________________ 124 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [61j वायुत्वाभिसम्बन्धाद्वायुः। 'स्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्व'संस्कारवान् / न्यायकन्दली निरंशस्यापि यदि भवेत् को विरोधः, अथ युगपत्संयोगः, सोऽपि नानुपपन्नः, न मुशविषयः संयोगो द्रव्याणाम्, निरंशस्याप्याकाशस्य 'तत् सद्भावात्, अंशस्याप्यंशान्तरसद्भावे परमाणमात्रे संयोगस्थितौ तस्याप्रत्यक्षत्वप्रसङ्गाच्च, किन्तु स्वरूपविषयः / एवञ्चेत्, सांशद्रव्यस्येव निरंशस्यापि परमाणोरेकस्य युगपत्कारणसम्भवे सत्यनेकसंयोगाधिकरणत्वमुपपद्यत एवेति न तत्प्रतिक्षेपः। [61] प्रत्यक्षं पृथिव्यादित्रयं व्याख्यायाप्रत्यक्षद्रव्यव्याख्यानावसरे नित्यानित्योभयस्वभावद्रव्यनिरूपणस्य प्रकृतत्वाद्वायुं व्याचष्टे-वायुत्वाभिसम्बन्धाद्वायुरिति / व्याख्यानं पूर्ववत् / तस्य गुणान् कथयति-स्पर्शेत्यादि अत्रापि पूर्ववद् व्याख्या। यादशः स्पर्शोवायौ वर्तते तं दर्शयति-स्पर्श इति / पृथिवीस्पर्शः पाकजः परमाणुषु, तत्पूर्वकश्च 'स्वकार्येषु / 'अस्य वायो स्पर्शोऽपाकज इत्यतो वैध्यर्म्यम् / अपाकजत्वञ्चास्य पृथिव्यनधिकरणत्वादुदकतेजःस्पर्शवत् / अनुष्णाशीतत्वे सतीत्युदक[टि०] (॥अथ वायुनिरूपणम्!) [61] त्रयानन्तरं वाय्वभिधाने कारणमाह प्रत्यक्षमिति-अप्रत्यक्षत्वं बाह्येन्द्रियापेक्षयाऽत्र दृ(द्र)ष्टव्यम्, आत्मनोऽन्तःकरणप्रत्यक्षत्वात् / अत्रापि इति-व्याख्या द्वन्द्वानन्तरं मतप प्रत्ययादिका / अपाकजत्वं च इति-अत्र बायस्पर्शः [पं०] पूर्वपश्चिमदक्षिणोत्तरो/धोलक्षणदिक्षट्कलग्नेनेति द्रष्टव्यम् / यदि भवेदिति - न भवत्येव तावन्नित्यत्वात् / को विरोध इति? परमाणूनां नित्यत्वेनोत्पादाभावादभ्युपगममात्रमेव तन्ननु वाचिकोभ्युपगमः / न मुशविषय इति न ह्यशापेक्षः / अंशस्यापीति = घटादिद्रव्यांशस्यापि / तस्यति =संयोगस्य / अप्रत्यक्षत्वप्रसंगाच्चेति प्रत्यक्षत्वसुसंयोगः / किन्तु स्वरूपविषय इति संयोग इति पूर्वस्मादनुवर्तते। किन्तु 'स्वरूपविशेषसंयोग इति को भावः? स्वरूपविषयत्वं च संयोगस्य परमाणुष्वस्तीति भावः / / इति तेजः // 3 // [61] वायौ संस्कारो दर्शितः इति-संस्कारो वेगाख्यः / पश्चादयमिति प्रत्यक्षवत्परामृश्यते इति अन्यथा [कु०] [61] प्रत्यक्षशरीरारम्भकतया पृथिव्याः सर्वस्य उर्षे प्रत्यक्षगुणाधिकतया वाऽपां द्वितीयत्वे स्वयं प्रत्यक्षतया तेजसस्तृतीयत्वे च क्रमकारणे प्रसिद्धवा[यो] श्चतुर्थत्वे कारणमाह प्रत्यक्षमिति (कं. 44.13) / 1 तस्य गुणाः-ता। 2 संस्कारास्तद्वान्-ता। 3 तद् भावात्-कं. 1, कं. 2 / 4 स्वकार्येषु-जे. 1, जे. 3 / 5 अस्य तु- कं. 1, कं. 2 / 6 स्वरूपविषय - कं.। /