________________ टिप्पणपञ्जिकाकुसुमोद्गमादिदीकात्रयोपेतम् 129 न्यायकन्दली रूपस्यास्त्युपलम्भस्तस्मानायं पार्थिवः स्पर्शः। न चोदकतेजसोरयमाश्रितोऽनष्णाशीतत्वाद घटादिस्पर्शवत् / नाप्यमूर्तेष्वाकाशकालदिगात्मसु वर्तते, स्पर्शस्य मूर्ताव्यभिचारोपलम्भात् / मनसाञ्च स्पर्शवत्वे परमाणूनामिव तेषां सजातीयद्रव्यारम्भकत्वं स्यात्, न चैवम्, तस्मात्तेषामपि न भवति, अतो यत्रायमाश्रितः स वायुरिति परिशेषः / एवं शब्दोऽप्यस्य लिङ्गम्, योऽयं पर्णादिष्वकस्माच्छुकशुकाशब्दः श्रूयते तस्याद्यः शब्दः स्पर्शवद्रव्यसंयोगजः, अविभज्यमानावयवद्रव्यसम्बन्धित्वे सत्यादिशब्दत्वाद् दण्डाहतभेरीशब्दवत् यश्चासौ स्पर्शवाम् स वायुः। आकाशादीनां स्पर्शाभावात् पृथिव्युदकतेजसां च रूपवतां तच्छब्दहेतुत्वे प्रत्यक्षत्वप्रसङ्गात् / विभागजशब्दव्यबच्छेदार्थम'विभज्यमानावयवद्रव्यसम्बन्धित्वे सतीत्युक्तम् / / एवमन्तरिक्षे पर्णादीनां धृतिरवस्थितिः स्पर्शवद्रव्यसंयोगकाऱ्या प्रयत्नवेगादिकारणाभावे सति धृतित्वाज्जलोपरिस्थित'पर्णादिधृतिवत् / यच्च तत् स्पर्शवद्रव्यं न तत् पृथिव्यादित्रयमप्रत्यक्षत्वादेवेति द्रव्यान्तरसिद्धिः। इषोः पक्षिणाञ्च स्थितिव्यवच्छेदार्थ प्रयत्नादि कारणाभाव इति / [टि०] रूपाखेकार्थसमवेतो रूपादिसहितस्तद्विपरीतस्त'द्रहितः स्पर्शस्य तु मुख्यतो रूपेण सह सम्बन्धाभावात् / तस्माद् वाक्यकाले विवादास्पदः स्पर्श इति कर्तव्यम् / अस्त्यत्रापि इति-उद्भूतत्वं सामान्य विशेषः रूपत्वादिना परापरभावानुपपत्तो तु रूपावाद्यवान्तरसामान्यान्युद्भुतत्वादीनि बहूनि मन्तव्यानि / योऽयं पर्णादिषु इति-'पर्णादिष्वित्याधारत्वं पर्णाकाशसंयोग लक्षणा समवायकारणाधारत्वेन ज्ञेयम्, शब्दस्याकाशाधारत्वात् / अकस्मादिति दृश्यमानहेत्वतिरिक्तप्रत्यक्षवीक्ष्यमाणाघातकद्रव्यलक्षणहेतुशून्य इत्यर्थः, पर्णवाय्वादीनां तद्धेतुत्वात् / अविभज्यमानावयवपर्णद्रव्यसम्बन्धित्वं शब्दस्य निमित्तत्वेन तज्जन्यत्वात् / एवमन्तरिक्ष इति-कुड्यादिस्थव्यवच्छेदार्थम् / ननु यथाऽन्यहेतुत्वावगमो नास्ति तथा [पं०] चाक्षुषप्रत्यक्षाग्राह्यत्वात्, व्योमवत् / प्रत्यक्षप्रसंगादिति शब्दस्य प्रत्यक्षत्वप्रसंगादित्यर्थः / द्रव्यान्तरसिद्धिरितिवायुसिद्धिः तस्या"प्यन्यहेतुत्वावगमादिति-भूकम्पस्याप्यन्यहेतुत्वानवधारणात् / अन (ना)धारितेन च न व्यभिचारः / [कु०] ए[त]दप्रत्यक्षत्वानुमानं दूषयित्वा प्रत्यक्षत्वानुमानमाह द्रव्यस्येति (कं. 46.8) / प्रयोगोऽयम्" अस्पार्शनो वायुः द्रव्यत्वे सत्यचाक्षुषत्वात् आकाशवत् / अत्रानुकूलसर्वः यदि स्पार्शनः स्यात् आश्रयेण तुल्योपलम्भसामग्रीकाणां सङ्ख्यापरिमाणादीनामप्युपलम्भः स्यादिति / एवं चोपलम्भमानस्पर्शाधिष्ठानत्वादिति प्रतिपक्षानुमानं सर्वदाऽनुपलभ्यमानसङ्ख्यादिकत्वादनुपलभामानेविषक्तावयवे पाथसि तेजसि च व्यभिचारीति च द्रष्टव्यम् / लिङ्गानीति बहुवचनेन प्रत्येकमेव साधनत्वं दर्शयति / 1 अविभज्यमानावयवद्रव्येत्युक्तम्-जे. 1, जे. 3 / 2 वृत्ति-कं.१। 3 पर्णादिवत्-कं. 1, कं. 2 / 4 'इति'कं.१, कं.२ पुस्तकयो स्ति। 5 स्तद्रहितस्पर्शस्य-अ, ब, क; 6 पर्णादित्याधारत्वं -भ, ब; 7 लक्षणसमवायक; लक्षणसवाय-अ, ब; 8 हेतुशून्य इत्यर्थः इति-'अ' पुस्तके नास्ति। वयवद्रव्य-अ% 10 तस्यान्य-कं।