________________ 114 न्यायकम्बलीसंवलितप्रशस्तपावभाष्यम् प्रशस्तपादभाष्यम् [57] तेजस्त्वाभिसम्बन्धात्तेजः / रूपस्पर्शसङ्खयापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वद्रवत्वसंस्कारवत् / पूर्ववदेषां सिद्धिः। 'तत्र शुक्लं भास्वरञ्च रूपम् / 'उष्ण एव स्पर्शः। न्यायकन्दली [57] तेजस्त्वाभिसम्बन्धात्तेज इति / व्याख्यानं पूर्ववत् / तेजस्त्वमिव रूपाघेकादशगुणयोगोऽपि तस्य वैध→मिति दर्शयति-रूपेत्यादि / 'पूर्ववदेषां सिद्धिरिति / यथा सूत्रकारवचनापादीनां पृथिव्यां सिद्धिस्तथा 'तेजस्यपीत्यर्थः / तथा च सूत्रम्"'तेजो रूपस्पर्शवत्" (वै. सू. 2-1-3) / सङ्ख्यादिप्रतिपादकन्तु साधारणमेव सूत्रम् / यादशमस्य रूपं तद्दर्शयति-शुक्लं भास्वरञ्चेति / शुक्लं रूपं पृथिव्यदकयोरप्यस्ति, 'किन्तु न तद्भास्वरं स्वपरप्रकाशकं शुक्लं रूपं तेजस्येवेति वैधर्म्यम् / यत्त्वस्य लोहितं कपिलं वा रूपं क्वचित्प्रतीयते तदाश्रयोपाधिकृतम्, निराश्रयस्य सर्वत्र शुक्लतामात्रप्रतीतेः, यथा प्रदीपप्रभामण्डलस्य सौरचन्द्राद्यालोकस्य च उष्ण एव स्पर्श इति / पृथिव्यदक[हिं०] [अथ तेजोनिरूपणम् // ] [57-58] नान्यतेजोद्रव्यम् इति-न त्वन्यत्तेजोद्रव्यमिति / नन्वन्यदपि प्रदीपादि तेजोद्रव्यं रूपव्यञ्जकमस्ति तदभावे चक्षुषोऽपि रूपव्यञ्जना सामर्थ्यात् / नैवम्, 'चक्षुर्वत् 'प्रदीपादेरालोकान्तरसहितस्य व्यञ्जकत्वाभावात् / कार्यनियम "एव प्रमाणम् इति "[रूपोपलब्धिः करणसाध्येत्यादि / तैजसत्वं च तस्य] इति / रूपाविषु इति-रूपत्वघटादिव्यजकत्वेनासिद्धिनिरासार्थम् ; एधकारस्तु मनोव्यवच्छेदार्थम् / न च तेजसोऽगुरुगन्धं प्रत्यभिव्यञ्जकत्वाद् [पं०] [57-59] पृथिव्युदकमरुतामनुष्णाशीतशीतानुष्णाशीतस्पर्शा इति-पृथिव्या अनुष्णाशीतस्पर्शः / 1 / उदकस्य शीतः स्पर्श: / 2 / मरुतोऽनुष्णाशीतः स्पर्शः / 3 / इति यथासंख्यम् / नान्य हीदृशमिति / अन्यत् = अग्न्यन्तरम् / कार्यनियम एवेति = रूपोपलब्धिरेव / प्रमाणमिति-कारणनियमे प्रमाणमित्यर्थः / इदं स्विति-चक्षुर्गतं तेजोद्रव्यम् / अनुवभतरूपस्पर्शमिति-रूपं च स्पर्शश्च रूपस्पर्शी, अनुभृतौ रूपस्पर्शी यत्र तदनुभूतरूपस्पर्शम् / न स्वाश्रयं बहतीति अनुद्भूतस्पर्शतां लक्षयति नाप्युपलभ्यते / अनुद्भूतरूपतां लक्षयति-उल्काद्ययरो(बो)ध इति = उल्कादिपरिग्रहः / [कु०] [57] रूपाकादशेति (कं. 39.13) भास्वररूपेण उष्णस्पर्शेन वा सहचारिता इति शेषः / "स्वपरप्रकाशकमिति (कं. 39.17) स्वपरप्रकाशनकार्येणाभिव्यक्तं भास्वरत्वं न (1) जातिविशेषस्तद्वयक्तमित्यर्थः / सौर चन्द्राद्यालोकस्य चेति (कं. 39.20) ननु तत्रापि घनीभूतस्योदकस्य शुक्लं रूपं प्रतीयत इति चेत्, उदकरूपेण सुपान्तरानभिभवात् / अन्यथा जलावसिक्ता नीलशाली[टी] धवला प्रतीयेतेति / 1 'तत्र' कि. पुस्तके नास्ति / 2 उष्ण एव स्पर्शः नैमित्तिकं द्रवत्वं च-कि.। 3 पूर्ववत्तेषां- कं. 1, कं. 2 / 4 तेजसीत्यर्थ-जे. 1, जे. 3 / 5 सूत्र पाठे 'अपि' र्नास्ति। 6 न भास्वरं रूपं स्वरूपप्रकाशकं-कं. 1, कं. 2 / 7 समर्थात् -अ, ब 8 क्षुर्वत् - अ, ब; 9 प्रदीपाबालोकान्तस्य-ब, क; 10 एवाप्रमाण- अ%; 11 [ ] एच्चिह्नान्तर्गतः पाठः-अबपुस्तकयोभ्रष्टः। 12 स्वरूपप्रकाशक-कं /