सर्गे जनने विनियुङक्ते त्वमिदं कुविति / स च महेश्वरेण विनियुक्तो ब्रह्मातिशयज्ञानवैराग्यश्वर्यसम्पन्नो ज्ञानञ्च वैराग्यञ्चश्वर्यञ्च ज्ञानवैराग्यश्वर्याणि, अतिशयेन ज्ञानवैराग्यश्वर्याणि तैः सम्पन्न उपचितो ज्ञानातिशयात् प्राणिनां धर्माधम्र्मी यथावत् प्रत्येति / वैराग्यान्न पक्षपातेन प्रवर्तते, ऐश्वर्यात् कर्मफलं भोजयति / प्राणिनां कर्मविपाकं विदित्वेति / 'विविधन प्रकारेण पाको विपाकः, कर्मणां विपाकः कर्मविपाकः, तं विदित्वा एतावदस्य कर्मफलं भविष्यतीति ज्ञात्वा, कर्मानुरूपाणि "ज्ञानभोगायूंषि येषां तान् सुतान् प्रजापतीन् दक्षादीन् मानसान मनः "सङ्कल्पमात्रप्रभवान् मनुदेवर्षिपितृगणान् मनून, देवान, ऋषीन्, [10] [66] केचिदिति - सांख्यादयः / [कु०] [66] सृष्टिक्रमप्रतिपादनं भा(भाष्यस्या) ख्यस्यावयवाथं व्याख्याय तात्पर्यमभिदधानः परोक्षानि दूषणानि परिहरति "यत्तु खल्विति (कं. 53.15) "प्राप्तसमस्तकाम इति (कं. 53.17) स्वभावत एव सर्वज्ञत्वादसंसारिणीति भावः / " परार्थ [सि] सृक्षयेति (कं. 53.18) प्रवृत्तेरिष्टप्राप्त्यनिष्टपरिहारार्थत्वे रागादिरुपाधिरित्ययः / 1 परमाणुभ्यः व्यो.। 2 मुत्पद्यते-कि.। 3 सर्व-दे.। 4 नियुङ्क्ते-दे.। 5 न्यान्यप्यु-दे.। भूतानि-कि., ता.,दे.। 7 संयोजयति-ता. 8 कुर्वति-जे.१। विविधप्रकारेण-जे. 1, जे. 3 / 10 ज्ञानभोगायूंषि तान् - कं. 1, कं. 2 / 11 सङ्कल्पप्रभवाम् - कं. 1, कं. 2 / 12 यत्खलु-कं. 1, कं. 2 / 11 समस्तावाप्तकाम-कं.। 14 परासिसक्षायां-कं. 1, कं. 2 /