________________ 132 न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् प्रशस्तपादभाष्यम् [64] प्राणोऽन्तःशरीरे रसमलधातूनां प्रेरणादिहेतुरेकः सन् क्रियाभेदा'दपानादिसंज्ञां लभते। न्यायकन्दली अवयवानामप्यवयवित्वविवक्षया स्थूलवायुपरिग्रहार्थम्, अणुपरिमाणस्य तृणादिप्रेरणसामर्थ्याभावात् / ऊर्ध्वगमनमपि तयोरप्रत्यक्षमिति 'तत्प्रतिपत्तावनुमानमाहतृणादिगमनेनानुमीयत इति। [64] लोके योगशास्त्रे च विषयवायोर्भेदेन प्रसिद्धस्य 'प्राणाख्यस्य स्वरूपमाहप्राणोऽन्तःशरीर इति / अन्तःशरीरे यो वायुर्वर्तते स प्राण इत्युच्यते / तस्यार्थक्रियां कथयति-रसमलधातूनां प्रेरणादिहेतुरिति / रस इति 'भुक्तपीताहारेषु पाकजोत्पत्तिक्रमेणोत्पन्नस्य द्रव्यविशेषस्य ग्रहणम् / 'मल इति मूत्रपुरीषयोरभिधानम् / धातवस्त्वामांसास्थिशोणितादयः, तेषां प्रेरणस्येतस्ततो नयनस्य, आदिशब्दाद् व्यूहनस्य च [टि०] [64] धातव इति रसस्य स्वरूपेणैव ग्रहणात् त्वचोऽत्र धातुत्वम् // [पं०] पुरीषवर्तुलत्वादिरचनायाः। एकस्मिन्नाश्रये मूर्तानां समावेशाभावादिति-यत्पुनरनेकप्रदीपप्रमाणामेकत्रसमावेशस्तत्रानुद्भूतस्पर्शत्वं कारणम्, वायुस्तूद्भूतस्पर्श इति हृदयम् // इति वायुः॥ [p0] [64] ननु प्राणोऽपि विषय एवोपलभ्यमानस्पर्शाधिष्ठानत्वात् तत्कथं भवद्भिरप्य उपादीयत इत्यत आह लोक इति (कं. 47.24) प्रकारान्तरेण पुरुषार्थहेतुत्वादिति भावः / 'भुक्तपीताहारस्येति (47.26) पीतं क्षीरादि द्रष्टव्यम् अपां पाकाभावात् / तस्येति (कं. 47.25) शरीरे / पञ्चवायव इति (कं. 48.2) लोकयोगशास्त्रप्रसिद्ध मूर्तानुमामदेशस्य विरोधं चानुसृत्य वादिविप्रतिपत्तेरिति शेषः // कारुण्यामृतकच्छमूहननि या श्रीधराचार्यवाक् तज्जाय्यानयकन्दलीकुहकग्ग्रीष्मोष्मणा शोषिता। वज्रब्रह्मनृपांबुदध्वनिमसावासाद्य सूतेऽधुना न्यायाख्यप्रसवश्रियं विदधनीति तर्काभिसंधं सौरभम // 1 पानादि पञ्च सज्ञां-ता., प्राणापानादिसज्ञां-कि.। 2 तत्प्रतिपत्तावपि-जे.१, जे. 3 / 3 प्राणस्य - जे. 1, जे. 3 / 4 भुक्तवतामाहारेषु-कं. 1, कं. 2 / 5 मलमिति -जे. 1, जे. 3 / 6 रूपेणैव-अ%B 7 तनुवोऽत्र धातुत्वम्-अ, ब, क; त्वचोऽत्र धात्वर्थ-ड; 8 प्रतीकमिदं कं. 1 पुस्तके नास्ति / अत्र भाव्यांतत्प्रतीकेन /