________________ 112 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [56] इन्द्रियं सर्वप्राणिनां 'रसव्यञ्जकं. 'विजात्यनभिभूतैर्जलावयवैरारब्धं 'रसनम् / विषयस्तु सरित्समुद्रहिमकरकादिरिति / न्यायकन्दली संयोगविशेषादाप्यं शरीरमुपभोगाय समर्थ स्यात् / आप्यशरीरोत्पत्तौ पार्थिवावयवा निमित्तकारणम्, तेषां संयोगादाप्यावयवानां द्रवत्वे प्रतिरुद्धे विशिष्टमेवेदं शरीरमुत्पद्यते, न जलबुद्भुदप्रायमित्यर्थः / ये तु पञ्चभूतसमवायिकारणं शरीरमित्यास्थिषत, तेषामगन्धं शरीरं स्यात्, कारणगन्धस्यैकस्यानारम्भकत्वात् / चित्ररूपरसस्पर्शञ्च प्राप्नोति, कारणेषु नानारूपरसस्पर्शसम्भवात् / न चैवं दृष्टम्, तस्मान्न पञ्चभूतप्रकृतिकम् / भूजलप्रकृतिकमप्यत एव न स्यात्, 'अत एव च भूजलानिलप्रकृतिकमपि न स्यात्, भूवाय्वाकाशप्रकृतिकत्वेऽरूपमरसमगन्धञ्च स्यात्, 'भूदहनानिलप्रकृतिकत्वे चागन्धमरसम् / अनलानिलाकाशप्रकृतिकत्वे चागन्धमरसमरूपं चेत्यादि यथासम्भवं योजनीयम् / न च पञ्चभूतसमवायिकारणत्वे 'शरीरस्यैकत्वं प्राप्नोति, स्वभावभेदेन भेदोपपत्तेः / मानुषं शरीरं पृथिव्यात्मकं गन्धवत्त्वात् परमाणुलक्षणपृथिवीवत् / उदकादिधर्मोपलम्भः कथमत्रेति चेत् ? संयुक्तसमवायादित्यलम् / [टि०] मानुषं शरीरम् इति अत्र शरीरमात्रपक्षीकृते आप्यशरीरादौ पार्थिवत्वस्या'प्यागमप्रमाणबाधितत्वात् कालात्ययापदिष्टत्वमसिद्धत्वं च / उदकादि-धर्म इति-स्नेहक्लेदादिः / [पं०] कथमत्रेति-अत्र शरीरे / संयुक्तसमवायादिति-पार्थिवशरीरेण संयुक्तान्युदकाग्निंवाय्वाकाशानि, तत्र समवेतास्तधर्मा इत्यर्थः / न द्रव्यान्तरमिति = न जलान्तरम् . इत्यमुत्पत्त्याभावादिति-विजात्यनभिभूतत्वेनोत्पादाभावात्। उपभोक्तुरिति = आत्मनः // इत्यापः // 2 // [कु०] सजातीयबहुत्वेन तथोपपत्तेः / विजातीयारम्भे त्वन्यथा भविष्यतीति शङ्काया दुर्निवारत्वात् / किञ्च प्रत्येक बहुभिरेव पार्थिवादिभिरवयवैरारम्भयं न [यन्न] दोष इत्यत आह चित्ररूपेति (कं. 38-7) / गन्धवत्त्वादिति (कं. 38-13) क्लेदादिविगमेप्यनुवर्तमानं गन्ध [व] त्वादित्यर्थः / "नान्यदुदकद्रव्यमिति शरीरसंयुक्तमितिशेषः / 1 रसोपलम्भकम्-कि., ता.। 2 अन्यावयवानभिभूतैः-कि., ता., व्यो.। 3 रसनेन्द्रियम् - दे.। 4 करकादिः -कं. 1, कं. 2 दे.। 5 अत एव भूजला - कं 1, कं. 2 / 6 भवेत् - जे. 1, जे 3 / 7 पाठोऽयं - कं. 1, कं.२ पुस्तकयो स्ति। 8 शरीरे-जे. 1, जे. 3 / 9 प्यागमबाधितत्वात् - अ, ब, क, 10 प्रतीकमिदं कं. पुस्तके नास्ति।