________________ 106 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [52] विषयस्तु द्वयणुकादिप्रक्रमेणारब्धस्त्रिविधो मृत्पाषाणस्थावरलक्षणः / तत्र भूप्रदेशाः 'प्राकारेष्टकादयो 'मृत्प्रकाराः। पाषाणा उपलमणिवज्रादयः। स्थावरा'स्तृणौषधिवृक्षगुल्मलतावतानवनस्पतय इति / न्यायकन्दली [52] शरीरेन्द्रियाभ्यां विषयस्य स्वरूपविशेषं 'तु'शब्देन दर्शयन् भेदं दर्शयतिविषयस्त्विति / द्वयणुकादिप्रक्रमेणारब्ध इति साधारणरूपानुवादः / मृत्पाषाणस्थावर लक्षण इति / मृत्पाषाणस्थावरादिस्वभाव इत्यर्थः। तेषां मध्ये मदं स्वरूपेण निर्धारयन्नाह-तत्रेति / तत्र 'भूप्रदेशाः भूगोलकल्पप्रदेशाः / स्थलनिम्नादयः प्राकारेष्टकादयः सर्वे ते मृत्प्रकाराः, मृत्प्रभेदा इत्यर्थः / पाषाणभेदमाह-पाषाणा इति / उपलाः शिलाः, मणयः सूर्यकान्तादयः, वज्रोऽशनिीं राश्च / तृणमुलपादिः, औषधयः फलपाकान्ता गोधूमादयः, ये सपुष्पफलास्ते वृक्षाः कोविदारप्रभृतयः, 'गुलमाः सस्तूपा [टि०] द्वित्व-सामान्यज्ञानं ततो द्वित्वज्ञानमिति प्रतिपादितत्वात्, नागृहीतविशेषणे विशिष्टबुद्धिरिति हेतोश्च दर्शितत्वात् / उच्यते न हि सामान्येन पदार्थो व्यज्यते ["पदार्थस्य स्वयमेव प्रतीतत्वात्,] "पदार्थाप्रतीतो सामान्यस्याप्रतीते: विशिष्टप्रतीतो सामान्यज्ञानमुपयुज्यते इति / घृतवद् इति-वर्षाकाल त्याभिभूतो हि कुङ्कुमगन्धः सर्षपतैलादिना व्यज्यते / प्रथमं तु तैलसम्पर्काभावेऽपि केसराणां तथाविधगन्धोपलम्भात् / साधारण रूपेति-शरीरेन्द्रिययोरपि द्वघणुकादिप्रक्रमारब्धत्वात् "सविटपा सविस्तरा / / // पृथिवी // इति" पृथिवी // [पं०] [52] घणुकादिप्रक्रमेणारब्ध इति साधारणरूपानुवाद इति यथा शरीरेन्द्रिये द्वयणुकादिप्रक्रमेण निष्पद्यते तथा विषयोऽपि द्वयणुकादिप्रक्रमेण निष्पद्यते इति भावः / तथापि तयोः रूपान्तरस्यापि संभवान्नानेन रूपेणाभिधानं कृतमित्यस्य भावार्थोऽस्माभिः संप्रदायाभावान्न ज्ञायते / अभियुक्तः स्वधिया वा बहुश्रुतमुखाद्वा ज्ञात्वयम् / - इति पृथिवी // 1 // [कु०] [52] मृत्पाषाणस्थावर स्वरूपमिति (कं. 35.12) मृत्त्वपाषाणत्वस्थावरत्वजातिभिः परस्परव्यावृत्त इत्यर्थः / स्थावरशब्दस्यावयवार्थमनुसृत्य चोदयति नन्विति (कं. 35.20) / रूढिबलीयस्त्वमाश्रित्य परिहरति सत्यमिति (कं. 35.21) / रूपान्तरस्य स्थावरस्वरूपादन्यस्वरूपस्य स्थावरत्वजात्यनाक्रान्तस्येत्यर्थः / अपि शब्दस्त्ववयवार्थानुसारेण द्रष्टव्यः / 1 कादिक्रमेणा - कं. 1, कं. 2 / 2 प्राकारेष्टिकादय:-कि.। 3 मद्विकाराः-कि. दे. ता.। 4 तृणौषधिवृक्षलतावतान-कं. 1, कं. 2; वृक्षतृणौगुल्मलतावतान-कि. ता.। 5 लक्षणः मत्पाषाण° -जे. 1, जे. 3 / 6 भूप्रदेशाः स्थलनिम्नादयः - कं. 1, कं. 2 / 7 पाषाण इति -जे. 1, जे. 3 / 8 हीरश्च-कं. 1, कं. 2 / 9 पाठोऽयं कं. 1, कं. 2 पुस्तकयो स्ति / 10 [ ] एतच्चिह्नान्तर्गतः पाठः अ पुस्तके नास्ति / 11 पदार्थप्रतीतो-अ, पदार्थाप्रतीती-ब. 12 साधारणरूपेति घृतवदिति ब-; 13 विटपाः मु. सविटपा:-जे. 1, जे. 3; 14 'इति पृथिवी'-क पुस्तके नास्ति / 15 लक्षण इति-कं., स्थावरादिलक्षण पा. 2.4 पु. /