________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 137 प्रशस्तपादभाष्यम् [65-अ] ततः पुनः प्राणिनां भोगभूतये 'महेश्वरस्य सिसृक्षानन्तरं सर्वात्मगतवृत्तिलब्धादृष्टापेक्षेभ्यस्तत्संयोगेभ्यः पवनपरमाणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगेभ्यो द्वयणुकादि न्यायकन्दली इत्याह-तथेति / यथा शरीरेन्द्रियाणामापरमाण्वन्तो विनाशस्तथा महाभूतानामप्यनेनैव क्रमेणेति / परमाणुक्रियाविभागादिक्रमेणोत्तरस्मिन्नुत्तरस्मिन् सति पूर्वस्य पूर्वस्य विनाश इति / जले तिष्ठति पूर्व पृथिव्या विनाशः, तेजसि तिष्ठति जलस्य, वायौ तिष्ठति तेजस इत्यर्थः / ततः प्रविभक्ताः परमाणवोऽवतिष्ठन्ते धर्माधर्मभावनाख्यसंस्काररनुविद्धा उपगृहीताश्चात्मानस्तावन्तमेव कालं ब्रह्मणो वर्षशतमेवावतिष्ठन्ते / दिगाबयोऽपि तिष्ठन्ति नित्यत्वात् / किन्त्वात्मनामदृष्टधशात् परमाणवः 'पुनर्नारप्स्यन्त इति / प्राधान्याददृष्टवशादात्मपरमाण्ववस्थानसंकीर्तनम् / [65] एवं संहारक्रम प्रतिपाद्य सष्टिक्रमं प्रतिपादयन्नाह-ततः पुनरिति / यद्यपि तदा नीमात्मनां प्राणसम्बन्धो नास्ति, तथापि प्राणिन इत्युक्तं योग्यत्वात् / तेषां भोगभूतये सुखदुःखानुभवोत्पत्तये महेश्वरस्य सिसृक्षा सर्जनेच्छा जायते / तदनन्तरं सर्वेष्वात्मसु गता. अवृष्टा वृत्ति लभन्ते / यद्यपि युगपदुत्पद्यमानासंख्येयकार्योत्पत्तौ व्याप्रियमाणा दिगाविवनित्यत्वादेकैवेश्वरेच्छा क्रियाशक्तिरूपा, तथाप्येषा तत्तत्कालविशेषसहकारिप्राप्तौ कदाचित् संहारार्था भवति, कदाचित् सृष्टयर्था 'स्यात् / यदा संहारार्था तदा सवनुरोधावदृष्टानां वृत्तिनिरोध औदासीन्यलक्षणो जायते / यदा त्वसौ सृष्टयर्था भवेत्तदा वृत्तिलाभः स्वकार्य्यजननं प्रति व्यापारो भवति / वृत्तिर्लब्धा यैस्ते वृत्तिलब्धा इति / [पं०] [65 अ] क्रियाशक्तिरूपेति कार्याणि प्रतिसमथरूपा। संकल्पमाश (प्रा) दिति-न तु कुलालादिवत्सामग्रीयोगादित्यर्थः / प्रनापतीनिति-तत्प्रतिनियतप्रजास्रष्टुन् / मनूनिति-स्वायंभूप्रभृतीन् राजधर्मप्रवर्तयितॄन् / ऋषीनिति-गौत [कु०] [65] योग्यत्वादिति (कं. 52.3) भाविकर्मापेक्षयेति भावः / वृत्ति लभन्ते (कं. 52.5) कार्याभिमुखी भवन्ति / ननु सिसृक्षा संजिहीर्षयोः कादाचित्कतयेश्वरेच्छाया नित्यता-विरोध इत्यत आह यद्यपीति (कं. 52.5) / एव न परमाणुष्वपि क्रमे आगमः प्रमाणं द्रष्टव्यम् / 1 महेश्वरसिसृक्षा-कं. 1, कं. 2 / 2 पुनरारप्स्यन्ते -- जे. 1, जे. 3) अत्र पुनरुत्पत्तिकाले इत्यर्थो गृह्यते सहि पुनरारप्स्यन्ते इति पाठ एव साधीयान, ब्राह्मणो निशाकालो यदि गृह्यते तदा नारीस्यन्त इति पाठः साधीयान् / अत्र त्वस्माभिः सन्दर्भ निरीक्ष्य ब्रह्मणो निशाकालो गृहीतः सं.। .3 तदा-कं. 1, कं. 2 / 4 स्यात् - कं. 1, कं.२ /