________________ 130 न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् न्यायकन्दली - तथा वृक्षादीनां कम्पविशेषः स्पर्शवद्रव्यसंयोगजो विशिष्टकम्पत्वाद् नदीपूराहतवेतसादिवनकम्पवत् / भूकम्पेन व्यभिचार इति चेन्न, तस्यान्य'हेतुत्वावगमात्, स्पर्शवद्रव्यसंयोगजे तु विशिष्टकम्पत्वमेव प्रमाणमित्यग्यभिचारः / ननु यदेव द्रव्यं स्पर्शनानुमितं तदेव शब्दादिभिरप्यनुमीयते, न तु प्रतिलिङ्ग 'द्रव्यान्तरानुमितिः, किमिह प्रमाणं येनैतदुच्यते स्पर्शशब्दधृतिकम्पलिङ्गो वायुरिति ? इदं प्रमाणम्, स्पर्शानुमितद्रव्यकार्यत्वेनैव शब्दादीनामुपपत्तौ सम्भवन्त्यां द्रव्यान्तरकल्पनावैयर्थ्यमिति / 'एवं व्यवस्थिते वायौ तद्धर्म दर्शयति-तिर्यग्गमनस्वभाव इति / तिर्यग्गमनं स्वभावो यस्येति / 'मेघादिप्रेरणे इतस्ततो नयने / धारणे गुरुत्वप्रतिबन्धे / आदिशब्दाद् 'घर्षणे समर्थः। मेघादीत्यादिपदेन यानपात्रादिपरिग्रहः, तेषामपि वायुना प्रेर्यमाणत्वात्। [हिं०] स्पर्शवद्धेतुत्वागमोऽपि नास्तीति सन्दिग्धानकान्तिकत्वमित्याह स्पर्शववव्य संयोगजे तु इति:-वाय्वोरुर्ध्वगमनम् इतिः-वायुनानात्वस्य साध्यत्वाद् अत्र वाय्वोरिति पक्षीकरणे द्विवचनं न प्राप्नोति, तस्मादर्थ कथनमिदम् / वाक्ये तु विवादाध्यासितमूर्ध्वगमनं सजातीयपरस्परव्याहृति पूर्वमिति पक्षः कार्यः / भत्र विवादाध्यासितमिति तृणायूर्ध्वगमनान"मितमित्यर्थः। सजातीयग्रहणं प्राकारादिप्रतिस्खलितवातोर्ध्वगमनव्यवच्छेदार्थम् / अन्यकारणाभावे सतीति हे"तुविशेषणं [पं०] भूकंपोऽपि स्पर्शवद्व्यसंयोगज एवेति भावः / अत्रार्थे कि प्रमाणमित्याह स्पर्शवदित्यादि / परवाक्यं नन्वित्यादि। श्रीधरः प्राह इदं प्रमाणमित्यादि। स्पर्शानुमितद्रव्यकार्यत्वेनैवेति-स्पर्शानुमितं द्रव्यं वायुलक्षणम् / संशये सतीतिवायावेकरवानेकत्वविषयः संशय: किमयमप्येकः स्यादनेको वेत्येवंरूपः / एकदिकपथिकयोरिति-एकदिकप्रस्थितयोरिति पो पाठो स्तः / अर्थस्तुल्यः / [कु०] "उपलभ्यमानस्पर्शस्येति (कं. 46.18) पदं वायूपामीते उपलभ्यमानसौरभ्याश्रये कुसुमाद्यवयवे व्यभिचारपरिहाराय / अकस्मादिति (कं. 46.20) पक्षविशेषणं पाण्यादिना सिद्धसाधनत्वपरिहाराय / शुकशुनेत्यनुकारः / कर्णामामेव परस्परसंयोगेन सिद्धसाधनत्वपरिहाराय सङ्ग्रहणम् / द्वितीयादिषु बाधकपरिहाराय विभागजशब्दपरत्वारिलिङ्गभेदेन व्यवच्छेदार्थमिति / तत्र स्पर्शवद्व्यसंयोगस्य साधारणस्याभावेन विपक्षत्वादिति भावः / अवस्थितिरपतनम् / अचलमस्य वायुसंयोगे सत्यनुपपत्तेः / विशिष्टकम्पत्वादिति (कं. 47.1) रूपवान्नोदनादिविरहो वैशिष्ट्यम् / "न तस्यापीति (कं. 47.2) भूकम्पोऽपि पक्षतुल्य इत्यर्थः / नन्विति (कं. 47.3) शब्दपरत्वादिलिङ्गभेदेन यथाऽकाशकाललिङ्गभेद इति भावः / 1 हेतुत्वानवगमात् - जे. 1, जे. 3 / अनवगमात् - अनवधारणात् - अनवधारिते न व्यभिचारः टिप्पण जे. 1 एवं टिप्पणेऽपि-जे. 1, जे. 3 पुस्तकयो: पाठाऽर्थदृष्ट्या न समीचीनोऽतो न स्वीकृतः / 2 द्रव्यान्तरस्थितिरितिमे. 1, जे. 3 / 3 एवं स्थिते-कं. 1, कं. 2 / 4 मेघादीनां-जे. 1, जे. 3 / 5 घर्षणसमर्थः-जे. 1, जे. 3 / 6 देववगमो-; 7 संयोगजतु-ब; संयोगजत्वे तु-ड; 8 कथमिदं - अ; 9 रूपमिति - अ, ब, क; 1. मिति- 11 सतीति विशेषणं-अ; 12 उपलभ्यमानस्य पार्थिवस्य स्पर्शस्य-कं.१। 13 न तस्य-कं. 1 /