________________ टिप्पणपत्रिकाकुसुमोद्गमाविटीकानयोपैतम् प्रशस्तपादभाष्यम् [58] तदपि द्विविधमणुकार्यभावात् / 'कार्यञ्च शरीरादित्रयम् / शरीरमयोनिजमेवादित्यलोके / पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् / इन्द्रियं सर्वप्राणिनां रूपव्यञ्जकमन्यावयवानभिभूतस्तेजोऽवयवैरारब्धं चक्षुः। न्यायकन्दली मरुतामनुष्णाशीतशीतानुष्णाशीतस्पर्शाः, उष्ण एव तेजसि स्पर्श इति वैधर्म्यम् / [58] पृथिव्यदकवत्तेजसोऽपि द्वैविध्यमपिशब्देन सम्भावयन्नाह-तदपीति / 'अणुकार्यभावात्, कार्यभावात् तेजोऽपि द्विविधमिति / 'कार्यञ्च शरीरादित्रयम्, शरीरमिन्द्रियं विषय इति त्रयं 'तेजसः कार्यम् / शरीरमयोनिजमेवादित्यलोके / नन दहनात्मत्वात्तेजसा तवारब्धं शरीरं वह्निपुञ्जप्रायं विशिष्टव्यवहारायोग्यत्वान्नोपभोगाय कल्प्यते, तत्राहपार्थिवावयवोपष्टम्भाच्च इति / पार्थिवावयवानां निमित्तभूतानामुपष्टम्भात् संयोगविशेषात् तेजोऽवयवा उपभोगक्षमं विशिष्टमेव शरीरमारभन्ते, न वह्निपुञ्जप्रायमित्यभिप्रायः / , [टि०] दृष्टान्तासिद्धिर्वाच्या, तद् गन्धस्य पूर्वमेवाभिव्यक्तत्वात् / सविशेषस्तु तदावारकद्रव्यापनयनात्प्रतिभातीति / केचिद् इन्द्रियमनःसंयोगव्यवच्छेदार्थ द्रव्यत्वे सतीति 'कुर्वन्ति; तन्न; मनोऽर्थसम्बन्धस्यैव तस्य व्यञ्जकत्वात्, अन्यथा तु तदवयवानां रश्मीनां च व्यवच्छेदार्थं विशेषणान्तरं कायं स्यात, पारम्पर्येण तदवयवानां साक्षाच्च रश्मीनां रूपव्यञ्जकत्वात् / यदा तेषामपि कारणविवक्षा तदा द्रव्यत्वे सतीति कर्तव्यमेवेति / [पं० सुवर्णादिनां तेजसत्वे तावदागमः प्रमाणमिति अग्नेरपत्यं प्रथमं सुवर्ण भूर्वैष्णवी सूर्यसुताश्च गावः / ___ लोकत्रयं तेन भवेत्प्रदत्तं यः कांचनं गां च महीं च दत्ते // इत्याद्यागमः / पिण्डिभावयोग्यं 'सुवर्णमारभ्यत इति अन्यथा पिण्डीभाव: पार्थिवानामेव घटत इति दृष्टव्यम् / द्रव्य. निषेधाय बौद्धः प्रत्यवतिष्ठते-अनुभूतरूपस्पर्श सुवर्णमित्यादिना-सन्दर्भेण / न मृष्यामहे इति = न क्षमामहे / द्रव्याम्तरस्येति अवयविनः / प्रतिसंचयमिति = प्रति परमाणुसमूहम् / बाह्यवस्तुनीति = नीलादौ / तन्मात्रतोरिति = वासनापरिपाकमात्रहेतोः / नीलादिभेदकल्पनेति-नीलादिभेदकल्पना क्रियते / येन कादाचित्कम (कत्पम्)पपद्यते इति भावः / प्रतिसंचयमिति = प्रतिपरमाणुसमूहम् / दर्शनस्पर्शनाभ्यामेकार्थग्रहणमपि सिध्यतीति यमहमद्भयः क्षतं स्पृशामि यं वा कु०] उष्ण एव स्पर्श स्तेजसीति (कं. 39.20) चन्द्रचामीकरचक्षुषामनुद्भवादप्रतीयमानस्तेजस्तयाऽनुमेय इति भावः / 158] कार्य नियम एव प्रमाणमिति (कं. 40.11) कार्या रूपोपलब्धिश्चक्षुषः सद्भावे प्रमाणं, सत्यपि तेजान्तरे शरीरसंयुक्तो अनेनैव रूपोपलम्भ इति नियमो विशिष्टारम्भे प्रमाणमित्यर्थः। 1 कार्य शरीरादित्रयम्, शरीरेन्द्रियविषयसञकम् -कि, तत्र कार्य-दे.। 2 अणुकार्यभावात-जे. 1, जे. 3 / 3 कार्य-जे. 1, जे. 3 / 4 तेजसः एव - कं. 1, तेजसश्च - कं. 2 / 5 पार्थिवानामवयवानां-कं. 1, कं. 2 / 6 कुर्धन्तीति-अ, ब, क; 7 वक्षा-अ, विक्षा-ब; 8 सुवर्णादिकं-कं। 9 उष्ण एव तेजसः स्पर्श:-कं / 10 नियत इति आदर्शपुस्तके /