________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 101 न्यायकन्दली तस्माज्जातं योनिजमित्युच्यते / पितुः शुक्रं मातुः शोणितं तयोः सन्निपातानन्तरं जठरानलसम्बन्धाच्छुक्रशोणितारम्भकेषु 'परमाणुषु क्रियाविभागादिन्यायेन शुक्रशोणितनिवृत्तावग्निसंयोगात् परमाणुषु पूर्वरूपादिविनाशे सति समानगुणान्तरोत्पत्तौ द्वयणुकादिप्रक्रमेण कललशरीरोत्पत्तिस्तत्रान्तःकरणप्रवेशो न तु शुक्रशोणितावस्थायाम्, शरीराश्रयत्वान्मनसः। तत्र मातुराहाररसो मात्रया संक्रामति, अदृष्टवशात् / तत्र पुनर्जठरानलसम्बन्धात् कललारम्भक'परमाणुषु क्रियाविभागादिन्यायेन कललशरीरे नष्टे समुत्पन्नपाकः कललारम्भकपरमाणुभिरदृष्टवशादुपजातक्रियैराहार'परमाणुभिः समानगुणैः सह सम्भूय शरीरान्तरमारभ्यत इत्येषा कल्पना शरीरे प्रत्यहं द्रष्टव्या / शरीरभेदे [20] शरीरेन्द्रियेति-शरीरेन्द्रियेत्यादिना तयोनिरास: आत्मेति व्यवच्छेद्याभावात्स्वरूपकथनम्, 'द्रव्यमिति च द्रव्यरुपविषयविशेषापेक्षया तदा चोपभोगसाधनमित्यप्यर्थकथनमात्रम् / नन कामिन्यश्वादिशरीराणामपि लोके विषयत्वप्रसिद्धिरस्तीति कथं तद्व्यवच्छेदः? भाष्य कारेण तावत्कार्यत्रैविध्यमुक्तं तेषां पृथक् स्पष्टता प्रतिपादनार्थमिदमुक्तम् ; वस्तु वृत्त्या तु स्वप्रतीतिजनको विषय इति विषय लक्षणमभावशरीररूपादिविषयव्यापकमिति / ग्रन्थोक्तं तु लक्षणं शरीरेत्यादि"विशेषितं तळ्यापक द्रव्यविशेषितं रूपाभावाद्यव्यापकम् / आत्मोपभोगसाधनम् इति च यद् व्यर्थमेव व्यवच्छेद्याभावादिति / एवं पार्थिवाप्यादीनां भूतानां शरीरादिलक्षणानि प्रतिपादितानि / [पं०] जठरानलसम्बन्धादिति - मातृसक्तजठराग्निसंपर्कात् / शुक्रशोणितारंभकेषु परमाणुष्ठ क्रियाविभागादिन्यायेन -शुक्रशोणितद्रव्यनिवृत्ताविति- शुक्रशोणितारंभकेषु परमाणुषु शुक्रशोणितद्रव्यनिवृत्तौ सत्यामिति पदघटना। केन कृत्वा शुक्रशोणितद्रव्यनिवृत्तौ सत्यामित्यत आह-क्रियाविभागादिन्यायेन प्रथमं मातृजठरानलस्य शुक्रशोणितयोश्च संयोगस्ततस्तयोः क्रियास (च) लनवलनादिका, क्रियातो विभागः, विभागात्पूर्वसंयोगविनाशः, संयोगविनाशाच्छु क्रशोणितद्रव्यनिवृत्तिरिति क्रमः / परमाणुष्विति- शुक्रशोणितारंभकपरमाणुषु / पूर्वरूपादिविनाशे सतीति अपाकजरूपादिविनाशे सति / समानगुणान्तरोत्पत्ताविति-पाकजरूपरसगन्धस्पर्शोत्पत्तौ / कललशरीरोत्पत्तिरिति एकरात्रोषितः संवलित कुला रेण शुक्रशोणितपूर्वकत्वे उपाधि दर्शयित शङ्कते "विशिष्टविशेषाभावादिति (कं. 33.16) / गर्भवासदु:खं परिभूय सुखोपभोजकस्यादृष्टस्याभावात् इत्यनेन गर्भवासदुःखमन्तर्भाग्यवोपभोज [क] मदृष्टमुपाधिरिति लक्षितेन तादृशादृष्टसत्त्वे किं प्रमाणमित्यत आह - यच्चात्रेति (कं. 33.18) / तदर्थमिति (कं. 33.20) क्षुद्रजन्तूनां * शरीरमित्येतावता अयोनिजशरीरसाधकं प्रत्यक्षं दर्शितमेव तथापि यातनाशरीरमिति पदं नारीकणां शरीरमुपलक्षयति / 1 परमाणुषु पूर्वरूपादिनाशे सति-कं. 1, कं. 2; 'क्रियाविभागादिन्यायेन' इति तु नास्ति / 2 रूपविनाशे सतिजे. 1, जे. 3 / 3 परमाणुक्रियाविभागादिन्यायेन - जे. 1, जे. 3 / 4 परमाणुभिः सह-कं. 1, कं. 2 / 5 च्छेद्याभावात्-ड; 6 मिति द्रव्यरूप-अ, ब, क 7 मित्यर्थ-अ, ब, क; 8 कारण-भ, ब; 9 वृत्त्या हि तु-ब; 10 लक्षात-म, ब; 11 यथोक्तं-अ, ब; 12 विशेषक--अ, ब, क; 1 च यत्र-ड; 14 अदृष्टविशेषाभावाद्