________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 105 न्यायकन्दली क्रियायाः करण साध्यत्वात्, चक्षुरादिव्यापारे च तस्या अनुत्पादात् / पार्थिवत्वेऽपि रूपादिषु मध्ये गन्धस्यैवाभिव्यञ्जकत्वं प्रमाणम्, कुडकुमगन्धाभिव्यञ्जकघृतवत् / यथा घृतं स्वगन्धसहितमेव कुडकुमगन्धमभिव्यनक्ति, तथा घ्राणमपि स्वगन्धसहितमेवेन्द्रियम्, अतो न स्वगन्धस्य ग्राहकम्, तेनैव तस्याग्रहणात् / यथा घ्राणस्य तथा रसनचक्षुस्त्वगिन्द्रियाणामपि 'वक्ष्यमाणेन दृष्टान्तबलेन रूपरसस्पर्शसहकृतानामेवेन्द्रियस्वानुमानान्न स्वगुणग्रहणम् / श्रोत्रन्तु शब्दगुणमिन्द्रियम्, अतस्तेनैव शब्दोपलम्भः / [टि०] सत्यम्, क्रियते इति क्रिया इति व्युत्पत्या कार्यत्वादित्यर्थो व्याख्येयः। वैयाकरणरीत्या च तर्के 'विधात्वर्थः क्रिया' इति 'लक्षणेन 'गुणादीनामपि उत्क्षेपणत्वादिविलक्षणः क्रियेत्युल्लेखोऽभ्यपेयः, जानाति, इच्छति, प्रयतेते, संयुज्यते, समवैति, अस्ति इत्यादिवत् / इन्द्रियसिद्धावपि पार्थिवत्त्वे किंप्रमाणमित्याह-पार्थिवत्वेऽपि इति गन्धस्यैवेत्येतावति कृतेऽसिद्धत्वं स्याद्, 'गन्धत्वं प्रत्यमिव्यञ्जकत्वाद्; "अत उक्तं रूपादिषु इति / गुणेषु मध्य इत्यर्थः / नवशरावगन्धाभि२. व्यञ्जकजलस्य मनसश्च व्यवच्छेदार्थमेवकारः / नन गन्धत्वसामान्येन गन्ध एवाभिव्यज्यते नान्यादित्यनैकान्तिकत्वम् / न च समानकालमेव गन्धगन्धसामान्ययोरुपलम्भाद् गन्धत्वस्य न गन्धाभिव्यञ्जकत्वमिति वाच्यम्, द्वित्वादिप्रतीतौ [पं०] प्रार्द्रिष्टव्यम् / कुङ्कुमगन्धाभिव्यञ्जकघतवदिति यथा घृत पार्थिवमेवं रूपादिषु मध्ये गन्धस्यवाभिव्यंजकत्वात्, घ्राणमपि पार्थिवमित्यर्थः / स्वगन्धसहितमेवेति स्वगंधसहितमेव सदित्यर्थः / तेनैव तस्याग्रहणादिति स्वात्मनि क्रियाविरोधात् / न हि सुशिक्षितोऽपि बहदुःखमारोढमीष्टे / न च तिक्ताऽप्यसिधारा सर्य संछित्ते (?) तथा रसनचक्षुस्त्वगिन्द्रियाणामिति अत्र रूपरसस्पर्शसहकृतानामेवेति - रसनस्य' रससहितस्य, चक्षुषस्तु रूपसहितस्य त्वगिन्द्रियस्य तु स्पर्शसहितस्यै [व] सम्बन्धः / ननु यथासंख्यमनुवर्तव्यम्, असंभवात् / यदोन्द्रियं कर्तृस्वगुणं स्वयमेव न गृह्णाति, तत्कथं श्रोत्रं स्वगुणमादत्ते इत्याह श्रोत्रं तु न स (शब्द) गुणमिन्द्रियमतस्तेनैव शब्दोपलंभ इति घ्राणेन्द्रियाणामवयवित्वात्स्वावयवगुणारग्धगन्धादिगुणसहितानामेवेन्द्रियत्वम् / श्रोत्रं तु न शब्दगुणेन सहेन्द्रियं भवति / निरवयवमभोद्देशमात्रत्वात्तस्य, शब्दस्य तु क्षणिकत्वात् / ततो वक्त्रा समुच्चारितस्य जलतरंगन्यायेन श्रोतृश्रोत्रदेशे सदैवोत्पन्नस्यास्य श्रोत्रेणैवोपलंभो युज्यत इति भावः / [कु०] [51] ननु गन्धव्यञ्जकमित्युक्ते कुकुमादेर्गन्धस्य व्यञ्जके तैलादौ सर्वव्यञ्जके मनसि चातिव्याप्तिरत आह गन्धोपलम्भक इति (कं. 34.24) / गन्धत्वजात्याश्रयस्य सर्वस्येति व्याख्याना[त् ] तैलादिव्यावृत्तिः / तस्यैवेति व्याख्या (ना) नान्मनो व्यावृत्तिश्च द्रष्टव्या। नियमो न लभ्य [ते] इति (कं. 34.25) सर्वेषां पार्थिवानां भूयन्तरोपष्टम्भदर्शनादिह किमुपष्टम्भकं द्रव्यं गन्धमभिव्यनक्ति, पृथिवी वा [इति] सन्देह इत्यर्थः / इतरविलक्षणमिति (कं. 35.1) पार्थिवस्य द्रव्यान्तरोपष्टम्भा गन्धोपलब्धिः प्रतिबन्धाप्रतिश्यायादौ तथा दर्शनादिप्ति भावः / अनुपलभ्यमानगन्धत्वेनापार्थिवमिति पक्षानुमान माशङ्कयाह "अथेति / श्रोत्रं चिति (कं. 35.10) ग्रहणकार्यान्यथानुपपत्त्या बाह्येन्द्रियत्वादेव सगुणस्येन्द्रियभावानुमानं बाधितमिति भावः / 1 वक्ष्यमाणे तत्तदृष्टान्तबलेन-जे. 1, जे. 3 / 2 श्रोत्रन्तु न सगुण-जे.१, जे. 3 / 3 लक्षणे-अ, ब, क; 4 गुणाहीनामव्युक्षेत्वादि-अ; 5 किन्तु-अ, ब; 6 गन्धत्वं स्याद् गन्धं प्रति-अ. गन्धं प्रति-ब; 7 तत-अ%; 8 नान्यनित्य-अ, ब; 9 गन्धोपलम्भकम् / 10 प्रतीकमिदं कं पुस्तके नास्ति /