________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम प्रशस्तपादभाष्यम् [55] 'तास्तु पूर्ववद् द्विविधाः, नित्यानित्यभावात् / तासां तु कायं त्रिविधं शरीरेन्द्रियविषयसञ्ज्ञकम् / 'तत्र शरीरमयोनिजमेव वरुणलोके, पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् / न्यायकन्दली तदन्वयव्यतिरेकानुविधानात् / तथा चानुपदेशप्रभवानां तरुतणादीनां स्निग्धता, *जाङ्गलप्रदेशप्रभवानाञ्च रूक्षता / तत्रापि सततं परिषिच्यमानमूलानां स्निग्धत्वं तद्विरहिणाञ्च तन्नास्तीति / सांसिद्धिकञ्च द्रव्यत्वमिति / न केवलं स्नेहः, स्वभावसिद्धञ्च द्रवत्वमम्भस्येवेत्यर्थः / क्षीरतैलयोः स्वाश्रयसन्निकर्षेण तदुपलम्भः, क्वचित्तयोर्धनत्वोपलम्भात् / [टि०] [54] क्षीरतलयोः इति-स्वस्य "द्रवरूपस्याश्रयो जलं तस्य 'पार्थिवेन क्षीराद्यवयविना सन्निकर्षात्संयोगात् संयुक्तसमवायादिति भावः / [पं०] क्षीरतैलयोविषयभूतयोरुदके तस्य स्वाभाविकद्रवत्वस्य स्वाश्रयसन्निकर्षादुदकमन्निकर्षांद्दर्शन मिति योगः / क्षीरतैलयोर्मध्ये ह्य दकमस्ति / उदके च स्वाभाविक द्रवत्वम्, द्रवत्वोपेतोदकसंपर्काच्च क्षीरतैलयोः पार्थिवत्वादद्रवस्वरूपयोरपि द्रवत्वं दृश्यत इति भावः / अनुपदेशप्रभवानामिति-सजलप्रदेशजन्मनाम् / जाइलदेशप्रभवानामिति जलं गलत्यस्मा- . दिति जाङ्गलशब्दव्युत्पत्तिः / तत्रापीति = जाङ्गलदेशेऽपि / न केवलं स्नेह इति न केवलं स्नेहोऽपां पृथिव्यादिभ्यो वैधयमिति योगः / तदुपलम्भ इति = द्रवत्वोपलम्भः / क्वचित्तयोरिति-क्वथे = निष्पाके धातुना सिद्धम् / [कु०[ [54] उष्णत्वमग्न्यातपसंप्रयोगादिति सिद्धं एवायमर्थ इत्यनुक्तौ व(अ)म्भःस्नेहस्य साधारण्यमाह निविशेष इति (कं. 37.12) स्नेहस्तत्तभ्यवत्तया गुणः अभास्वररूपसाहचर्यनियमाच्च / न तेजःप्रभृतीनामश्रु? चानुभवसिद्धः, इत्येवंस्थिते चिन्तयति नन्विति (कं. 37.13) / स्नेहस्य पृथिवीगुणत्वं गन्धादिवत् सर्वव्यक्तिसाधारणतया चासौरभादिवत् क[तिपयव्यक्तिवृत्तितया वा? नाद्य इत्याह सर्वत्रेति (कं. 37.11) / तद्वितय इत्याह यत्विति (कं. 37.14) / अनैमित्तिकपृथिवीगुणस्य सर्वव्यक्तिवृत्तिबिशेषसामान्यविशेषस्येव सर्वव्यक्तिवृत्तित्वदर्शनादिति भावः / प्रत्यक्षे विप्रतिपद्यमानं प्रत्याह उदकधर्मत्वं चेति (कं. 37.14) / नन, सर्वगोपलम्भविशेषे स्वाश्रयसंन्निधि (ध) [व] शादेव क्षीरादौ द्रवत्वोपलब्धि न स्वभावत इति कुतो विनिश्चितमित्यत आह क्वचित्तयोरिति (कं. 37.20) / क्षीरे तावत्तापेन तोयविगमे घनत्वमुपलभ्यते तैलर्पिषोश्चात्यन्ताग्निसंयोगे भस्मीभाव उपलभ्यते / तत्र यदि सांसिद्धिकद्रवत्वं तदा आरब्धतलरेव परमाणुभिर्भस्मारम्भे भस्मन्यपि द्रवत्वं दृश्येतेति भावः / पार्थिवं च क्षीरस्य घनीभावे क्षीरमिति प्रत्यभिज्ञानात् / तैलसर्पिषोश्च भौमानलेन त्वा (च) द्रष्टव्यम् / 1 ताश्व-कं. 1, कं. 2 / 2 तासां तु' इति 'दे' पुस्तके नास्ति / 3 'तत्र' 'दे' पुस्तके नास्ति। 4 'च' कि. पुस्तके नास्ति / 5 स्निग्धतां-जे. 1, जे. 3 / * स्वल्पोदकतणो यस्तु प्रवातः प्रचुरातपः / स ज्ञेयो जाङ्गलो देशो बहुधान्यादिसंयुतः / 6 क्षीरतैलयोस्त्वा-कं. 1, कं. 2 / 7 द्रव्यत्वरूप-अ, ब, क; द्रवत्वरूप-ड; 8 पार्थिवत्वेन-अ; .