________________ टिप्पणपञ्जिकाकूसमोद्गमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् [50] त्रिविधं चास्याः कार्यम् / शरीरेन्द्रियविषयसंज्ञकम् / शरीरं द्विविधं योनिजमयोनिजञ्च / तत्रायोनिजम नपेक्ष्य शुक्रशोणितं देवर्षीणां शरीरं धर्मविशेषसहितेभ्योऽणुभ्यो जायते / क्षुद्रजन्तूनां यातनाशरीराण्यधर्मविशेषसहितेभ्योऽणुभ्यो जायन्ते / शुक्रशोणितसन्निपातजं योनिजम् / तदद्विविधं जरायुजमण्डजञ्च / मानुषपशमगाणां जरायुजम् / पक्षिसरीसृपाणामण्डजम् / / . न्यायकन्दली यथा यथा तदारब्धेष्वपरजातयो व्यज्यन्ते। नन्वदृष्टकारिता सर्वभावानां सृष्टिः, कार्यलक्षणा पृथिवी कामर्थक्रियां पुरुषस्य जनयति, येनेयमदृष्टेन क्रियत इत्यत आहशयनासनेति / शयनासनादयोऽनेक उपकारास्तत्कारिणी कार्यलक्षणेति / [50] कार्यान्तरं त्वस्याः समच्चिनोति-'त्रिविधं चेति / कार्यत्रैविध्यमेव दर्शयतिशरीरेत्यादि / शरीरमिन्द्रियं विषय इति संज्ञा यस्य कार्यस्य तत्तथा। भोक्तु गायतनं शरीरम्, मृतशरीरे 'तद्योग्यत्वात्तद्वयपदेशः / शरीराश्रयं ज्ञातुरपरोक्षप्रतीतिसाधनं टि० [50] भोक्तु गायतनमिति-अत्र भोक्तृपदं स्वरूपकथनार्थ व्यवच्छेद्याभावात् / ननु भोगस्तावत्स्वसमवेतसुखदुःखसाक्षात्कारः, अत्र चेश्वरव्यवच्छेदार्थ स्व समवेतेत्युक्तम, तथा च भोगं प्रति तस्य किमायतनत्वम् ? 'न तावत्स [मवायिकारणत्वम्, नाप्यसमवायिकारणत्वम, न च निमित्तकारणत्वम्, नैव विषयत्वम् / आये आत्मनस्तथात्वापत्तेः, द्वितीये आत्ममनःसंयोगस्य] "तृतीये इन्द्रियस्य चतुर्थे सुखस्येति / सत्यम्, आयतनं गृहपरपर्यायः तथा च तेन [पं०] न द्वयणुकरचाक्षुषत्वप्रसंगात् / घणुकानि ह्यचाक्षुषाणि, अचाक्षुरारब्धमघाक्षुषमेव भवति। कारणानुरूपत्वाकार्यस्य / तस्माद् द्वघणकत्रयनिष्पन्नश्राक्षुषस्यणुकैरेव चाक्षुषं घटादिद्रव्यमारभ्यत इति वाक्यभावार्थः / आश्रयविनाशस्येति - आश्रयः समुदिताः परमाणवः / परमाणुजातिष्वपरजात्यभावेऽपोति-न हि पारंपर्येण गोऽश्वाद्यारम्भकेषु परमाणुद्वयणुकत्र्यणु [क] चतुरणुकादिषु गोत्वाश्वत्वादयो जातयः सन्ति / व्यूह इति = रचना। भवतीति शेषः / [50] नन्वदृष्टकारिता सर्वभावानां सृष्टिरित्यतः पुरतः ततश्चेत्यध्याहारः / ज्ञातुरिति = आत्मनः / अपरोक्षप्रतीतिसाधनं द्रव्यमिति अत्रातीन्द्रियमिति विशेषणमध्याहार्यम् / अन्यथा अंजनेन व्यभिचार: स्यात् / [कु०] समुच्चिन्वन्नाह [इति] (कं. 32.14) साधकं प्रत्यक्षमिति शेषः / प्रशिथिलत्वादीत्यादिपदेन विष्टम्भकत्वादिपरिग्रहः / “संयोगविशेष इति (कं. 32.16) जातिव्यजक संस्थानमाकृतिरित्यर्थः / न च द्रव्यान्तरमेतत्सम्भवति / नन्वदृष्टेति (कं. 32.19) अदृष्टं चोपभोज[च] कमेवेति शेषः / कामर्थक्रियामिति (कं. 32.20) उपयोगमित्यर्थः / 1 तत्र शरीरं-दे / 2 मनपेक्ष-कि; व्यो.। 3 तत्तु-कि.। 4 °स्तत्करी-जे. 1, जे. 3 / 5 त्रिविधमिति -कं. 1, कं. 2 / 6 च योग्यत्वाद् - जे. 1, जे. 3 / 7 समवेतो युक्तम् - अ, ब, क; 8 न तावत्सतृतीये [ ] एतच्चिह्नान्तर्गतः पाठः अब पुस्तकयोभ्रंष्टः। ९ना च-अ, ब, क; 10 तृतीये तृतीये-क; 11 संयोगविभागविशेषः- कं.।