________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् न्यायकन्दली इति विशेषः, धर्म एव विशेषो धर्मविशेषः, प्रकृष्टो धर्मः, तत्सहितेभ्योऽणुभ्य इति / अयमभिसन्धिः शरीरारम्भे परमाणव एव कारणम्, 'न तु शुक्रशोणितसन्निपातः, क्रियाविभागादिन्यायेन तयोविनाशे सत्युत्पन्नपाकजैः परमाणुभिरारम्भात् / न च शुक्रशोणित परमाणुनामितरपरमाणनां च कश्चिद्विशेषः, पार्थिवत्वाविशेषात् / अत्रापि कार्ये जातिनियमस्यादृष्ट एव हेतुः, एवञ्चेद्धर्मविशेषानुगृहीतेभ्यः परमाणुभ्योऽयोनिजशरीरोत्पत्ति नुपपन्ना। ननु दृष्टस्तावत् सर्वत्र शरीरोत्पत्तौ शुक्रशोणितयोः पूर्वकालतानियमः, तेन 'यथा ग्रावोन्मज्जनाभ्युपगमस्तत्सदृशनावान्तरनिमज्जनग्राहकप्रमाणान्तरविरोधादनुपपन्नस्तद्वदयोनिजशरीराभ्युपगमोऽपि, नैवम्, शुक्रादिनिरपेक्षस्यापि शलभादिशरीरस्य दर्शनात् / विशिष्टसंस्थानस्य शरीरस्य शुक्रादिपूर्वतावगतेति चेत् ? [टि०] शरीराश्रयम्-शरीराश्रयमित्यनेन धर्माधर्मदीपतत्प्रभादिनिरासः / अपरोक्ष प्रतीतिसाधनमित्यनेन दुष्ट रक्तवातादिनिरासः, तेषामागमानुसारेण जन्मान्तरोपात्तपरोक्षाधर्मप्रतीतिसाधनत्वात् / द्रव्यमित्यनेनेन्द्रियार्थसंयोगव्युदासः, भोक्तुरित्यर्थकथनं व्यवच्छेद्याभावात् / ननु शरीराश्रयमित्याश्रयपदस्य सम्बन्ध मात्रार्थत्वाच्छरीरसंयुक्तदीपतत्प्रभा दीनामपि इन्द्रियत्वं स्यात् / अथ नियमव्याख्यानेन तेषां व्यवच्छेदस्तथापि साक्षाद्वा सम्बन्धः पारम्पर्येण वा? आ"ये इन्द्रियार्थसन्निकर्षस्य संयुक्तसमवायेन शरीरसम्बद्धस्य व्यवच्छेदार्थ द्रव्यग्रहणं न कर्तव्यम, द्वितीये नयनरम्यादिद्वारेण संयुक्तसंयोगादि सम्बन्धेन सम्बद्धस्य दीपतत्प्रभादेर्व्यवच्छेदार्थं यत्नान्तरं कार्यम् / अतीन्द्रियमिति तु "विशेषणे इतरेत [पं०] विशिष्टसंस्थानस्य शरीरस्य शुक्रादिपूर्वतावगतेति-देवर्षिशरीरं शुक्रा दिपूर्व विशिष्टसंस्थानत्वादस्मदादिशरीरवदिति / विशिष्टसंस्थान मात्रानुबन्धकृतेति विशिष्टसंस्थानमात्रेण सह योऽनुबन्धः प्रतिबन्धो व्याप्तिः प्रस्तावात् / शुक्रादिपूर्वताया एव तत्कृता शुक्रादिपूर्वता। बाधकानुमानमपीति-देवर्षिशरीरं शुक्रादिपूर्वं विशिष्टसंस्थानोपेतत्वात्, कु०] शरीराश्रयमिति (कं. 32.25) शरीराश्रयत्वं शरीरानुपघातानुग्रहप्रयुक्तवद्वत्वम्? अनेन बाह्यालोकव्यवच्छेदः / प्रतीतिसाधनमित्यनेन शरीरगतरूपादिभ्यो व्यवच्छेदः / साधनमिति करणव्युत्पत्त्या प्रतीति प्रति कर्मभूतेभ्यस्तेभ्यो व्यवच्छेदः / एवं च सति ज्ञातुरिति स्वरूप, कथम् ? अकारणत्वादेवाप्रसक्ते द्रव्यमिति वा। . शरीरेति (कं. 32.25) अहं सुकुमार इत्यादिप्रतीत्या हर्षाद्युत्पत्तौ शरीरस्यापि विषयत्वे सम्भवति तद्व्यतिरिक्तोक्तिनियमाव्यावृत्ताशरीरस्थापि विषयत्वेनापि पुरुषार्थप्रतिपादनाय शरीरग्रहणं न व्यर्थमिति प्रतिपादनपरा / ततश्च प्रतीतीति कर्मतयोपभोगसाधनं विषय इति निकृष्टं विषयलक्षणं द्रष्टव्यमिति शरीरग्रहणं न व्यर्थमिति / एवंरूपभवच्छरीरारम्भकत्वमपि पृथिव्या वैधर्म्यमिति शेषः / 1 न शुक्र-कं. 1, कं.२। 2 परमाणूनां कश्चिद्विशेष:-कं. 1, कं. 2 / 3 °कारणता-पा. २-पु.। 4 तथाजे. 1, जे. 3 / 5 प्रतीत -अ, ब; 6 ज्ञातु-ड. 7 शरीराश्रयपदस्य - अ; 8 मात्रार्थत्वाशरीर- अ, ब; 9. प्रदीना-अ; 10 साक्षात्-अ, ब, क; 11 आद्येन्द्रिय-अ, ब, 12 रश्मादि-ड; 13 विशेषता-अ, ब;