________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली सत्यम्, तथापि न नियमसिद्धिः, किमदृष्टविशेषाभावादस्मदादिशरीरस्य शुक्रादिपूर्वता, किं वा विशिष्टसंस्थानमात्रानुबन्धकृतेति संदेहात् / एतेन बाधकानुमानमपि पर्युदस्तम्, तस्य व्याप्तिसंदेहात् / यच्चात्र वक्तव्यं तद्योगिप्रत्यक्षनिरूपणावसरे वक्ष्यामः / अधर्मविशेषेणाप्ययोनिजं शरीरं भवतीत्याह-क्षुद्रजन्तूनामिति / क्षुद्रजन्तवो दंशमशकादयस्तेषां यातना पीडा दुःखमिति यावत्, तदर्थं शरीरं यातनाशरीरम् / तदधर्मविशेषसहितेभ्योऽणुभ्यो जायते। 'इदन्त्विह लोकप्रसिद्धमेव / योनिजं शरीरमाहशुक्रशोणितसन्निपातजमिति / शुक्रञ्च शोणितञ्च तयोः सन्निपातः संयोगविशेषः, [टि०] राश्रयः इन्द्रिये च लक्षिते तद'तोतत्वज्ञानं, तदतीतत्वज्ञाने चेन्द्रियज्ञानम् / उच्यते संस्कारदोषव्यतिरिक्तं साक्षाद् शरीरसंयूक्तमेवा परोक्षप्रतीतिसाधनमिन्द्रियमित्येवात्र लक्षणं शेषं तु स्वरूप कयनमिति / 'अत्र नयनगो लकस्य शरीरावयवत्वात् साक्षात्तत्संयुक्ताजनकामलादिद्रव्यव्यवच्छेदार्थ संस्कारदोषवर्जनम / अथेन्द्रियं की स्वयं साक्षाद व्यापार्यते अपरोक्षप्रतीतिषु च सर्वासु करणत्वेनानुवर्तते आलोकस्तु "स्वस्वभावव्यतिरिक्तप्रतीतावेव अञ्जनादिकं सम्यकप्रतीतो, दोषास्तु मिथ्या प्रतीताविति इन्द्रियस्य साधकतमत्वमन्येषां तु साधकमात्रत्वमिति विवक्षा, तदा स्वसाक्षात्प्रतोतिसाधकतमं द्रव्यमिन्द्रियमित्येतावदेव लक्षणं रम्यम / अत्र द्रव्यग्रहणमिन्द्रियार्थसंयोगव्यबच्छेदार्थम् / [पं०] अस्मदादिशरीरवदित्येवंविधमयोनिजशरीरबाधकसाधनमित्यर्थः / व्याप्तिसन्देहादिति किमदृष्टविशेषाभावादस्मदादिशरीरस्य शुक्रादिपूर्वता, किं वा व (वि) शिष्टसंस्थानमात्रानुबन्धकृतेत्येवं प्राप्तिसन्देहः / यच्चेति दूषणान्तरम् / अत्रेति बाधकानुमाने / तद्योगिप्रत्यक्षनिरूपणावसरे वक्ष्याम इति अयमभिसन्धि:-योगिप्रत्यक्षनिरूपणप्रकरणे योगिनोऽस्मदाद्यतीन्द्रियार्थदृष्टारो न भवन्ति, प्राणित्वात्, अस्मदादिवत्-इत्यनुमानं दूषयिष्यते / तदनुसारेण चेदमपि बाधकानुमानं दूषणीयम् / [कु०] ननु यद्यच्छरीरं तत्तत्सर्वं शुक्रशोणितपूर्वकमिति (ती) व्याप्तिमदूषयित्वा न कृती भवानित्यत आह अयमभिसन्धिरिति (कं. 33.7) / पार्थिवत्वाविशेषादिति (कं. 33.9) शुक्लत्वादिजातेरभावादित्यर्थः / ततश्च परम्पराकारणे कारणत्वभ्रमकृता न वास्तवीति भावः / "न न्वेवमिति (कं. 33. .) परम्परापि शरीरेणापेक्षणीयैव अन्यथा नरबीजाद्वानरादिजन्मप्रसङ्ग इत्याशङ्कयोपाधिमाह अत्रापीति (कं. 33.10) / जातिनियमस्य - जातेमनुष्यत्वादेनियमस्य न शरीरत्वस्य जातिसङ्करप्रसङ्गस्योक्तत्वात् / किं च स्पष्टोऽपि व्यभिचार इति दर्शयितुं शङ्कते नन्विति (कं. 33.11) / 1 प्रत्युक्तम् -जे. 1, जे.३। 2 इदं हि - जे. 1, जे. 3 / 3 लोकसिद्ध-कं. 1, कं. 2 / 4 तत्त्वज्ञानं - अ%; 5 संस्कारदोष-अ, ब, क; 6 परोक्षा-अ, ब; 7 वात्रोपलक्षणं-अ, ब, वात्रोलक्षणं-क. 8 कथमिति-अ, ब; 9 अथ-अ. 10 आलोकस्य-अ. 11 अथेन्द्रियं-अ, ड; 12 'च' अबपुस्तकयोभ्रष्ट: 13 कारण-अ, ब; 14 स्वभाव-अ, ब, क; 15 प्रतीताविति-अ; 16 प्रतीकमिदं नास्ति कं. पुस्तके /