________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली स्यानुत्पत्तेः / काष्ठग्रहणमुपलक्षणार्थम्, तृणतुषादीनामपि कारणत्वात / 'ऊर्ध्वज्वलनस्वभावकम्, अद्ध्वं ज्वलनं क्रियाविशेषः, तत्स्वभावकं तद्धर्मकम् / पचनस्वेदनादिसमर्थम्, पचनं पूर्वगुणविलक्षणं गुणान्तरोत्पादनम्, स्वेदनं स्तब्धत्वनाशनम्, आदिशब्दाद्विस्फोटादिजननलक्षणं दहनं तत्र समर्थमित्यर्थक्रियोपवर्णनम् / दिव्यमबिन्धनं सौरं विद्युदादिभवं तेजोऽबिन्धनम्, आप इन्धनं यस्येति व्युत्पत्त्या तत्सौरं विद्युदादि, आदिशब्दादुल्काया 'अवबोधः / भुक्तस्याहारस्य रसादि'परिणामार्थमुदर्यम्, उदरे भवं तेजो भुक्तस्याहारस्य रसमलधातुभावेन परिणामप्रयोजनम् / आकरजञ्च सुवर्णादि / आकरः स्थानविशेषः, तस्मिन् सुवर्णरजतादि तैजसं द्रव्यं जायते / सुवर्णादीनां तैजसत्वे तावदागमः प्रमाणम् / न्यायश्चाभिहितः। कथं तहि गन्धरसयोरनुष्णाशीतस्पर्शस्य च 'गुरुत्वस्य चोपलब्धिरत [टि०] 'अग्नेरपत्यं प्रथमं सुवर्णम, भूवैष्णवी सूर्यसुताश्व गावः ।।-इत्यागमः / अत्र प्राथम्यं रजताद्यपेक्षया / 'नन्वप त्यत्वमग्नेनिमित्त त्वेनापि काष्ठवत् कारणत्वेऽपि सम्भवतीति नेदं तेजसत्त्वे नियामकम् / सत्यम्, तज्जातीयताख्यापनार्थबापत्यशब्द कीर्तनमन्यथा त्वग्नेः समृत्त्वमित्येव कुर्यात् / न्यायस्त्वक्षीयमाणद्रवत्वादिति / / प्रतीयमानेति-"रूपपरमाणस्पर्शपरमाणव एव संहता प्रतिभान्ति न तु स्थिरं किमपि तदतिरिक्तं द्रव्यान्तरत्वमवयविसञ्ज्ञकमेकम् / न स्तम्भोऽयम् इति-विलक्षणं संस्थानं यस्य स विलक्षणसंस्थानाधारोऽवयविसज्ञक द्रव्यान्तरं "प्रत्यक्षत एव संवेद्यत इति भावः / यदि तु रूपस्पर्शस्वभावमेव स्तम्भादि स्यात, तहि न विलक्षणसंस्थानत्वेनोप"लभ्येत, रूपादिस्वभावस्य "कुम्भे स्तम्भे चाविशेषात् / [पं०] समर्थोत्पन्नत्वमापन्नम् / ततः प्रत्यक्षता ब्यापद्यते इत्यर्थः / स नोऽवयवीति-स एकः स्थलाकारो, नोऽस्माकमभिमतोऽवयवीत्यर्थः / क्वचिदेकः स्थूल इति = एकोऽवयवी / तस्येति-स्थूलावभासस्य / अनेकदृ(द्र)ष्टसाधारणत्वाभावप्रसंगाच्चेति-यो यः पश्यति सः सर्वस्थूलाकारमेव पश्यति / यदि तु विज्ञानस्यैव स्थूलाकारत्वं कल्प्यते न तु विषयस्य तदा स्थूलाकारः सर्वदृ (द्र)टसाधारणो न स्यात् / विज्ञानस्यामूर्तत्वादित्यर्थः / सर्वदा भिन्नाकारेण प्रतिभासनादर्थक्रिया [कु०] न्यायश्चेति (कं. 40.25) आगमानुग्राहक इति शेषः / वासनाभेदादिति (कं. 41.5) यदि स्तम्भादिप्रत्ययाः सत्या भवेयुः तदैतद्युक्तम्, ते एव त्वनादिमिथ्यावासनावशात् कल्पितविषया इत्यर्थः / नीलादिसंवित्तिभेदोऽपोति (कं. 41.5) गुणेषु गुणिषि [नि] च नीव ? बुद्धिसाम्ये गुणानां वस्तुत्वं गुणिनः कल्पितत्वमिति विनिगमनाया न हेतुरित्यर्थः / नीलादिभेदकल्पनेति (कं. 41.8) नीलादिभेदस्य परमार्थत्वमित्यर्थः / तथैव "बुद्धिकादाचित्कत्वान्यथानुपपत्त्या स्तम्भादिरपि परमार्थ एव सिद्धयतीत्यत आह 1 पाठोयं - कं. 1, कं. 2, पुस्तकयो स्ति / 2 अवरोधः-जे. 1, जे. 3 / 3 परिणाम:-सर्वरूपस्य रूपान्तराव्याप्तिः-टिप्पण जे. 1 / 4 गुणस्योपलब्धिः -कं. 1, कं. 2, गुरुत्वस्य चोपलब्धः -जे. 1, जे. 2 / 5 अग्नेपरत्वं -अ; 6 पत्यमग्ने-अ%; 7 त्वनापि-अ, ब; 8 कीतमन्यथा-ड; 9 द्रव्यत्पाद् वत्वादिति-अ, ब, द्रव्यत्ववत्त्वादिति-क; 10 रूपपरमाणव एवं प्रतिभान्ति-अ, रूपपरमाणव एव संहता प्रतिभान्ति-ब, क, संहता एवेति सम्यक् भाति / 11 प्रत्यक्ष एव - ड; 12 लभ्यते - अ, ब; 13 स्तम्भकुम्भे-ड; 14 बुद्धिकारा-आदर्शपुस्तके /