________________ 136 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् ज्वलनपवनानामपि महाभूतानामनेनैव क्रमेणोत्तरस्मि'श्रुत्तरस्मिन् सति 'पूर्वस्य पूर्वस्य विनाशः / ततः 'प्रविभक्ताः परमाणवोऽवतिष्ठन्ते धर्माधर्मसंस्कारा'नुविद्धाश्च आत्मानस्तावन्तमेव कालम् / / न्यायकन्दली सर्वेष्वात्मसु समवेतानामदृष्टानां वृत्तिनिरोधः शक्तिप्रतिबन्धः स्यात् / तस्मिन् सत्यनागतानां शरीरेन्द्रियमहाभूतानामनुत्पत्तिः। उत्पन्नानाञ्च विनाशार्थ महेश्वरेच्छात्माणसंयोगेभ्यः कर्माणि जायन्ते। महेश्वरेच्छासञ्जिहीर्षालक्षणा। अण्विति परमाणुपरिग्रहः। महेश्वरस्येच्छा चात्माणुसंयोगाश्चेति विग्रहः / तेभ्यो जातानि महेश्वरेच्छात्माणुसंयोगजानि तेभ्यो महेश्वरेच्छात्माणुसंयोगजकर्मभ्यः / शरीराणामिन्द्रियाणां ये पारम्पर्येण कारणमता अणवस्तेषु विभागा भवन्ति / विभागेभ्यस्तेषामणूनां संयोगनिवृत्तिः / संयोगनिवृत्तौ सत्यां तेषामापरमाण्वन्तो विनाशः / तेषां शरीरेन्द्रियाणां द्वघणुकादिविनाशप्रक्रमेण तावद्विनाशो यावत्परमाणुरिति / / 'प्रजामकाण्डे संहरन्नयमकारुणिको यत्किञ्चनकारी च स्याविति यत्केनचिदुक्तं तत्रेयं प्रतिक्रिया-प्राणिनां निशि विश्रामार्थमिति / यदप्येतदुक्तम्-“अनन्तानामात्मनामनन्तेष्वदृष्टेषु क्रमेण परिपच्यमानेष केचिददष्टक्षयान् भोगादुपरमन्ते भुज्यन्ते च केचित् / 'अपरे तू भोगाभिमुखा इत्येवं सर्वत्र विषयप्रवृत्तौ न शरीरादीनां युगपदभावो घटते" इति, तदनेन पराहतम्-भवृष्टानां वृत्तिप्रतिबन्ध इति / ब्रह्मणोऽपवर्गकाले निशीत्युक्तम् / तत्र सर्वप्राणिनां प्रबोधप्रत्यस्तमयसाधर्म्यणोपचारात् / महाभूतानामप्येवं विनाश [टि०] पचतीति "गम्यमानक्रियाविशेषणे 'पावत्', 'तावच्छ'ग्दो, अन्यथा तु यावच्छब्दयोगे ग्रामं "गच्छतीस्यादिवत् द्वितीया स्यात् / उत्तरस्मिन् इति :-पृथिव्युदकज्वलन"पवनेतिपाठक्रमापे"क्षयोत्तरोत्तरत्वं न तु सृष्टयपेक्षयेति / आशयेति:-"कर्मेति धर्माधर्मों धर्मेणापि धर्मस्योत्पाद्यत्वात् धर्मस्यापि धर्मानुरूपत्वम् / ज्ञानादिना इति :- ननु पूर्व धर्मज्ञानेत्युक्तं इदानीं तु कथं ज्ञानादिनेति? सत्यम्, धर्मस्य परं प्रत्युपयोगाभावात / विचित्रकर्माशयसहायस्य इति :अत्र कर्म "यागादि तज्जनिती धर्माधर्मावाशयः कर्माशय इति "व्याख्येयम् // 1 मुत्तरस्मिंश्च -कि; ता.। 2 पूर्वपूर्वस्य -कि.। 3 प्रविभक्ता एव-दे.। 4 नुविद्धा - कं. 1, कं. 2 / 5 महेशरस्येनछा-मे... जे.३। पाठोऽयं कं. 1. कं. 2 पस्तकयो स्ति / 7 प्रजाना-कं. 1. कं. 8 अपरे भोगाभिमखा-जे. 1, जे. 3 / 9 ऽपवर्गकालो निशेत्यक्तम-जे...जे. 3 / 10 गम्यमानत्प-अ.ब.क 11 गच्छतीतिवत् -अ; 12 पवनपवनेति - भ, ब, क; 13 पेक्षयोः पूर्वोत्तरत्वं-अ, ब, क; 14 धर्मेति - अ, ब, 15 यागादि-अ, ड; 16 व्याख्येयः-अ%;