________________ 126 न्यायकन्दलीसंबलितप्रशस्तपादभाष्यन प्रशस्तपादभाष्यम् तत्रायोनिजमेव शरीरं मरुतां लोके, पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् / इन्द्रियं सर्वप्राणिनां स्पर्शोपलम्भकम्, पृथिव्याद्यनभिभूतैर्वाय्ववयवरारब्धं सर्वशरीरव्यापि त्वगिन्द्रियम् / न्यायकन्दली तत्र शरीरमिति / अयोनिजमेव न तु पार्थिवशरीरवद् योनिजमयो निजमपि भवतीत्यर्थः / मरुतां लोक इति स्थानसङ्कीर्तनम् / भूयसां पार्थिवावयवानां निमित्तकारणभूतानामुपष्टम्भात् संयोगविशेषात् स्थिरं संहतस्वभावमुत्पन्नं पार्थिवशरीरवदुपभोगसमर्थम् / ___ इन्द्रियं सर्वप्राणिनां स्पर्शोपलम्भकमिति / यत् सर्वप्राणिनां स्पर्शोपलम्भकमिन्द्रियं तत् पृथिव्याद्यनभिभूतैरप्रतिहतसामर्थैर्वाचवयवैरारब्धम्, अतो विशिष्टोत्पादादिन्द्रियं स्यादित्यर्थः / तस्य सद्भाबे तावत् स्पर्शोपलब्धिरेव प्रमाणम् / वायवीयत्वञ्चा स्य रूपादिषु मध्ये स्पर्शस्यैबाभिव्यञ्जकत्वादङ्गसङ्गिसलिलशैत्याभिव्यञ्जकसमीरणबत् / तच्च सर्वशरीरव्यापि, सर्वत्र तत्काय॑स्य स्पर्शोपलम्भस्य भावात् / त्वगिन्द्रियमिति समाख्या त्वचि स्थितमिन्द्रियं त्वगिन्द्रियमित्युच्यते, तत्स्थे तदुपचारात्, त्वचा [टि०] वृत्तिः, एकेन्द्रियाणामपि त्वगिन्द्रियसद्भावात् / तत्स्थे इति-उपचारात्त्वशब्देनैवेन्द्रियमुच्यते अन्यथा ऽस्य 'रसनध्राणचक्षस्त्वकश्रोत्राणीन्द्रियाणौत्यत्र त्वक्शब्देन केवलेनैवेन्द्रियाभिधानं न स्यात्, अतस्त्वगिन्द्रियं त्वगिन्द्रिय मिति 'समासे त्वचि स्थितमित्युप (चारप्रदर्शनार्थमर्थकथनम्, अन्यथा "त्वचि इन्द्रियं त्वगिन्द्रियमि"ति सप्तमीसमास मेव कुर्यादिति / त्वक्शब्दस्य यद्यपि शरीरावगुण्ठन चर्मरूपे मुख्यतो वृत्तिः, तथाप्यत्रोपलक्षणव्याख्यानाद अन्तर्बहिश्च सकलेऽपि शरीरे मन्तव्या, उष्णजलादिपाने मध्येऽप्युष्णादिस्पर्शसंवेदनात्त / [पं०] योऽभ्युपगच्छति / तेनापि विषयव्यवस्थाकृतव तावत्सोऽपि हि त्वच एव द्रष्टुत्वं स्प्रष्टुत्वं श्रोतृत्वं भ्रातृत्व रसयितृत्वं तत्तदधिष्ठानभेदेन मन्यते / तस्माच्चक्षुःस्पर्शनश्रवणघ्राणरसनाख्यानि पञ्चेन्द्रियाणि पथक् पृथक स्वविषयपरिच्छेदनप्रत्यला(या)नि तेनापि युक्तया अंगीकृतान्येवेति भावार्थः / [कु०] वेगरहितेति (कं. 45.8) नोदनाख्यो हि संयोगः कर्महेतुः स च स्पर्शहेतुभ्यां विना नोपपद्यत इति भावः / ("नेनु त्वगिति शरीरस्य) स च रूपिद्रव्यसंयोगान्तरेगापि तृणकर्मानुमेयः, अप्रत्यक्षस्य कथमिदन्तया प्रत्यवमर्श इत्यत आह स इति (कं. 45.9) / प्रत्यक्षवदिति (कं. 45.10) प्रलापादार्थावापेक्षायामिति? सर्वत्र तत्कार्यस्येति (कं. 45.21) केशनखलोमदन्तानां शरीरसंयोगिता न शरीरावयवत्वमिति भावः / ननु त्वगिति शरीरस्य सहजमावरणं पार्थिवद्रव्यमुच्यते तत्कथं वायवीयमित्यत माह त्वचि स्थितमिति (कं. 45.22) / लौकिकत्वाच्च नोपचारप्रयोजकं श्रद्धेयं तदधिष्ठाने चक्षरुपघाते तच्छाक्तिवैकल्यादन्धादीनां रूपाद्यनुपलब्धिरिति भावः। 1 सर्वव्यापि-दे.। 2 मपीत्यर्थ:-कं.१, कं.२। 3 पार्थिवानां-जे. 1, जे. 3 / 4 त्पादनात-जे. 1, जे. 3 / 5 च रूपादिषु-जे. 1, जे. 3 / 6 अन्यथा स्पर्शनं-४; 7 स्पर्शन इति सर्वत्राधिकं न्यस्तम् / 8 समास:-ड; 9 त्युपचार:-अ, ब, क; 10 त्वचिन्द्रिय-अ, ब, 11 मपि-अ, ब, 12 अत्र लेखकदोषादधिकं भाति -सं।