________________ 104 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [51] इन्द्रियं 'गन्धव्यञ्जकं सर्वप्राणिनां जलाधनभिभतः पार्थिवावयवैरारब्धं घ्राणम् / . न्यायकन्दली [51] 'इन्द्रियस्वरूपनिरूपणार्थमाह-इन्द्रियमिति / सर्वप्राणिनां गन्धव्यञ्जकं गन्धोपलम्भकं यदिन्द्रियं तत्पार्थिवावयवैरारब्धम् / एतावता नियमो न लभ्यते यदेतदेव गन्धमभिव्यनक्ति नान्यत्पार्थिवं द्रव्यम्, तदर्थमाह-'जलाधनभिभूतैः पार्थिवावयवैरारब्धं घ्राणम् / जलादिभिरनभिभूतैरप्रतिहतसामथ्र्यैरवयवैरदृष्टवशादितरविलक्षणमारब्धमेतत्, अतो विशिष्टोत्पादादिदमेव गन्धाभिव्यक्तिसमर्थम्, नान्यदित्यर्थः। घ्राणमिति तस्य संज्ञा / आत्मा जिघ्रति गन्धमुपादत्तेऽनेनेति कृत्वा तत्सद्भावे गन्धोपलब्धिरेव प्रमाणम्, [टि०] [51-52] नान्यत्पार्थिवमिति-अन्यत् हस्तादि। तत्सद्भावे इति-गन्धोपलब्धिः करणसाध्या, क्रियात्वात् छिदिक्रियावत् इति प्रमाणम् / 'ननु चत्रस्तिष्ठतीत्यादौ क्रियात्वेऽपि करणसाध्यत्वाभावादनकान्तिकता / न, तत्रापि स्वस्वरूपस्य स्वावयवानां च करणत्वात् / नन करणमप्यवान्तरव्यापारशालीति तस्यापि व्यापारपक्षेया कर्तृत्वे करणापेक्षत्वादनवस्था "न, अचिन्त्यत्वात् / ननूपलब्धिनिं गुणः, छिदिक्रियाप्यवयववि भागरूपैव, तत्कथमनयोः क्रियात्वम् ? [पं०] [51] एतदेवेति नासालक्षणम् / नान्यदिति अन्यत्हस्तादि / पार्थिवत्वेऽपि रूपादिषु मध्ये गन्धस्यैवाभिव्यंजकत्वं प्रमाणमिति / पार्थिवं घ्राणम् / रूपादिष मध्ये गन्धस्यैवाभिव्यंजकत्वात् / अत्राभिव्यंजकत्वादित्युच्यमानेऽबादिव्यक्तया व्यभिचारस्तस्या आत्वादिसामान्यव्यञ्जकत्वादित्याह- गन्धस्याभिव्यंजकत्वात् / तथाप्यद्भिर्व्यभिचारस्तासामपि प्रथमवर्षणादौ गन्धाभिव्यंजकत्वादित्याह-गन्धस्यैवेति-न खल्वापो गन्धस्यैवाभिव्यंजकास्तासां...दर्शनोद्भवदन्तोदकसंप्लवादौ रसस्याप्याभिव्यंजकत्वात् / एवमप्येकदेशसिद्धो हेतुः / गन्धत्वगुणत्वसामान्ययोरपि घ्राणस्याभिव्यंजकत्वादित्याह रूपादिषु मध्ये इति ततश्च सामान्याद्यवच्छेद: / यदि तु रूपादिषु मध्ये व्यंजकत्वाद्युच्येत तदाप्यालोकेन व्यभिचार: स्यादित्युक्तं गन्धस्येति - एवमद्भिः व्यभिचार इत्युक्तं गन्धस्यैवेत्यनुलोमविलोमाभ्यां विशेषणफलं [कु.] तयोरनुपलम्भ-बाधात्, परिशेषाद् द्रव्यरूपा वक्तव्या तत्राह अवस्थान्तरेति (कं. 34.6) / यदि ज्वालादिवत्सादृश्यनिमित्तोऽयं भ्रमः स्यात् तहि तद्वदेव प्रत्यक्षेणैव कदाचिद् बाधकेव न (न च?) भवितव्यमित्यत आह व्यक्तीनामिति (कं. 34.13) / युक्तिद्वारेणेति (कं. 34.15) अयं भावः, प्रत्यक्षमेव बाधकत्वेन प्रयोजक, सर्वत्रानुमेयस्यानुपबाधेनानुमानमात्रविलयापत्तेः, किय[त्] पजीव्यत्वं ताव [दि]ह शरीरस्यावस्थितिग्राहकम्, प्रत्यक्षमुपजीव्य भेदानुमानमुदेति / "गवादय इति-ग्राम्यश्चतुष्पाद इत्यर्थः / अन्येषां मार्जारमूषकादीनामुभयचारिणामित्यर्थः / 1 सर्वप्राणिनां गन्धव्यञ्जकं-दे.। 2 इन्द्रियमाह-कं. 1, कं. 2 / 3 जलाधनभिभूतैरिति - जे. 1, जे. 3 / 4 पलब्धि-ड; 5 ननु चैत्रस्तिष्ठत्यादौ क्रियात्वेऽपि करणसाध्यत्वात् छिदिक्रियावदिति प्रमाणम् इति अधिक: पाठः अपुस्तके। 6 करणत्वात् - अ, ब; 7 न तु-ब; 8 ज्ञान - अ, ब, क; , 9 पिभावस्वरूपैव - अ%; 1. प्रतीकमिदं कं पुस्तके नास्ति /