________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली [55] पृथिव्या इवापामप्यवान्तरभेदेन द्वैविध्यमित्याह-'तास्त्विति / परमाणुस्वभावा आपो नित्याः, कार्यस्वभावास्त्वनित्याः / कार्यञ्च त्रिविधम् / अत्रापि 'पूर्ववदित्यनुषङ्गः, यथा पृथिव्याः शरीरेन्द्रियविषयसंज्ञितं कायं त्रिविधमेवमपामपीति / 'तत्र शरीरमयोनिजमेव, पार्थिवं शरीरं योनिजमयोनिजञ्च, आप्यं शरीरमयोनिजमेवेति विशेष इत्यर्थः / ननु मानुषं शरीरं तावत्पार्थिवं गन्धगुणोपलब्धेः, आप्यं तु क्वास्तोत्याह-वरुणलोक इति / इदं शरीरमपामागमात् प्रत्येतव्यम् / 'द्रवत्वैकस्वभावत्वादपां तदारब्धं . शरीरं जलबुदबुदप्रायं विशिष्टव्यवहारायोग्यं कथमुपभोगसमर्थ 'स्यादित्यत आह पार्थिवावयवोपष्टम्भादुपभोगसमर्थम् / पार्थिवानामवयवानामुपष्टम्भात् [टि०] [55] पार्थिवावयवेति-ननु तत्र शरीरे पार्थिवत्वमेव मुख्यं, जलं त्वमुख्यमिति 'कथं नाभ्युपगम्यते ? नैवम्, आगममूलत्वादस्यार्थस्य आप: क्वचिच्छरी रारम्भिका इन्द्रियारम्भकत्वात् पृथिवीवदित्यनुमानाच्च / न "चात्राकाशेनेन्द्रियारम्भ केण शरीरानारम्भकेण व्यभिचार इति वाच्यम्, द्वयणुकादिप्रक्रमेणारम्भस्यात्र विवक्षितत्वादिति / नन्वेको गन्ध आरम्भको मा भून रसादयस्तु वित्रिचतुर्वृत्तय इति तेषामारम्भकत्वं भविष्यतीत्याह-चित्ररूपरसेति / [पं०] [55-56] "यत्तु पंचभूतसमवायिकारणमित्यत आरभ्य स्वभावभेदोपपत्तेरित्यन्त्यानां वाक्यानामक्षरार्थः सुगमः / भावार्थस्तु संप्रदायाभावादस्माभिर्न ज्ञायते / अत एव न व्याख्यायते / यद्यपि किल श्री नारचन्द्रटिप्पणके एषां वाक्यानां व्याख्यानं किञ्चित्किञ्चिदृश्यते तथाप्यस्माभिर्मन्दमतित्वान्नावगम्यते / अतो नोच्यते / [कु०] [55] अनुषङ्ग (कं. 37-22) इत्यस्य विभक्तिविपरिणामेन तासामिति चेति शेषः / आगमात्प्रत्येतव्यमिति (कं. 37-26) अ[म्भ] स्त्वं शरीरारम्भकद्रव्यसमवेतं द्रव्यारम्भकसमवेतत्वात् पृथिवीत्ववदित्यनुमानस्य गन्धकार्थसमवाय उपाधिरिति भावः / विशिष्टव्यवहारयोग्यम (कं. 38-1) इन्द्रियाधिष्ठानसम्बन्धायोग्यम् / नन सर्वशरीरोत्पत्तौ सर्वाण्यपि भूतानि संहत्य कारणं भवन्ति यावच्छरोरं नान्यतममपति, गन्धक्लेदाति[दितत्तत्कार्योपलम्भात्; ततश्च सर्वेषां समवायित्वमेव कुतो नेत्यत आह येत्विति (कं. 38-5) / कारणगन्धस्येति ( कं.३८-६) ननु तत्वे को दोषः ? सततोत्पत्तिप्रसङ्ग इति चेत्, अथ बहूनामप्यारम्भकथात्वे कथमयं प्रसङ्गो न स्यात् ? अपेक्षणीयसमवायि- कारणविरहादिति मा चोदः, एक्स्यारम्भकत्वंऽपि समवाय्यनेकत्वात् / पटादो बहभिरेवारम्भदर्शनादित्यपि न, तत्र 1 ताश्चेति-कं. 1, कं. 2 / 2 कार्यस्वभावा अनित्या-जे. 1, जे. 3 / 3 पूर्ववदनुषङ्गः- कं. 1, कं. 2 / . 4 'तत्र'-जे. 1, जे. 3 पुस्तकयो स्ति। 5 द्रव्यकस्वभावत्वादपां-कं. 1, जे. 1, जे. 3; अत्र कं. 2 इत्यस्यैव पाठः समोचीनः / 3 स्पादित्याह-कं. 1, कं. 2 / 7 'उपभोगसमर्थम्' इति - जे. 1, जे. 3 पुस्तकयो स्ति / 8 तव-अ, ब, न, क; 1 'क'- इति अ, ब, क सकेषु नास्ति। 10 चाकाशेन - ड; 11 ये तु-कं / 12. सर्वसर्व-आदर्शपुस्तके /