________________ 123 टिप्पणपञ्चिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली दुर्बलत्वात् / भ्रान्तं प्रत्यक्षमिति चेत् ? कुत एतत् ? 'बाधकेन तदर्थस्यापाकरणादिति चेत्, प्रत्यक्षस्य भ्राग्तत्वे बाधकस्य प्रमाणत्वं बाधकप्रामाण्ये च प्रत्यक्षस्य भ्रान्सत्वमित्यन्यो न्यापेक्षत्वम् / प्रत्यक्षे तु नायं न्यायः, तस्यानपेक्षत्वात् / न चार्षक्रियासंवादिसर्वलोकसिद्धं स्पष्टप्रतिभासं भ्रान्तमिति युक्तम्, नीलादिप्रत्यक्षस्यापि भ्रान्तत्वप्रसङ्गादिति बाधकोद्धारः / परमाणवोऽवयविसद्भावानुमेया अपि सन्तो व्यवहर्त्तव्याः / षटकेन युगपद्योग एकस्य परमाणोः षडंशत्वमापादयन् परमाणुसद्धावं बाधत इति चेत् ? कोऽयं युगपद्योगो नाम ? किमेकस्य परमाणोः षड्भिः परमाणुभिः सह युगपदुत्पादः ? किं वा युगपत्संयोगः ? युगपदुत्पादस्तावत् कारण योगपद्याधीनो [टि०] प्रत्यक्षेति-तस्य प्रसङ्ग साधमद्वयस्य, "ततः प्रत्यक्षात् / “मनु भवत्पक्षेऽपि प्रसङ्गसाधनस्य दौर्बल्ये प्रत्यक्षस्य भ्रान्तत्वं, तदभ्रान्तत्वे च प्रसङ्गसाधनस्य दौर्बल्यमित्यन्योन्याश्रयः समान इत्याह-प्रत्यक्षे तु इति / अवयविनस्तावत्प्रत्यक्षेण सिद्धिः, परमाणूनां त्वप्रत्यक्षत्वादसत्त्वं स्यादत आह-परमाणवः इति // तेजः॥ [पं०] जातिदोषा इति नाम्ना प्रसिद्धानि दूषणाभासानि-तेष्वेक वैधयं नाम / तच्चैवम्-स नित्यः शब्दः, कृतकत्वात्, घटवदित्यत्र प्रयोगे कश्चिदाह नित्यः शब्दः, निरवयवत्वात, अनित्यं हि सावयवं दष्टम, घटादीति / न चास्ति विशेषहेतुर्घटसाधात् / कृतकत्वादनित्यः शब्दः, न पुनस्तद्वैधान्निरवयवत्वान्नित्य इति / एतच्च वैधयॊद्भावनं दूषणाभासमात्रम् न सम्यक् दूषणम् / कृतकत्वस्य सम्यग्हेतोः, साध्यसाधनक्षमत्वात् / तथाऽन्वयापि यदुक्तं तद्वधर्माख्यजातिदोषमात्रमित्यर्थः / अत्रैवार्थे हेतुमाह-एकस्यानेकसंसर्गावच्छेदस्योभयत्राविशेषादिति / . अतो नानेनेत्यादि = अनेन प्रसंगद्वयेन / तस्येति -प्रसंगद्वयस्य / ततः प्रतिप्रत्यक्षात् / "तदर्थस्येति-तस्य प्रत्यक्षस्यार्थी विषयोऽवयवी, तदर्थः / तस्य तदर्थस्य / "अपनयादिति = अपाकरणात् / क्वचित्तु-अपाकरणादिति पाठः / स च सुगमतमः / तस्यानपेक्षत्वादिति तस्य प्रत्यक्षस्यानपेक्षत्वात् / कोऽर्थः? प्रत्यक्षमनपेक्षम्। बाधकप्रमाणं तु सापेक्षम / प्रत्यक्षस्य भ्रान्तत्वे सति तद्भावात् / इत्यर्थः / सन्तः इति विद्यमानाः / षट्केमेति = परमाणुषट्केन / [कु०] निरपेक्षस्यापि शुक्तिकादी रजतादिज्ञानस्य भ्रान्तित्वदर्शनादित्यत आह न चार्थक्रियेति (कं, 43.15) / प्रसङ्गात्परमाणुबाधमुद्धर्तुं प्रस्तौति परमाणव इति (कं. 43 17) / अपि शब्द: परमाणव इत्यस्यानन्तरं द्रष्टव्यः / अस्यापेक्षया अंशानामणत्वादंशिनि न परिमाणापकर्षविश्रान्तिरित्यर्थः / न तत्प्रतिक्षेप इति (कं. 43.25) संयोगस्याव्याप्यवृत्तित्ववाचोयुक्तिस्तु एकस्यैकदा भाववत्तया न त्वंशाधिकरणतया। प्रसङ्गश्वायं परमाणुसिद्धौ धमिग्राहकप्रमाणनाधितत्वादसिद्धावाश्रयासिद्धतयानवसरस्तुच्छ इति भावः / 1 बाधकेनापाकरणात् - कं. 1, कं. 2! 2 न्यापेक्षित्वम् - कं. 1, कं. 2 / 3 वयव्यनुमेया-कं. 1, कं. 2 / 4 षट्केन युगपद्योगात् परमाणोः षडंशता। षण्णां समानदेशत्वात् पिण्ड: स्यादणुमात्रक: कं. 2 टिप्पण-विज्ञप्तिमात्रतासिद्धिः। 5 योगपद्यादेव - कं. 1, कं. 2 / 6 साधनस्य -73 7 'ततः पक्षात् न तु भवत्पक्षात्' इत्यधिक:-अ, ब, क; 8 मनु-ड; 9 स्यादौर्वल्य-अ; 10-11 इमो पाठो कं. पुस्तके न स्तः /