________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली सत्सु समर्थोत्पन्ना ऐन्द्रियका भवन्तीति चेन्न, समर्थोत्पादेऽपि परमसूक्ष्मस्वरूपानतिवृत्तः, समर्थोत्पत्तिमात्रेण च चाक्षुषत्वे मनस्कारेन्द्रिययोरपि प्रत्यक्षता स्यात्, अविशेषात् / अथ मतम्, प्रत्येक मस्थूला अपि परमाणवः केशसमूहवत्संहताः स्थूलावभासभाजो भवन्तश्चाक्षुषा जायन्ते, निरन्तरतया चैकत्वेनाध्यवसीयन्ते, इति चेत् ? किमेतेषु बहुषु तदानीमेकः स्थूलाकारो जायते ? किं वा केशेष्विवाविद्यमानः समारोप्य प्रतीयते ? 'यदि च जायते स नोऽवयवीति / अथाविद्यमानः प्रतीयते, भ्रान्तिस्तहि / भ्रान्तिश्चाभ्रान्तिप्रतियोगिनीति / क्वचिदेकः स्थलः सत्योऽभ्युपेयः / न च विज्ञाने तस्य सत्यता युक्ता, स्थूलमहमस्मीति प्रतीत्यनुदयादनेकद्रष्टसाधारणत्वाभावप्रसङ्गाच्च / तस्माद्विषय एवायमेकः स्थूलः, सर्वदा भिन्नाकारेण प्रतिभासनादर्थक्रियासम्पादनाच्चेत्यवयविसिद्धिः। ___ नन्वसति बाधके प्रतीतिसिद्धस्तथेति व्यवह्रियते, अवयविसद्भावे तु बाधक प्रमाणमस्ति / तथा हि पाणौ कम्पवति तदाश्रितं 'शरीरं न कम्पते, पादे वा कम्पमाने तद्गतं शरीरं न कम्पत इत्येकस्य विरुद्धधर्मताप्रसङ्गः / तदसङ्गतम्, पाणौ कम्पमाने शरीरकम्पावश्यम्भावनियमाभावात् / यदा पाणिमात्रं चालयितुं कारणं भवति तदा तन्मात्रं चलति न शरीरम्, कारणाभावात् / यदा तु शरीरस्यापि चलनकारणं भवेत् तदा शरीरं चलत्येव / नास्याचलनमस्तीति कुतो विरोधः, यदि हस्तश्चलति न शरीरं तदाऽवयवावयविनोयुतसिद्धिः प्रसङ्गः ? नवम्, पृथगाश्रयायित्वं युतसिद्धिः, न [टि०] ज्ञानम् / सर्वदा भिन्नेति-ज्ञानं हि न सर्वदा एकाकारेण प्रतिभासेत न चार्थक्रियां कुर्यादिति / एतावता ग्रन्थेनावयविसद्भावे प्रत्यक्षमनुमानं च प्रमाणं सूचितम् / स्तम्भोऽयमेक इति प्रत्ययो यथार्थोऽबाधितत्वात् यथैकं ज्ञानमे क: परमाणु रिति वा प्रत्ययः / अबाधित त्वमसिद्धं दर्शयन्नाह नन्वसति बाधक इति / एकस्य विरुद्धधर्मतेति-विरुद्धधर्म [पं०] एवंप्रकारैरप्यनुमानैरवयवी साध्यत इत्यर्थः / तानि चानुमानानि स्तंभोऽयमेक इति प्रत्ययो येषा [म] र्थोऽबाधित्वात, यथकः परमाणुरिति प्रत्ययः तथाऽवयवीति पदं सार्थकम्, पदत्वात्, परमाणपदवदित्यादीनि द्रष्टव्यानि / इत्येकस्य विरुद्ध धर्म ताप्रसंग इति-तथा च सति सुलभमनुमानमिदम्,-यविरुद्धधर्माध्यासितं तद्भेदवत्, यथा वह्निजले इत्यर्थः / तन्मात्रमिति = पाणिमात्रम् / परवाक्यं यदि हस्तेत्यादि / 'युतसिद्धिप्रसंग इति भेदसिद्धिप्रसंगः / युक् अमिश्रणे धातुः / [कु०] न्यायसूत्रं पठति येनेति / (कं. 41.10) अयमत्र प्रयोगः स्तम्भादयो रूपादिभ्यो भिद्यन्ते दर्शनस्पर्शनाभ्यां प्रतिसन्धीयमानत्वात्; ये न भिद्यन्ते न ते प्रतिसन्धीयन्ते यथा रूपादय इति व्यतिरेकी हेतुः / प्रतिसन्धानं च भिन्लेन्द्रियजप्रत्ययोरेकविषयतावसायाः। अत्रानकलतर्कमाह रूपादिमात्रे चेति (कं. 41.11) / 1 यदि जायते -जे. 1; जे. 3 / 2 योगिनी क्वचिदेक:- कं. 1; कं. 2 / 3 शरीरं कम्पते पादे चाकम्पमानेजे. 1, जे. 3 / 4 स्यात् -जे. 1, जे. 3 5 युतसिद्धि:-कं. 1, कं. 2 / 6 मेकपरमाणुरिति-अ, ब, क; 7 तत्वं सिद्ध-अ,क; 8 विरुद्धे-अ; 9 युतसिद्धिः-कं। 1. 'च' कं पुस्तके नास्ति /