________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 109 प्रशस्तपादभाष्यम् [54] स्नेहोऽम्भस्येव सांसिद्धि'कञ्च द्रवत्वम् / न्यायकन्दली पूर्ववदेषां सिद्धिः। यथा 'पूर्व पृथिव्यां सूत्रकारवचनादेषां रूपादीनां गुणानां सिद्धिः प्रतिपत्तिस्तथाप्स्वपीत्यर्थः / तथा च सूत्रम्-"रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च" (वै. सू. 2.1.2) इति / सङ्घयादिप्रतिपादकन्तु साधारणमेव सूत्रम् / वैधर्म्यनिरूपणावसरे पृथिव्यादिसाधारणानां रूपादीनामभिधानमयुक्तमित्याशङ्कयावान्तर'भेदेनैषामसाधारणत्वं प्रतिपादयति-शुक्लेत्यादि / शुक्लमेव रूपमपां मधुर एव रसः शीत एव स्पर्शः। अपसु रूपान्तरप्रतीतिराश्रय रूपभेदात् / कथमेतदिति चेत् ? तासामेवोद्धृत्य वियति विक्षिप्तानां धवलिममात्रप्रतीतेः, पुनर्निपतितानामाश्रयरूपानुविधानात् / तासु न मधुरो रसो गुडादिवदप्रतिभासनादिति चेत् ? न, कटकषायतिक्तलवणाम्लविलक्षणस्य रसस्य संवेदनात्, गुडादिवदप्रतिभासनन्तु माधुर्य्यातिशयाभावात् / [54] निर्विशेष एव स्नेहोऽपां वैध→मिति ध्वनति-स्नेहोऽम्भस्येवेति / नन्वयं पृथिव्यामपि वर्तते, यथा क्षीरे तैले सपिषि च / न सर्वत्र, पाषाणेष्टकाशुष्कन्धनादिष्वसम्भवात् / यत्तु क्वचित् क्षीरादिषु दर्शनं तत्संयुक्तसमवायादुदकगतस्यैव, यथा सांसिद्धिकद्रवत्वस्य 'क्षीरतैलयोः स्वाश्रयसन्निकर्षात् / उदक धर्मत्वन्तु स्नेहस्य सर्वत्र [टि०] ननु तिलादिवत् गुडादिवलक्षण्यमप्यस्तीत्याह-गुडादिवद् इति-स्तोक 'तु माधुर्य कटुत्वादिविलक्षणमस्त्येवेति नेषत्कटुत्वाद्यभ्युपगमः / [पं०] [54] तत्संयुक्तसमवायादुदकगतस्यैवेति - पार्थिवद्रव्ये संयुक्तमपद्रव्यं तत्र समवेतः स्नेहगुण एवंरूपा संयुक्तसमवाया उदकगतस्यैव स्नेहस्य तदर्शनमित्यर्थः / यथा सांसिद्धिकद्रवत्वस्य क्षौरतलयोः स्वाश्रयसन्निकर्षादिति-यथा [कु०] "कटुकादिविलक्षणस्य रसस्य संवेदनादिति (कं. 37.10) ओदनादिसाधारणस्याव्यक्तमधुररसस्यानुभवादिति . भावः / माधुर्यातिशयाभावादिति (कं. 37.11) मधुरो हि रसोऽनेकावान्तरतारतम्ययुक्तः, तत्र गुडसाधारण्येनाप्रतीत्या अश्रु(इक्ष? ) माधुर्यापह्नवे इक्षुज्लौद्रादिष्वपि माधुर्यं न स्यादिति भावः / यत्तूदके दूषरा (धूसर)दिके दृश्यते तदपि रूपवदाश्रयसम्भेदात् / इदं च सामुद्रस्यैव बलहकपीतमुक्तस्य माधुर्योपलम्भात् / / 1 सांसिधिकं द्रवत्वं च - कि.। 2 पूर्वस्यां-जे. 1, जे. 3 / 3 भेदेन तेषाम् - जे. 1, जे. 3 / 4 रूपसंभेदात् -जे. 1, जे. 3 / 5 नाप्सु मधुरो रसो-जे. 1, जे.३। 6 क्षीरतैलयोः उदकधर्म... कं. 1, कं. 2 / 7 धर्मत्वं च-जे. 1, जे. 3 / 8 च-अ, ब; 9 नव-अ, ब, 10 कटुकषायतिक्तलवणाम्लविलक्षणस्य-कं.।