________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [59-60] विषयसञ्जकं चतुर्विधम्-भौमं दिव्यमुदर्यमाकरजञ्च / तत्र भौम काष्ठेन्धनप्रभवमूर्ध्वज्वलनस्वभावं 'पचनदहनस्वेदनादिसमर्थम्, दिव्यमबिन्धनं 'सौरविद्युदादि, भुक्तस्याहारस्य 'रसादिपरिणामार्थमुदर्य्यम्, आकरजञ्च सुवर्णादि / तत्र संयुक्तसमवायाद्रसाद्युपलब्धिरिति / / ___ न्यायकन्दली __ 'इन्द्रियं सर्वप्राणिनां रूपव्यञ्जकमिति / सर्वप्राणिनां रूपव्यञ्जकं यदिन्द्रियं तत्तेजोऽवयवैरारब्धम् / इदमेव कुतो रूपव्यञ्जकमिन्द्रियं स्याद् नान्यत्तेजोद्रव्यमित्यत्रोपपत्तिः-अन्यावयवानभिभूतैरिति / ये पार्थिवोदकावयवैरप्रतिबद्धसामर्थ्यास्तेजोऽवयवास्तैरारब्धं चक्षुः, अत इदं विशिष्टोत्पादाद्रूपाभिव्यञ्जकमिन्द्रियं नान्यत् / तादृशं तदुत्पद्यत इत्यत्रादृष्टमेव कारणम्, कार्यनियम एव प्रमाणम् / तैजसत्वन्तु तस्य रूपादिषु मध्ये नियमेन रूपस्याभिव्यञ्जकत्वात् प्रदीपवत् / इदं त्वदृष्टवशादनुभूतरूपस्पर्शम, तेन न स्वाश्रयं दहति नाप्युपलभ्यते / [59] विषयसञ्जकं चतुर्विधम् / विषय इति सज्ञा यस्य तद्विषयसञ्जकं तेजःकाऱ्या चतुर्विधम् चातुविध्यमेव दर्शयति-भौममित्यादि / तत्र भौममिति / तत्रेति निर्धारणार्थः / भूमौ भवं भौमं काष्ठेन्धनप्रभवं काष्ठस्वभावं यदिन्धनं तस्मात् प्रभवत्युत्पद्यते, निराश्रय[टि०] [59] तस्मात्प्रभवति इति-वस्तूत्पत्तौ काष्टेन्धनं निमित्तीभवत्यत्यर्थः / स्तब्धत्वनाशनं इति-वंशादे:, दहनमिति दाहक्रिया। सुवर्णादीनाम् इति / पिं०] स्प्राक्षं तं पश्यामीत्यनेनोल्लेखेनैकार्थग्रहणम् / अस्याप्याप्यसंभव इति-एकार्थग्रहणस्याप्यसम्भवः / तेषामिति रूपादीनाम् / एकैकेन्द्रियग्रहणनियमादिति-अवयवी सर्वैरिन्द्रियैः ग्राह्यः, रूपादीनि त्वेकैकेन्द्रियग्राह्याणीत्यर्थः / भवतामिति = बौद्धानाम् / 'दर्शनस्येति = निर्विकल्पकप्रत्यक्षस्य। परः प्राह-प्रत्येकमतीन्द्रिया अपीति / मनस्कारेन्द्रिययोरपि प्रत्यक्षता स्यादविशेषादिति-कोऽर्थः ? यथा मनस्कारेन्द्रियादिषु सत्सु समर्थोत्पन्ना रूपादिपरमाणव ऐन्द्रियकाः स्युः, तथा मनस्कारेन्द्रिययोरपि सामर्थ्यं स्यात् / तदसामर्थ्ये रूपादिपरमाणूनां समर्थत्वानुत्पादात् / यतश्च मनस्कारेन्द्रिययोः [कु.] [59] "स्तब्धत्वनाश इति (कं. 40.19) स्तब्धत्वहेत्वोतिश्लेष्मणोरपगमेनेत्यर्थः / आप इन्धनं यस्येति (कं. 40.21) "व्युत्पादनमिति शब्दप्रवृत्तिनिमित्तभूतजात्युपसङग्राहकव्यावर्तकधर्मकथनमित्यर्थः / 1 पचनस्वेदनादि-कि. दे. ता.। 2 सौरं-दे। 3 रसादिभावेन परिणामसमर्थम्-कि.। 4 इन्द्रियं रूपव्यञ्जक ति-कं. 1, कं. 2 / 5 ईदृशं-जे. 1, जे. 3 / 6 तेजसः कार्य-जे.१, जे. 3 / 7 पाठोऽयं-कं. 1, कं 2 पुस्तकयो स्ति। 8 प्रतीति-अ, ब, क; 9 दर्शनस्पर्शनविषय-कं / 10 स्तब्धत्वनाशनं-कं। 11 व्युत्पत्त्या-कं /