________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 113 न्यायकन्दली [56] इन्द्रियं रसव्यञ्जकं सर्वप्राणिनामिति / सर्वप्राणिनां रसव्यञ्जकं यदिन्द्रियं तज्जलावयवैरारब्धम् / तथापि कस्मात्तदेव रसव्यञ्जकं स्यात्, नान्यदुदकद्रव्यमित्याहविजात्यनभिभूतैरिति / विजातिभिः पार्थिवावयवैर्येऽनभिभूता अप्रतिहतसामा आप्यावयवास्तैरितरद्रव्यविलक्षणमारब्धमत इदं विशिष्टोत्पादाद्रसव्यञ्जकमिन्द्रियं न द्रव्यान्तरम्, तस्येत्थमुत्पत्त्यभावादित्यर्थः। एतच्च नियमदर्शनादेव कल्प्यते / रसनेन्द्रिय सद्भावे रसोपलब्धिरेव प्रमाणम्, क्रियायाः करणसाध्यत्वात् / आप्यत्वं रूपादिषु मध्ये 'रसस्यैवाभिव्यञ्जकत्वात्, मुखशोषिणां लालादिद्रव्यवत् / विषयनिरूपणार्थमाहविषयस्त्विति / 'सरित्समुद्रौ हिमं करको घनोपलमित्यादिविषयो भोग्यत्वेन भोक्तुर्भोगसाधनत्वात् / [टि०] [56] आप्यत्वम् इति-रसत्वं प्रत्यभिव्यञ्जकत्वाद् रसस्यैवेत्यसिद्धिः स्याद्, अत उक्तं *गुणादिषु - इति गुणेष्वित्यर्थः / नन्व पामभिनवशरावगन्धं प्रत्यभिव्यञ्जकत्वात् दृष्टान्तासिद्धिः ? नवम्, तथाविधगन्धाभिभावकतापापनयन एव जलस्य सामर्थ्यदर्शनात् / न च कुङ्कुम गन्धाभिव्यञ्जकघृतेप्यभिभावकद्रव्यापनायकत्वं शङ्कनीयम्, सर्वथानभिव्यक्तगन्धस्य कुङ्कुमादेः कुङ्कुमादिविष्टया पुनर्गन्धाभिव्यक्तिदर्शनात् / 'पृथिवीत्वप्रकरणे तु 'एव'कारेणास्यापि व्यवच्छेदोऽभ्युपगमसिद्धान्तेन / अत्रापि मनो व्यवच्छेदार्थमेवकारः / हरीतकी तु षडरसेति तदीय एव मधुरो रसो जलपानान्तरं प्रतीयते न तु जलमाधुर्य ‘तद् हरीतक्या व्यज्यते इति न तयाऽनेकान्तोऽन्यथा कर्कटीभक्षणानन्तरं कटुरसोपलब्धौ जले 'कटुकत्वाङ्गीकारप्रसङ्गः। "भोग्यत्वेन भोक्तुः इति शरीरेन्द्रियव्यवच्छेदार्थ भोग्यत्वेनेत्युक्तम् ॥जलम् / / [कु०] [56] विजातिभिरि[ति] (कं. 38.16) विजात्यनभिभूतैरिति वदतः प्रशस्तदेवस्य शिष्टतया (समासान्तविधेरन्यत्वात्सि) विप्रत्ययाभावोऽपि द्रष्टव्यः / अप्रतिहतसामर्थ्यादिति (कं. 38.17) वाताद्युपह[त] रसनस्य रसानुपलव्धेः द्रव्यान्तरसंसर्गः सामर्थ्यप्रतिबन्धीत्यनुमानादिति भावः / नियमदर्शनादेवेति (कं. 38.19) शरीरसंयुक्तेषूदकान्तरेषु सत्स्वप्यनेनैव रसाभिव्यक्तिरिति [नि] यमस्य दर्शनादित्यर्थः / 1 सद्भावेऽपि - जे. 1, जे. 3 / 2 रसस्य व्यञ्जकत्वात् - कं. 1, कं. 2 / 3 सरित्समुद्रा हिमकरका घनोपला इत्येवमादि-जे. 1, जे. 3 / * रूपादिषु-इति मूलपाठ: 4 पांमभि-अ, ब, क; 5 गन्धाभिभावकद्रव्यापनायकत्वं -अ, ब. 6 पृथिवीप्रकाराणि - अ; पृथिवीत्वप्रकाराणि-ब; 7 व्यवच्छेदकार्थ-ब; 8 'तद्'-अबक पुस्तकेषु नास्ति / 9 कटुत्वा...ड; 10 भाग्यत्वेन - अ%B