________________ 138 -- न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम प्रशस्तपादभाष्यम् प्रक्रमेण महान् वायुः समुत्पन्नो नभसि दोधूयमामस्तिष्ठति / तदनन्तरं 'तस्मिन्नव वायावाप्येभ्यः परमाणुभ्यस्तेनैव क्रमेण महान् सलिलनिधिरुत्पन्नः पोप्लूयमानस्तिष्ठति / तवनन्तरं 'तस्मिन्नेव जलनिधौ पार्थिवेभ्यः परमाणुभ्यो 'महापृथिवी समुत्पन्ना संहतावतिष्ठते / तदनन्तरं तस्मिन्नेव महोवधौ तैजसेभ्योऽणुभ्यो द्वषणुकादिप्रक्रमेणोत्पन्नो महांस्तेजोराशिः केनचिदनभिभूतत्वाद्देदीप्यमानस्तिष्ठति / न्यायकन्दली 'माहिताग्न्यादित्वान्निष्ठायाः पूर्वनिपातः, दम्तजात इति यथा। सर्वात्मगताश्च वृत्तिलब्धाश्चादृष्टाश्च तानपेक्षन्ते 'ये तत्संयोगा आत्माणुसंयोगास्तेभ्यः पवनपरमाणुषु काण्युत्पद्यन्ते / पवनपरमाणवः समवायिकारणम् / लब्धवृस्यदृष्टवदात्मपरमाणुसंयोगोऽसमवायिकारणम् / अदृष्टं निमित्तकारणम् / एवं कर्मोत्पत्तौ तेषां पवनपरमाणनां परस्परसंयोगा जायन्ते / तत्संयोगेभ्यश्च द्वघणुकाभ्युत्पद्यन्ते / तदनु त्र्यणुकानीत्यनेन क्रमेण महान् वायुः समुत्पद्यमानो नभसि आकाशे दोधूयमानः क्वचिदप्रतिहतत्वाद् वेगातिशययुक्तस्तिष्ठति / तदनन्तरं तस्मिन्नेव वायावाप्येभ्यः परमाणुभ्यः, तेनैव क्रमेण पणकादिक्रमेण, महान् सलिलनिधिरुत्पन्नः पोप्लूयमानः प्रतिरोधकाभावात् सर्वत्र प्लवमानस्तिष्ठति / तदनन्तरं जलनिधेरुत्पत्त्यनन्तरम्, तस्मिन्नेव जलधौ पार्थिवेभ्यः परमाणुभ्यो महापृथिवी समुत्पन्ना संहता स्थिरस्वभावावतिष्ठते / तदनन्तरं तस्मिन्नेव महोदधौ तैजसेभ्योऽणुभ्यो द्वयणकादिप्रक्रमेणोत्पन्नो महांस्तेजोराशिः केनचिदनभिभूतस्वाद्देदीप्यमानस्तिष्ठति / यद्यपि पयःपावकयोः स्वाभाविको विरोधस्तथाप्यदृष्टवशेनाधाराधेयभावो नानुपपन्नः / [पं०] मादीन् प्रथमं वेदाध्येतॄन् / पितृगणानिति-पितॄन् कव्यवालादीन् स्वधाभोगाधिकारिणः / गणान् - कुष्मांडादीन् बलिभोगिनः। [कु०] अप्रतिहतत्वादिति (कं. 52.16) तदानीं (प्रति) प्रतिघातकस्य मूर्तान्तरस्याभावादित्यर्थः / तस्मिन्नेव वायाविति (कं. 52.16) वेगवत्वात् स्पर्शवत्वाच्च गुरुत्वप्रतिबन्धकत्वदृष्टवशाद्रष्टव्यम् / सङ्कल्पमागादिति (कं. 52.24) तत्कालोपाधिसमकृतादिच्छाया मात्रान्न तु कुलालादिवत् कायव्यापारात् / 1 तस्मिन्नेवाप्येभ्यः-कि; ना; दे.। 2 तस्मिन्नेव पार्थिवेभ्य:-कं. 1, कं. 2, दे.। तस्मिन्पार्थिवेभ्योऽणुभ्यः-ता. / 3 महापृथिवी संहता-कं. 1; कं. 2 / 4 ततः-ता.। 5 वाहिताग्न्या-जे. 1, जे. 3 / 6 ये तत्संयोगास्तेभ्यः पवनपराणषु-जे. 1, परमाणुषु-जे 3 / 5 त्र्यणकम् -जे. 1; जे. 3 / 8 महापृथिवी संहता- कं. 1, कं. 2 /