________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटोकात्रयोचेलम् 127 प्रशस्तपादभाष्यम् [62] विषयस्तूपलभ्यमानस्पर्शाधिष्ठानभूतः स्पर्शशब्दधृतिकम्पलिङ्गस्सि-ग्गमनस्वभावो मेघादिप्रेरणधारणादिसमर्थः / / न्यायकन्दली सर्वेन्द्रियाधिष्ठानानि व्याप्तानि, सत्यां त्वचि रूपादिग्रहणमसत्यामग्रहणमिति त्वगिन्द्रियं सर्वार्थम्, न तु स्पर्शमात्रग्राहकमिति चेत्, तदयुक्तम्, 'अन्धबधिराद्यभावप्रसङ्गात्, तत्तदधिष्ठान'भेदेन तस्याः शक्तिभेदाभ्युपगमे प्रकारान्तरेणेन्द्रियभेदाभ्युपगमः। [62] 'विषयव्यवस्थानियमनिरूपणार्थमाह-विषयस्त्विति उपलभ्यमानस्पर्शस्याधिष्ठानभूत आश्रयो यः स विषय इति / किमस्यास्तित्वे प्रमाणम् ? प्रत्यक्षमेव, त्वगिन्द्रियव्यापारेण वायर्वातीत्यपरोक्षज्ञानोत्पत्तेरिति कश्चित, तन्न युक्तम, स्पर्शव्यतिरिक्तस्य . वस्त्वन्तरस्यासंवेदनात्, अपरोक्षज्ञाने तु स्पर्श एव प्रतिभाति नान्यत्, यदपि वायुतीति ज्ञानं तदभ्यासपाटवातिशयाद् व्याप्तिस्मरणाद्यनपेक्षं स्पर्शनानुमानम्, चक्षुषेव वृक्षादि [टि०] [62] 'कनिदिति-व्योमशिवः / तदभ्यासे-व्याप्तिस्मरणाचनपेक्षमिति व्याप्तिस्मरणं ममोत्पन्नं न वेति / व्याप्तिस्मरणानुभवानपेक्षमित्यर्थो ज्ञेयः, "व्याप्तिस्मरणाभावेऽनुमानानुश्यात् / अभ्यासपाटवात्तु व्याप्तिस्मरणविषयज्ञानाभावः / चक्षुषेवेति-यथा वृक्षावौ चक्षुषा पत्रादिक्रियोपलम्भाद् वाय्वनुमानं तथा स्पर्शनापीति / ननु यदा शीतोष्णस्पर्शप्रतीतौ वायत्तीति प्रत्ययो भवति तदा स जलानलसम्बन्धी कथं वाय्वनुमापक: ? तस्य वायुसमवायाभावात् 'असम्बद्धस्य चालिङ्गत्वाद् इत्याह शीतोष्णस्पर्शेति / त्यगिन्द्रियेण तु इति अन्यस्य वायोरिति भाव / शीतोष्णस्पर्शोप [पं०] .[62-64] कश्चिदिति-व्योमशिवः / स्पर्शव्यतिरिक्तस्य वस्त्वन्तरस्यासंवेदनादिति त्वगिन्द्रियेणेति शेषः / स्पर्शनप्रत्यक्षेण स्पर्श एवं संवेद्यते वस्तु पुनरनुमानेनेति भावः / इदमेव द्रढयन्नाह अपरोक्षज्ञाने तु स्पर्श एव प्रतिभाति नान्यदिति / यद्यपि वायुर्वातोति ज्ञानं तदभ्यासपाटवातिशयाद् व्याप्तिस्मरणाद्यनपेक्षं स्पर्शनानुमानं चक्षुषेव वृक्षाविगतक्रियोपलंभादिति / यथा वृक्षादौ शाखादिचलनक्रियोपलंभाच्चक्षुषा बायुतीति ज्ञानमनुमानम् / एवं स्पर्शेना "विषयव्यवस्थापनादिति (कं.४५.२६) नियत विषयानियताधिष्ठास्तावत्त्रयः स्वीकृताः तश्च-त्वच एवेति कल्पनम् / रूपादिषु मध्ये रूपस्यैव व्यञ्जकं नं (ते) जसमित्याद्यनेकानुमानविरुद्धमिति भावः / "उपलभ्यमानस्येति (कं. 45.27) रूपासहचरितस्यानुष्णाशीतस्येति शेषः / इतरथा पृथिव्यादौ हेमते[जसि] विषक्तावयवे आप्ये रीष्मे (ग्रीष्मे) गृहान्ततिनि तेजसि वाऽतिव्याप्तिः / अनुमेयत्वा प्रतिपादकभाष्यविरोधिनी वादिविप्रतिपत्ति निवारयितुं विचारमारभते किमस्येति (कं. 46.1) / 1 केचित् - कं. 1, कं. 2 / 2 अन्धाद्यभाव - कं. 1, कं. 2 / 3 भेदेन शक्तिभेदा - कं. 1, कं. 2 / 4 विषयव्यवस्थानाद विषयनिरूपणार्थमाह-जे. 1, जे. 3 / 5 उपलभ्यमानस्पर्श-कं. 1, कं. 2 / 6 काश्चिद्-अ; 7 व्याप्त्यस्मरणाभावे -अ, ब; 8 वायुसमवायात्-अ, ब; वाय्वसमवायात्-क; 1 असम्बद्धत्वालिङ्गत्वात्-- क; 10 विषयम्यवस्था-कं.१। 11 उपलभ्यमानस्पर्शस्य-कं. 1 /