________________ 102 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् ___ न्यायकन्दली किं प्रमाणम् ? परिमाणभेदः, 'स्वल्पपरिमाणावच्छिन्ने आश्रये महत्परिमाणस्य परिसमाप्त्यभावात् / अवस्थान्तरापन्नं शरीरं तदाश्रयो भवतीति चेत् ? अवस्थान्तरमाहारावयवसहकारिणः शरीरावयवा आरभेरन शरीरं वा तत्सहकृतम्, उभयथापि पटादिषु तन्त्वादिवदन्ते हीनाधिकपरिमाणवदनेकशरीरोपलम्भः स्यात्, न चैवम्, तस्मात् पूर्व प्रनष्टमपरञ्च शरीरमुपजातम् / विवादाध्यासिते परिमाणे भिन्नाश्रये, हीनाधिकपरिमाणत्वात्, घटशरावपरिमाणवत्, 'विवादाध्यासितं परिमाणमाश्रयविनाशादेव विनश्यति परिमाणत्वात्, मुद्गराभिहतविनष्टघटपरिमाणवत् / प्रत्यभिज्ञानाच्छरीरकत्वसिद्धिरिति [टि०] अथ प्रस्तुते प्राह शरीरभेदम् इति / यदि योनिः कारणमात्रं 'तदा द्वैविध्यं न स्यादित्याह शुक्रेति / सन्निपातो मेलकः / ऋषयो मन्वादयः 'मानसाः / ननु यदि परमाणनामैक्यं तहि कथं तज्जनितेऽर्थे शरीरत्वसामान्यमित्याह अत्रापि कार्ये इति-यषा गोघटादौ प्रागुक्तं तथात्रापीत्यपेरर्थः / ननु दृष्टस्तावद् इति-अयमभिप्राय:-देवर्षिशरीरं योनिजम्, पारीरत्वाद [अस्मदादिशरीरवदिति / तत्र व्यभिचारमाह-शुक्रादिनिरपेक्षस्य इति / विशिष्टसंस्थानशरीरत्वाद् इति विशिष्टहेतान्यभिचारमाशते विशिष्टेति] यद्यप्यत्र विशिष्टसंस्थानत्वस्यास्मदादितुल्यत्वेऽसिद्धिः देवादीनां चतुर्भुजादित्वात्, तथापि गोभुजगादौ तदभावेऽपि योनिजत्वादनियामकत्वे व्याप्यत्वासिद्धिमाह तथापि न नियमसिद्धिः इति / एतच्च तकरीत्येवोक्तं नानुमानं 'कृत्वेति मुख्यवृत्यवाभिप्रायकं तदेवानुमानं दूषयति एतेन बाधकानुमानम् इति / क्षुव्रजन्तूनाम् इति-यथा गवां शरीराणीति गोत्वसामान्यालिङ्गितानां तथाऽनस्थिजन्तुत्वोपलक्षितां शरीराणीति षष्ठ्युपपत्तिः / [पं०] शोणितद्रवे (व) रूपो गर्भः कलल: / तत्रेति = कललशरीरे / मातुराहाररसो मात्रया संक्रामतीति-मध्यनाड्या संक्रामतीत्यर्थः / उक्तं च पुत्रस्य नालो मातुश्च, हृदिनाडी निबध्यते / यया पुष्टिमवाप्नोति, केदार इव कु[ल्य ] या // 1 // कललारंभकपरमाणुभिः शरीरान्तरमारभ्यते-इति सम्बन्धः। कि विशिष्टे: / अदृष्टवशादुपजातिक्रियैः किं कृत्वा शरीरान्तरमारभ्यत इत्याह-आहारपरमाणुभिः सह सम्भूय [इति] - कथंभूतैराहारपरमाणुभिः समानगुणैः समानाः कललारम्भकपरमाणुभिस्तुल्या गुणा रूपादयो येषु ते तथा तैः समानगुणैरिति वाक्यार्थः / शरीरभेदे इति-प्रत्यहं शरीरान्यत्वे / शरीरभेदे कि प्रमाणमिति परप्रश्नः / परिमाणभेद इति श्रीधरोत्तरम / परिमाणभेद इत्येतद् व्याचष्टे-अल्प [कु०] तत्राप्यनेककालायःकुम्भीपाकक्र [क] चदारणादिदुःखानुभवक्षमतयाऽयोनिजं शरीरं सम्भावितमेवेति भावः / योनि[जं] शरीरमाहेति (कं. 33.21) योनिशब्दस्य कारणापर्यायत्वेन विभागानुपपत्तिशङ्कां परिहरतीति शेषः / 1 अल्प-जे.१, जे३। 2 विवादास्पदं-जे. 1, जे.३। 3 द्वैविध्यं तदा इति नास्ति-अ, ब, क; 4 भासः - अ, ब; 5 [ ] एतचिह्नान्तर्गतः पाठः अ पुस्तके भ्रष्टः। 6 कृति-अ, ब; 7 प्रायिक -33; 8 षष्ठयुत्पत्तिः - अ, ब, क;