________________ 118 न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् न्यायकन्दली आह-तत्रेति / भोगिनामदृष्टवशेन 'भूयसां पार्थिवावयवानामुपष्टम्भावनुभूतरूपस्पशं पिण्डीभावयोग्यं सुवर्णादिकमारभ्यते, तत्र पार्थिवद्रव्यसमवेता इमे रसादयो गृह्यन्ते / इतिशबः समाप्तौ। अनुभूतरूपस्पर्श सुवर्णादिकमिति न मष्यामहे, प्रतीयमानरूपस्पर्शव्यतिरिक्तस्य द्रव्यान्तरस्याभावादिति चेन्न, स्तम्भोऽयं कुम्भोऽयमिति प्रत्येकविलक्षणसंस्थानसंवेदनाद्रूपादि स्वभावस्य च सर्वत्राविशेषात् / वासनाभेदात् प्रतिसञ्चयं संवित्तिभेद इति चेत्? नीलादिसंवित्तिभेदोऽपि वासनाकृत एवास्तु नार्थो नीलादिभेदेन / असति बाह्यवस्तुनि स्वसन्तानमात्राधीनजन्मनो वासनापरिपाकस्य कादाचित्कत्वानुपपत्तेस्तन्मात्रहेतोर्नीलाविसंवेदनस्य कादाचित्कत्वासम्भवानीलादिभेदकल्पनेति चेत् ? स्तम्भादिसंवित्तिभेदस्यापि बाह्यवस्त्वननुरोधिनो न कादाचित्कत्वमुपपद्यत इति रूपादिव्यतिरिक्तः प्रतिसञ्चयं वासनाविशेषप्रबोधहेतुर्विलक्षणः संस्थानविशेषः कल्पनीयः, येन दर्शनस्पर्शनाभ्यामेकार्थग्रहणमपि सिद्धयति / रूपादिमात्रे वस्तुन्यस्याप्यसम्भवः, तेषामेकैकेन्द्रियग्रहणनियमात् / अपि च, रूपादयः परमाणुस्वभावाः प्रत्येकमतीन्द्रियाः, तद्व्यतिरिक्तः सञ्चयो नास्तीति भवता कोऽर्थो 'दर्शनस्पर्शनविषयः? प्रत्येकमतीन्द्रिया अपि परमाणवो मनस्कारेन्द्रियादिषु [टि०] तन्मात्र हेतोः इति-बाह्यनीलाभावे वासनापरिपाकमात्रहेतोर्नी लादिज्ञानस्य बाह्यनीलाभावे न कादाचित्की व्युत्पत्तिः स्याद्, अतो नीलादिभेदाङ्गीकारः / येन दर्शनेति यदेवाहमद्राक्षं तदेवास्यामित्येकार्थग्रहणं न स्यात् रूपस्पर्शपरमाणनां भिन्नेन्द्रियग्राह्याणां परस्परं भिन्नत्वात् / प्रत्येकमतीन्द्रिया इति-'मनस्कारः पूर्व उपादानज्ञानलक्षणः / म'नस्कारेन्द्रियादयोऽपि समर्था उत्पन्नाः / पुजात्पूजोत्पत्तिन्यायेन रूपादिपरमाणवोऽपि तथोत्पन्नाः / नन 'तदविषयज्ञानाकारः एव एकः स्थूल: सत्यो भविष्यतीत्याह-न च विज्ञान इति / अनेकदृष्ट्रेति-यदेव स्थूलं मया दृष्टं तदेवानेनापीति प्रत्ययात् सर्वेषामपि चैकस्तम्भोऽयं स्थूल इति प्रत्ययात्साधारणत्वम् / तस्माद् इति / विषय एव न तु [पं०] संपादनाच्चेति-न हि ज्ञानं सर्वदैकाकारम्, नीलपीताद्याकारपरावर्तभाक्तत्वात् / स्तंभादयस्त्वेकाकाराः। यथा देवार्थक्रियाकारितदेवपरमार्थसत् स्तंभाद्याकारज्ञानं च न गृहादिधारणाद्यर्थक्रियाक्षमम्, स्तंभादयस्तु तत्क्षमास्तस्माद्विज्ञानमेव स्थूलाकारं प्रतिभासत इति न मन्तव्यम् / किन्तु स्तंभाद्यवयव्यर्थो विषय (यी) भूतः स्वीकर्तव्य इत्यर्थः / इत्यवयविसिद्धिरिति-इति शब्दः प्रकारवचनः / यथा सर्वदा भिन्नाकारेण प्रतिभासनादर्थक्रियाकारित्वाच्चावयविसिद्धिः / [कु०] "प्रत्यक्षेणैव स्तम्भादिसंवित्तिभेदस्यापीति (कं. 41.8) / वासनाविशेष[प्र] बोध हेतुरिति (कं. 41.10) तु परमतानुसारेणोक्तम् / कादाचित्कबुद्धिविषयत्वेनेति तु तात्पर्यम् एव / कल्पनीय (कं. 41.10) इत्यत्रापि परमार्थत एवाङ्गीकर्तव्यमित्यर्थः / प्रत्यक्षवक्षिमे स्तम्भादीनां नीलादिसाम्यं प्रतिपाद्य तत्र विप्रतिपद्यमानं प्रत्यनुमानप्रदर्शनाय 1 भूयसां पार्थिवानां पार्थिवा - कं. 1, कं. 2 / 2 परिसमाप्तौ- जे. 1, जे. 3 / 3 स्वभावस्य सर्वत्र - कं. 1, कं. 2 / 4 दर्शनस्य विषयः-जे. 1, जे. 3 / 5 नीलज्ञानस्य बाह्यनीलाभावे व्युत्पत्तिः स्यादतो-ड; 6, ७-नमस्कार:- 8 तद्विषयः-ड; ९न त्वज्ञानम्-क; 10 प्रत्यक्षेणैव इति कं. पुस्तके नास्ति /