________________ न्यायकन्दलीसांवलितप्रशस्तपादभाष्यम् न्यायकन्दली द्रव्यमिन्द्रियम् / शरीरेन्द्रियव्यतिरिक्तमात्मोपभोगसाधनं द्रव्यं विषयः / शरीरभेदं कथयति-योनिजमयोनिजञ्चेति / शुक्रशोणितसन्निपातो योनिः, तस्माज्जातं योनिजम्, तद्विपरीतमयोनिजम् / तदेव दर्शपति तत्रायोनिजमिति / तयोर्योनिजायोनिजयोमध्येऽयोनिजं शरीरं शुक्रशोणितमनपेक्ष्य जायते / केषामित्यत आह-देवर्षीणामिति / 'देवानाञ्च ऋषीणाञ्चेत्यर्थः / अन्वयव्यतिरेकावधारितकारणभावस्य शुक्रशोणितस्याभावे कथं शरीरस्योत्पत्तिरित्यत आह-'धर्मविशेषसहितेभ्योऽणुभ्य इति / विशिष्यत [टि०] यदवच्छिन्ने आत्मनि भोगस्तवन्त्यावयविपदेन 'प्राणात्ममनःसंयोगहस्तादीनां व्यवच्छेदस्तेषामपि हस्ते मे वेदना इत्याद्युल्लेखेनात्मावच्छेदक त्वादिति / ननु शरीरान्तःप्राणोऽप्यन्त्यावयवो भवति भोगायात्मावच्छेदकश्चेति तस्यापि शरीरत्वं स्यात् ? नवम्, 'योवयव्यन्तरे 'सजातीये मिलितेऽविनष्ट एव कार्यान्तरमारभते सोऽन्त्या वयवी न भवतीति वायोर्वाय्वन्तरे मिलिते सति स्थूलैकवाय्वावयव्यारम्भकत्वेनान्त्यावयवित्वाभावादिति / [पं०] क्रियाविभागादिन्यायेन तयोविनाशे सतीति उदर्यवह्नः शुक्रशोणितयोश्च संयोगः / ततस्तयोः क्रिया, चलनवलनादिका। क्रियातो विभागः / विभागात्संयोगविनाशः / संयोगविनाशात्तयोः शुक्रशोणितद्रव्ययोविनाशः / उत्पन्नपाकजैरिति उत्पन्नाः पाकजा रूपादयो येषु ते उत्पन्नपाकजाः तैः / इतरपरमाणूनामिति = धर्मविशेषानुगृहीतपरमाणनाम् / तत्रापीति शुक्रशोणितसन्निपातकारणत्वेऽपि / जातिनिय[मस्येति = ब्राह्मणत्वक्षत्रियत्वादिनयतस्य / एवं चेदिति - एवं सतीत्यर्थः / अवयवानामनेकार्थत्वात् / उक्तं च-- धातवाश्चा[श्चो] पसर्गाश्च निपाताश्चेति ते त्रयः। भनेकार्थाः स्मृताः सर्वे पर्दस्तेषां निदर्शनम् // [कु०] [50] ननु न शरीरत्वादयो जातयः सम्भवन्ति तत्र शरीरत्वेन्द्रियत्वे पृथिबीत्वादिभिः परापरभावानुपपत्तेना जातिविषयत्वे च / निःसामान्यं सामान्यादिवृत्तिता(य) [इ] त्यतो लक्षणमेवोपाधिमाचष्टे भोत्तुरिति (कं. 32.24) / यद्यपि सुखदुःखसाक्षात्कारो भोगस्तथापि भुज्यन्त इति व्युत्पत्या सुखं वा भुज्यते अनेनेतिव्युत्पत्त्या तत्साधनभूता बुद्धयो वा विवक्षिता। तावन्मात्रेणैव लक्षणसिद्धेस्ततश्च सुखायतनं दुःखायतनमित्येवमादि लक्षणानि द्रष्टव्यानि / तेषां चात्मनाऽतिव्याप्तिर्माभूदित्यत उक्तं भोक्तुरिति पदम् / ततश्चेह भोगायतनत्वं भोजकात्मसंयोगाधिकरणत्वं पार्थिवकार्यविचारपावाला? यन्त्यावयवीति च पदं लभ्यते ततन शरीरावयवे मनसि च नातिव्याप्तिः / संयोगस्य भोगकारणत्वाविवक्षया न चस्त्र्यादावति व्याप्ति: तस्य हि ना [न] संयोगो भोगहेतुः सत्यपि भोगानुदयादसत्यप्युदयात् / शरीरस्यात्मना संयोगे सत्येव भोगोदय इति कारणत्वं न तस्येति / अतो भोक्तु गहेतुभूतसंयोगाधिकरणमन्त्यावयवि शरीरमिति वा शरीरलक्षणं नियंढम् 1 देवानामृषीणां च - जे. 1, जे. 3 / 2 धर्मविशेषसहितेभ्य इति - कं. 1, कं. 2 / 3 प्राणात्मनः - अ, ब, 4 कादिति-अ, ब, क; 5 योऽवान्तरे-अ, ब, क; 6 सजातीय-अ, ब, क; 7 वयवी भवतीति-अ, ब, क;