________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 131 प्रशस्तपादभाष्यम् [63] तस्याप्रत्यक्षस्यापि नानात्वं सम्मूच्र्छनेनानुमीयते / सम्मूर्च्छनं पुनः समान'जवयो य्विोविरुद्धदिक्रिययोः सन्निपातः, सोऽपि 'सावयविनोर्वाय्वोरूवंगमनेनानुमीयते, 'तदपि तृणादिगमनेनेति / न्यायकन्दली [63] अनुमीयमानेष्वा काशात्मादिष्वेकानेकत्वोपलब्धौ संशये सति तद्व्युदासार्थमाहतस्याप्रत्यक्षस्यापीति / सम्मूर्छनमपि न ज्ञायते तदर्थमाह-सम्मूर्छनमिति / विरुद्धायां दिशि क्रिया ययो'स्तयोः समानवेगयोः सन्निपातः परस्परगतिप्रतिबन्धहेतुः संयोगविशेषः सम्मूर्छनम्, तेन वायो नात्वमनुमीयते एकस्य संयोगाभावात्, एकदिक्प्रस्थितयोर्यथाक्रमं गच्छतोः सम्मूर्छनाभाव इति विरुद्धदिक्रिययोरित्युक्तम् विरुद्धदिक्क्रिययोभिन्नदिक्क्रिययोरित्यर्थः / असमानवेगयोः सम्मूर्छनं न भवति, एकेनापरस्य विजयात् तवर्थ समानजवयोरिति / अप्रत्यक्षयोर्यथा नानात्वमप्रत्यक्ष तथा संयोगोऽपीति मत्त्वेदमाहसोऽपीति / सन्निपातोऽपि / सावयविनोर्वाय्वोरुर्ध्वगमनेनानुमीयते, वायोरूर्ध्वगमनं परस्परव्याहतिपूर्वकमन्यकारणासम्भवे सति तिर्यग्गतिस्वभावद्रव्योर्ध्वगतित्वात् परस्पराहतजलतरङ्गोर्ध्वगमनवत् / अवयविमोरिति वक्तव्ये सावयविनोरित्युक्तम्, [fro] भस्त्राविप्रेरणव्यवच्छेदार्थम् / यद्यपि चात्र जलतरङ्गावयवी गुरुत्ववत्वाद् अधोगमनस्वभावः तिर्यग्गमनं तु वाताविप्रेरणकृतं तथापि दृष्टान्तीकृतयोनिवातप्रवेशस्थितामुल्याहतजलतरङ्गयोस्तिर्यग्ग"तिरप्यस्तीति न दृष्टान्तासिद्धिः / [पं०] अन्यकारणसम्मवे सतीति भित्यादि प्रति स्यू (?) लितेन वायुना व्यभिचारो माभूदित्यन्यकारणसंभवे सतीत्यक्तम् / विषयवायो)देनेति विषयभूत: स्पर्शादिलिंगो यो वायुस्तस्य सकाशात्पार्थक्येन / व्यूहनस्येति-छागादिषु [कु०] [63] अनुमीयमानेष्विति (कं. 47.11) अनुमीयमानत्वात्समानधर्मात्संशय इत्यर्थः / न ज्ञायत इति (कं. 47.19) व्याख्यानादृते इति भावः / तदर्थमाहेति (कं. 47.12) व्याचष्टे इत्यर्थः / "एकस्य (सं) योगाभावाविति (कं. 47.15) सप्पंकुण्डलावावयवानामेव च परस्परसंयोगः / न तु तेनैव तस्य प्रतीत्यभावात् नहि स्वयं स्वेन संयुज्यत इति कश्चित्प्रत्येतीति भावः / तथा संयोगोऽपोति (कं. 47.18) अरूपिद्रव्यत्वादचाक्षुषत्वं सङ्ख्यादिसप्तकसाधारणमिति भावः / अणुपरिमाणस्येति (कं. 47.22) घणुकपरिमाणस्येति भावः / / 1 जवयोविरुद्धदिक्क्रिययोर्वाय्वो:-कि.। 2 तृणादिगमनेनानुमितेन सावयविनोरूर्वगमनेनानुमीयते - कि., दे., साषयविनोरूवंगमनेनानुमीयते तदपि तृणादीमामूवंगमनेन व्योः / भत्र तु पाठः कन्दल्यानुसारी स्वीकृतः / 3 'तदपि' इति 'दे' पुस्तके नास्ति / 4 °काशादिष्बने-कं. 1, कं. 2 / 5 तयोः सन्निपातः- कं. 1, कं. 2 / 6 पाठोऽयं-कं. 1, कं. 2 पुस्तकयो स्ति। 7 सोपीति / सोऽपि =सन्निपातोऽपि-कं. 1, कं.२। 8 वद्यवीअ, ब; 9 स्थितागुप्याहत-अ, ब, क; 10 भवति-अ, ब, 11 एकस्य संयोगाभावाद्-कं.१।.....