________________ 108 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली 'सङ्कीर्णस्वभावयोरुभयोर्ग्रहणादन्योन्याभावग्रहणं परस्परविविक्तयोर्वा ? सङ्कीर्णग्रहणे तावदयमयं न भवतीति प्रतीत्यसम्भव एव / परस्परविविक्तयोर्ग्रहणादभावप्रतीतावितरेतराश्रयत्वम्, विविक्तयोर्ग्रहणे सत्यभावग्रहणमभावग्रहणे च विविक्तग्रहणम्, अभाव एव विवेको यतः / अत्रोच्यते, भिन्नयोरितरेतराभावो नत्वितरेतरा भावो भेदः / यदेतद् वस्तुनः प्रात्यात्मिकं 'स्वरूपं स एव भेदः, तच्चापरदर्शनानपेक्षमिन्द्रियसन्निकर्षमात्रादेव प्रतीयमानं प्रत्येक विलक्षणमेव संवेद्यते। तथा हि-गवार्थी नाश्वदर्शनात् प्रवर्तते, गोशब्दञ्च न स्मरति, तत्राश्वे गवि च स्वेन स्वेनात्मना गृहीते तत्स्वरूपनियमेनान्योन्याभावप्रतीति नुपपन्ना / न चैवं सति वाच्यं स्वरूपभेद एवास्तु किमन्योन्याभावेनेति, तस्यापि प्रतिषेधविषयस्य संवेदनात् / न केवलमपत्वमपां वैधयं स्नेहसहचरितं चतुर्दशगुणवत्त्वमपीतरेभ्यो वैधर्म्यमिति प्रतिपादयन्नाह-रूपरसेति / अत्र द्वन्द्वानन्तरं 'मतुप'प्रत्ययः करणीयः। [टि०] 'सङ्ख्यादिप्रतिपादकं तु इति-सङ्ख्यापरिमाणानि संयोगविभागौ पृथक्त्वं परत्वापरत्वे कर्म च रूपिद्रव्यसमवायाद्याश्चाक्षुषाणीति सर्वेषु साधारणं सूत्रम् / [पं०] भवतीति -अयं गोः अयमश्वो न भवतीत्यर्थः / प्रात्यात्मिकमिति प्रतिनियतस्वेन स्वेनात्मनेति-स्वेन स्वेन रूपेण / तस्यापीति = स्वरूपभेदस्यापि / प्रतिषेधविषयस्य संवेदनादिति गौरश्वो न भवतीत्युल्लेखेन / निविशेष एवेति सहज इति / ध्वनति = कथयति पदवाक्यं नन्वयमित्यादि / श्रीधरः प्राह नेत्यादि / / [कु०] न भवति कार्यकारणयोरेकत्वानुपपत्तेरित्यभिप्रायः / 'किन्विति (कं. 36.18) परिशेषादित्यर्थः / वस्तुन इति षष्ठी / प्रात्यात्मिकमिति (कं. 36.18) तत्र भावार्थेऽपृथगुपचारो द्रष्टव्यः (व्यौ? ) / 'साधारणसूत्रमिति (कं. 37.5) जातावेकवचनम् / वैधय॑निरूपणावसर इति (कं. 37.5) यद्यपि शङ्का स्नेहचरि[सहि]तचतुर्दशगुणवत्त्वमपामितरेभ्यो वैधर्म्यमित्यनेन विरुध्यते तथापि रूपादयः प्रकारान्तरेणापि प्रतिपादयितुं बुभुत्सोत्पादनाय कृतेत्यविरोधः / शुक्लमेवेति (कं. 37.7) एवकारेण नीलादिवच्छुक्लतरत्वाद्यवान्तरभेदो. भास्वरत्वं च व्यवच्छिद्यते / इतरथा पृथिवीरूपस्य पाकजत्वेन तारतम्यप्रदर्शनेन तेजोरूपस्य भास्वरत्वप्रदर्शनेन विशेषविधि: शेषनिषेधपर इति न्यायाद् द्रष्टव्यम् / 1 सङ्कीर्णयो-कं. 1, कं. 2 / 2 भाव एव-जे. 1, जे. 3 / 3 रूपं-जे. 1, जे. 3 / 4 °च्चापरानपेक्षजे. 1, जे. 3 / 5 तथा च - जे. 1, जे. 3 / 6 गृह्यमाणेन - कं. 1, कं. 2 / 7 साङ्ख्यादि-अ, ब; 8 न ल-कं.। 9 साधारणमेव -- कं. /