________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 103 न्यायकन्दली चेत् ? न, तस्य सादृश्यविषयत्वेनाप्युपपत्तेः / व्यक्तीनामव्यवधानोत्पादनेनान्तराग्रहणस्यात्यन्तिकसादृश्यस्य च भ्रान्तिहेतोः सर्वदा सम्भवे ज्वालादिव्यक्तिवन्नेदं तदिति बाधकानुदयेऽपि युक्तिद्वारेण बाधकसम्भवात् / तस्य प्रकारं दर्शयति-द्विविधमिति / द्वे विधे प्रकारौ यस्य तद् द्विविधमिति व्याख्या / जरायुरिति गर्भाशयस्याभिधानम्, तेन वेष्टितं 'जायत इति जरायुजम् / अण्डं बिम्बं तेन वेष्टितं जायते यत् तदण्डजम् / केषां जरायुजं केषां चाण्डजमित्यत्राहमानुषेत्यादि / मानुषा अस्मदादयः, पशवः छागाः, “अग्नीषोमीयं पशुमालभेत", "सप्तदश प्राजापत्यान पशनालभेत" इति दर्शनात् / मगाः कृष्णसारादयः, तेषां जरायुजं शरीरम् / इदञ्चोपलक्षणपरम्, अन्येषामपि चतुष्पदां जरायुजत्वात् / पक्षिणः प्रसिद्धाः। सरीसृपाः सस्तेषामण्डजं शरीरम् / एतदपि न नियमार्थमन्येषामपि मत्स्यादीनामण्डजत्वात् / [टि०] तत्र मातुः इति-मात्रया शनैः शनै: 'म्तोकस्तोकेनेत्यर्थः / 'अल्पपरिमाणावच्छिन्न इति-अत्रापि महतः परिमाणमिति समास: / अन्ते होनाधिकेति-आयषोऽन्ते परिमाणवतामने केषां शरीराणामुपलम्भ: स्यात् / ननु बालशरीरेऽविनष्ट एव तत्परिमाणाविनाशे तस्यैव शरीरावस्थान्तरोत्पत्तौ महत्परिमाणान्तर मपपत्स्यते; तत्र हीनाधिकपरिमाणवतामुपलम्भो भविष्यतीत्थाह विवादास्पदं परिमाणम् इति-यस्य परिमाणस्य विनाशः सम्भवति तस्याश्रयविनाशत्वमत्र साध्यते न तु सर्वस्य विनाशः परिमाणत्वेन हेतुना ततः परमाणगतपरिमाणेनाविनाशिना न व्यभिचार इति ग्रन्थकर्तरभिप्रापः वाक्यकाले तु कार्यपरिमाणत्वादिति हेतुर्विशिष्ट: कार्यः / [पं०] परिमाणावच्छिन्ने इत्यादिना। आश्रये इति-शरीरलक्षणे। परिसमाप्त्यभावादिति -असमानादित्यर्थः / शरीरं चेति - शरीरमवयविभूतम् / तत्सहकृतमिति - आहारावयवसहकृतमुभयथापि पदादिषु तन्त्वादिवत् / अन्ते हीनाधिकपरिमाण - वदनेकशरीरोपलम्भः स्यादिति- यथैकतंत्वविवक्षया परिपूर्णपटावयविनि खंडावयविनामनेकेषामुपलभ एवमन्ते लघु - लघुतर-लवुतमादिपरिमाणवतामनेकेषां शरीराणामुपलम्भः स्यादित्यर्थः / परिमाणे इति द्वे प्रथमोत्तरसम्बन्धिनी / तस्येति - प्रत्यभिज्ञानस्य / व्यक्तीनामिति = शरीरव्यक्तीनाम् / ज्वालादिव्यक्तिवदिति - ज्वालाधमादिव्यक्तीनामिव / बाधकसंभवादिति- प्रति (त्य) भिज्ञानगहीतस्यैकत्वस्य बाधकं प्रमाणं संभवतीत्यर्थः / [कु०] उत्पत्तेरारभ्याविनाशात् प्रत्यभिज्ञायमानतयैकत्वात्कथं शरीरे पाकजोत्पत्तिकल्पनेत्यभिप्रायवानाह शरीरभेदेति (कं. 34.4) / अवस्थान्तरविरहविशिष्टं परिमाणभेदमुपाधिमाशङ्कते अवस्थेति (कं. 34.6) / इह बाल्यकौमाराद्यवस्था न सामान्यादिद्वयात्मिका, आश्रयभेदो हि तद्भेद [इति / नाप्ययावद्रव्यभावी गुण: कर्म वा, 1 जायते जरायुजम्-जे. 1, जे.३। 2 जायते तदण्डजम्-कं. 1, कं. 2 / 3 इत्यादि निदर्शनात-जे. 1 जे. 3 / 4 स्तोकेन - अ, ब, क; 5 स्वल्प - मु; 6 वतेकेषां - ड; 7 मुपपश्यते-अ, ब; 8 न च -ड; 9 विवादास्पद - अ, क; विवादाध्यासितं-मु. विवादास्पदं - जे. 1, जे. 3;