________________ टिप्पणपम्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 125 125 प्रशस्तपादभाष्यम् स्पर्शोऽस्यानुष्णाशीतत्वे सत्यपाकजः, गुणविनिवेशात्सि'द्धः / अरूपिष्वचाक्षुषवचनात् सप्तसङ्घयादयः / तृणकर्मवचनात् संस्कारः। स चायं द्विविधोऽणुकार्यभावात् / / तत्र कार्यलक्षणश्चतुर्विधः, शरीरमिन्द्रियं विषयः प्राण इति / न्यायकन्दली तेजःस्पर्शाभ्यां वैधर्म्यमुक्तम् / अयञ्च द्वितीयाध्यायात्-“वायुः स्पर्शवान्' (2-1-4 4. सू.) इति सूत्रेण वायौ सिद्ध इत्याह-गुणविनिवेशादिति / अरूपिष्वचाक्षुषवचनात सप्त सङ्ख्यादयः / रूपरहितेषु द्रव्येषु सङ्ख्यादयश्चाक्षुषा न भवन्तीत्यभिधानादरूपिषु सङ्खयादीनां सद्भावः कथितः, अन्यथा तत्तिनां तेषामप्रत्यक्षत्वाभिधानमसम्बद्धं स्यात् / तृणकर्मवचनात् संस्कार इति / “तृणे कर्म 'वायुसंयोगात्” (5-1-14 वै. सू.) इति वचनाद वायौ संस्कारो शितः, वेगरहितद्रव्यसंयोगस्य कर्महेतुत्वानपलम्भात् / तस्य भेदनिरूपणार्थमाह-स चायमिति / स चेति स्मृत्युत्थापितो बुद्धिसन्निहितः पश्चादयमिति प्रत्यक्षवत् परामृश्यते / न केवलं पृथिव्यादयो द्विविधाः, अयमपि द्विविध इति चार्थः / कार्य'लक्षणश्चतुर्विधः कार्य्यस्वभाव इत्यर्थः / चातुविध्यं कथमित्यत आह -शरीरमिन्द्रियं विषयः प्राण इति / तेषां मध्ये शरीरं जात्या निर्धारयति[टि०] पाकजोऽनुष्णाशीतत्वात् पृथिवीस्पर्शवदित्येतेन न सत्प्रतिपक्षता, "पाकजस्पर्शस्य पाकजोद्भूतरूपसाहचर्योपलम्भात् / स चायम् इति-नन्विदं प्रत्यक्षकृतं रूपं तत्कथं वायाबप्रत्यक्षेऽयमिति निर्देश 'इत्याह स च इति / प्रत्यक्षेऽपि हि तावत् बुद्धिसन्निहितत्वात्तथा व्यपदेश इति भावः। तेषां मध्ये इति-निर्धारणं हि जातिगुणक्रियाभिर्भवतीत्यत्र जात्या कल्पितयैव निर्धारणं नु तु वास्तव्या पृथिवीत्वेन परा'परभावाभावात् / इन्द्रियम् इति-सर्वशब्दो नात्र समुचित [पं०] वायोरप्रत्यक्षत्वादिदंतया परामर्श नियुक्त इति भावः / एकीयमतमाह त्वचा सर्वेन्द्रियाधिष्ठानानीत्यादिना / तस्या इति वचः / विषयव्यवस्थापनादिति तत्तदधिष्ठानभेदेन त्वच एव शक्तिभेदं योऽभ्युपगच्छति / नत्विन्द्रियभेदं [कु०] तस्य गुणानिति (कं. 44.21) वायुत्वव्यवस्थापकानिति शेषः / व्यवस्थापकत्वं च स्पर्शस्यानुष्णाशीतत्वे सत्यपाकजत्वात् सङ्ख्यादीनां तत्साहचर्याच्च द्रष्टव्यमिति / अत्रापीति (कं. 44.21) / अनुष्णाशीतत्वे सतीति .3) इदं च प्रत्यक्षसिद्धमित्यर्थः / असम्बद्ध स्यादिति (कं. 45.7) अत्यन्तासर्ता निषेधस्याप्यनधिकरणादितिभावः / प्रमाण च 'वायुः सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागवान् द्रव्यत्वात् पृथिवीवत्' स परापरत्ववान् मूर्त्तत्वात् पृथिवीवदिति द्रष्टव्यम् / 1 सिद्धेः-कि., ताः। 2 'वायुसंयोगात्'-इति सर्वत्र सूत्रपाठः / 3 लक्षणः कार्यस्वभाव-जे. 1, जे. 3 / 4 पाकस्पर्शस्य - अ, ब; 5 वायावत् - अ, ब; 6 इत्या स, च-अ, ब; 7 प्रत्यक्षे हि-४, 8 भवतु - अ, ब, क, 9 परापरभावात्-अ, ब;