________________ 128 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली गतक्रियोपलम्भात् / शीतोष्णस्पर्शभेदप्रतीतौ वायुप्रत्यभिज्ञानमपि तदाश्रयोपनायकद्रव्यानुमानादेव / त्वगिन्द्रियेण तु शीतोष्णस्पर्शाभ्यामन्यस्य न प्रतिभासोऽस्ति / 'स्पार्शनप्रत्यक्षो वायुरुपलभ्यमानस्पर्शाधिष्ठानत्वाद् घटवदित्यनुमानं शशादिषु पशुत्वेन शृङ्गानुमानवदनुपलब्धिबाधितम् / द्रव्यस्य स्पार्शनत्वं चाक्षुषत्वेन व्याप्तमवगतं घटादिषु चाक्षुषत्वस्य च वायावभावस्तेनात्र शक्यं स्पार्शनत्वनिवृत्त्यनुमानमेतत्, अतस्तस्याप्रत्यक्षस्य सद्भावेऽनुमानमुपन्यस्यति-स्पर्शशब्दधृतिकम्पलिङ्ग इति / स्पर्शश्च शब्दश्च धृतिश्च 'कम्पश्च लिङ्गानि यस्येति बहुव्रीहिः / ___योऽयं रूपादिरहितः स्पर्शः प्रतीयते स क्वचिदाश्रितः स्पर्शत्वादितरस्पर्शवत् / न चास्य पृथिव्येवाश्रयो रूपविप्रयोगात् / अस्त्यत्राप्यनुभतं रूपमिति चेन्न, उपलभ्यमानस्य 'पार्थिवस्य स्पर्शस्योपलभ्यमानरूपेणैव सहाव्यभिचारोपलम्भात्, न चेह [टि०] लम्भेऽपि तदाश्रययोर्द्रव्ययोवि'शरारुत्वान्न प्रत्यक्षता यथा शब्दोपलम्भेऽपि व्योम्नः / व्योमशिवमते तु शीतो वायरित्यादौ जलादिस्पर्शोपलम्भेऽपि अन्धस्योष्णो घट इतिवत् वायुप्रत्यक्षत्वम् / द्रग्यस्य स्पार्शनत्वम् इति :- यद् द्रव्यं स्पार्शनं न चाक्षुषमपीति व्याप्तिः, यत्तु 'चाक्षुषं तदस्पार्शनं यथा प्रदीपप्रभा / अनुमानं तु विवादाध्यासितो वायुरस्मदादिस्पार्शनो न भवति, द्रव्यत्वे सत्यचाक्षुषत्वात्, यस्तु स्पार्शनः स द्रव्यत्वे सति चाक्षुषोऽपि भवति, यथा घट इति व्यतिरेकेण, अन्वयेन त्वाकाशादौ दृष्टान्ते स्पर्शाभावः उपाधिः स्यात् / अत्र विवादाध्यासितं पदं परमाणुरूपेण वायुना सिद्धसाधनत्वस्य अस्मादीति योगिप्रत्यक्षस्य द्रव्यत्वे सतीति स्पर्शगुणस्य व्यवच्छेदार्थम् / योऽयंरूपादिरहितः इति [पं०] पीत्यर्थः / इदमुक्तं भवति-यदि हि बायुर्वातीति प्रत्यक्षज्ञानं स्यात्तदा कथं चक्षुषा गृह्यते, स्वस्वविषयग्राहकत्वादिद्रियाणाम् / तस्मादनुमानमिदम् / तदाश्रयोपनायकद्रव्यानुमानादेवेति / तयोः शीतोष्णस्पर्शयोराश्रयो जलतेजसी, तत्परमाणूपनायकम् / कोऽर्थः / तत्परमाणूपढौककं वायुद्रव्यम् तदनुमानादेव / चाक्षुषत्वस्येति स्पर्शेन त्वलक्षणं व्याप्यं प्रति व्यापकस्य / तेनात्र शक्यं स्पार्शनत्वनिवृत्यनुमानमेतदिति-वायुः स्पर्शेन प्रत्यक्षग्राह्यो न भवति / द्रव्यत्वे सति [कु०] पूर्वपक्षमाह प्रत्यक्षमेवेति (कं. 46.1) प्रयोगश्वायम्-विषयवायुज्ञानं प्रत्यक्षम् इन्द्रियव्यापारानन्तरभावित्वात् घटज्ञानवदिति / हेत्वसिद्धा (द्धि) परिहरति तन्नेति (क. 46.2) / न त्वनुष्णाशीतस्पर्शोपलम्भेऽनु मीयतां वायुः तद्गुणत्वात् / उष्णशीतस्पर्शोपलम्भं त्वशक्यमनुमानमित्यत आह शीतोष्णेति (कं. 46.5) / प्रयोगस्तु उपलभ्यमानशीतोष्णस्पर्शाधिष्ठानं स्पर्शवद्रव्योपनीतं शीतोष्णस्पर्शाधिष्ठानत्वात् घटाद्यानीतपयःपावकवदिति / अनुपलब्धिबाधितमिति (कं. 46.8) स्पर्शानवभूव-(“स्पर्शानुभववद्र)व्यानुभवस्यानुव्यवसाययोग्यस्यानुव्यवसायाभावादित्यर्थः / 1 स्पार्शनत्वं - स्पर्शेन्द्रियग्राह्यत्वम् -जे. 1 टिप्पण। 2 कम्पश्चेति ते-कं. 1, कं. 2, व्याकरणदृष्ट्याऽयं पाठो न समीचीनो भाति, अतो न स्वीकृतः / 3 पार्थिवस्पर्शस्य -जे. 1, जे. 3 / 4 तदाश्रययोर्द्रव्ययो 5 विशरारुत्वात्प्रत्यक्षता -अ, ब, क; 6 यद् द्रवासार्शनं-अ, ब; 7 क्षुष-अ / 8 अयमेवार्थ दृष्टया साधीयान् पाठः /