________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली चलाचलत्वम्, द्रव्ये चलति गुणस्याचलनेऽपि तयोर्युतसिद्धयभावात् / पृथगाश्रयाश्रयित्वं चावयवावयविनोभिन्नत्वेऽपि नास्तीति न युतसिद्धता। यदप्यन्यद् बाधकमुक्तम्, एकावयवावरणे तत्समवेतस्यावयविनो न ग्रहणम्, अनावृतावयवग्रहणे च ग्रहणमित्येकस्य युगपद् ग्रहणमग्रहणञ्च 'प्राप्नुत इति / तदप्यसारम्, एकावयवावरणेऽवयव्यावरणस्याभावात् / सोकोऽनेकेषु 'वाऽवयविषु वर्तमानः कतिपयावयवावरणेऽप्यनावृतेतरकतिपयावयवग्रहणेन गृह्यते, तस्य सर्वत्राभिन्नत्वात् / यत्तु बहुतरावयवग्रहणवत् स्थूलप्रतीतिर्न भवति, तद्भूयोऽवयवप्रचयग्रहणस्य परिमाणप्रकर्षप्रतीतिहेतोरभावात् / यत्र 'तु भूयसामवयवानामावरणमल्पतरावयवग्रहणञ्च तत्रावयविनो न ग्रहणम्, यथा जलनिमग्नस्य शिरोमात्रदर्शनात् / एकस्मिन्नवयवे रक्ते तद्देशोऽवयवी रक्तोऽवयवान्तरे 'चारक्ते न रक्त इत्येकस्य रक्तारक्तत्वप्रसङ्ग इत्यदूषणम्, अविरोधात् / रागद्रव्यसंयोगो रक्तत्वम् , अरक्तत्वञ्च तदभावः / उभयं 'चैकस्य भवत्येव, संयोगस्याव्याप्यवृत्तिभावात् / [हिं०] कत्वादेकत्वमवयविनो न स्यादिति भावः / यतो विरुद्धधर्माध्यस्तं यत्तन्नाना यथा शीतोष्णे, विरुद्ध धर्माध्यस्तश्च पराभ्युपगतोऽवयवीति प्रसङ्गसाधनमन्यथा आश्रयासिद्धिः स्यात् / उत्तरं पाणौ इति पाणिगतशरीरस्यापि कम्पाभावादसिद्धो विरुद्धधर्माभ्यास इति भावः / यदि हस्त इति-यदि हस्त एवाश्रितोऽवयवी स्यात्तदा हस्तचलने सोऽपि चलेद्, न तु चलति, तस्मादवयवी न हस्ते एव सिद्धः किन्तु पृथगन्यत्र सिद्धो मन्तव्यः , 'द्रव्ये चलति इत्यादि स्वसिद्धान्ताभिप्रायेणोत्तरम् / उभयं "चैकस्य इति-संयोगस्याव्याप्यवृत्तित्वं तथा दर्शनाद"गीक्रियते / [पं०] श्रीधरवाक्यं नैवमित्यादि / द्रव्ये चलति गुणस्याचलनेपोति-गुणेषु कर्मणोऽभावात् / चलनं च कर्म / तस्येति = अवयविनः / बहुतरावयवग्रहणवदिति-बहुतरावयवग्रहणे इव बहुतरावयवग्रहणवत् / सप्तम्यां वति प्रत्ययः / उभयं चै"कस्य भवत्येवेति-एकस्याप्रत्ययिनः / अव्याप्य"वृत्तित्वादिति = एकदेशवृत्तित्वादिति / [कु०] ननु प्रत्येकमेकैकेन्द्रियग्राह्याणामपि संघातसंहन्यमाना[न]द्वाराऽनेकेन्द्रियग्राह्यताऽपि भविष्यतीत्यत आह अपि च रूपादय इति (कं. 41.12) / "व्यतिरिक्तश्चेति (कं. 41.13) व्यतिरिक्तस्याङ्गीकारगुणित एव सज्ञाभेदमात्रं स्यादिति भावः / इह समर्थोत्पत्तिः स्थूलरूपोत्पत्तिर्वा अर्थक्रियाकारिमात्रोत्पत्तिर्वा नाद्य इत्याह स[म]र्थोत्पादेऽपीति (कं. 41.15) / अनुवृत्तावपसिद्धान्त इति भावः / न द्वितीय इत्याह-समर्थोत्पत्तिमात्रेण चेति (कं. 41.15) / स नोऽवयवीति (कं. 41.20) सोऽपि भवतामनभिमत इति भावः / न च विज्ञान इति (क. 41.21) बाह्यो हि स्थूलो निषिध्यते तस्माभि (तस्यापि) ज्ञानाकारस्तु काममस्तीत्यभिप्रायः / “लौकि[क] मर्यादमेति [येति] बाह्यस्वदर्शनश्रद्धया। स्थूलमहमस्मीति प्रत्यय उ[त्प] ये [ते] त्येवेति तं प्रत्याह अनेके ति] (कं. 41.22) / एवं गुणिसाधनप्रसङ्गादवगतमवयविनं स्थिरं च प्रतीतिबलाद बाधकाभावाच्चोपसंहरति तस्मादिति (कं. 41.23) / 1 प्राप्नोतीति -जे. 1, जे. 3 / 2 'वा' इति-जे. 1, जे. 3, पुस्तकयो स्ति। 3 'तु'-जे. 1, जे. 3, पुस्तकयो स्ति / 4 चारक्त इत्येकस्य - कं. 1, कं. 3 / 5 चैकत्र-कं. 1, कं. 2 / 6 ह्यस्तं तन्नाना-ड; 7 आश्रयो-ड; 8 मोप-अ, ब; 9 द्रव्यं-अ; 1. चैकत्र मु, चैकस्य-जे 1, जे. 3; 11 दङ्गीक्रियते -ड; 12 चैकत्र-कं। 13 वृत्तिभावात्-कं.। 14 व्यतिरिक्तः-र्क.। 15 प्रतीकमिदं क. पुस्तके नास्ति /