________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 107 प्रशस्तपादभाष्यम् [53] अपत्वाभिसम्बन्धादापः / रूपरसस्पर्शद्रवत्वस्नेहसङ्ख्यापरिमाणपृथक्त्वसंयोग'विभागपरत्वापरत्वगुरुत्व'संस्कारवत्यः। पूर्व'वदेषां सिद्धिः। शुक्लमधुरशीता एव रूपरसस्पर्शाः / __ न्यायकन्दली वंशेक्षुप्रभृतयः / लता प्रसिद्धव, अवतन्वन्तीसत्यवताना विटपाः केतकीबीजपूरादयः, ये विना पुष्पं फलन्ति ते वनस्पतय 'उदुम्बरादयः। ननु स्वेच्छाधीनचेष्टाविरहः स्थावरत्वम्, 'तत्तु मृत्पाषाणयोरप्यस्ति / सत्यम्, तयो रूपान्तरस्यापि सम्भवादनेन रूपेणाभिधानं न कृतम् / [53] अपां लक्षणार्थमाह-अपत्वाभिसम्बन्धादाप इति / अत्रापि व्यवहारसाधनं समानासमानजातीयव्यवच्छेदो वा लक्षणार्थः, सर्व "पूर्ववत् / इदन्त्विह वक्तव्यम्स्वयं प्रत्यक्षाधिगतपदार्थभेदः परस्य लक्षणेन प्रतिपादयेत्, अप्रतिपन्नस्याप्रतिपादकत्वात् / भेदश्च पदार्थानामन्योन्याभावलक्षणः। स च यस्याभावो यत्र चाभावस्तदुभयग्रहणेन गृह्यते, अन्यथा तत्स्वरूपप्रतिनियमेन "निषेधानुपपत्तिः, गौरश्वो न भवतीति / तत्र कि [टि०] [अथ जलनिरूपणम् ] [53] स्वयं प्रत्यक्षेति-प्रत्यक्षेत्युपलक्षणम्, अनुमानेनाप्यधिगमो ज्ञेयः / अभाव एव विवेक इति-अत्र अभाव एवेति प्रथमान्तत्वे इतरेतराश्रयत्वमित्यात्माश्रयत्वमित्यर्थः, "अभावे एवेति सप्तम्यां तु इतरेतराश्रयत्वम् / अभावग्रहणे किमिति विवेकग्रहणम्, यस्मादभाव एव विवेको गृह्यते इति शेषः / "तथा च गवार्थी इति-"अश्वदर्शनाभावप्रतिपादनेन विजातीयानपेक्षत्वं दर्शितम् / गोशब्दस्मरणाभावेन तु समानजातीयानपेक्षत्वमिति / [पं०] [53] अत्रापीति-न केवलं पृथिव्यामप्स्वपीत्यर्थः / यस्याभाव इति - अश्वस्याभावः / यत्र चाभाव इति गवि चाभावः / तत्स्वरूप इति-नियमेनेति अश्वस्य रूपनैयत्येन / पर: प्राह तत्र कि संकीर्णस्वभावयोरित्यादि / अयमयं न [कु०] [53] इदं विहेति (कं. 36.10) अस्यार्थस्य सर्वलक्षणसाधारण्येऽपि पूर्वमनिरूपणादेव तु शब्दो द्रष्टव्यः / भिन्नयोरिति (कं. 36.17) इतरेतराप्रतीतिकारणतया पूर्वमेव भेदप्रतीति[त] रङ्गीकरणाय / स च भेदतस्त इतरेतराभावो 1 विभागपरत्वगुरुत्व-दे.। 2 संस्कारवत्यश्च-कि.। 3 एते च पूर्ववत्सिद्धाः - कि. व्यो. ता.। 4 ताना नाम विटपा:-कं. 1, कं. 3 / 5 औदुम्बरादयः-कं. 1, कं. 3 / 6 तच्च-जे. 1, जे. 3 / 7 नानेन रूपेणाभिधानं कृतम् -जे. 1, जे. 3 / 8 लक्षणमाह-कं. 1, कं. 2 / 9 आपः-कं. 1, कं. 2 / 10 पूर्ववत्कं. 1, कं. 2 / 11 प्रतिषेधानुपपत्ते:-जे. 1, जे. 3 / 12 अभाव-अ, ब, क; 13 तथाहि-मु; 14 अथ -अ, ब; 15 स्मरणभावेन-अ, ब, 16 सङ्कीर्णयोरुभयोः-कं. /