________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली घटस्य भङ्गोऽल्पतरतमादिभागदर्शनेन तथैवा'रम्भककल्पनात् / तदेवं द्वयणुकादिप्रक्रमेण क्रियते कार्यलक्षणा पथिवी। सा चानित्या कारणविभागस्याश्रयविनाशस्य च हेतोः सम्भवात / कार्यलक्षणायाः पृथिव्या अनित्यत्वेन सह धर्मान्तरं समुच्चिन्वन्नाह-सा चेति / स्थैर्य निविडत्वम् / आदिशब्दात् प्रशिथिलत्वादिपरिग्रहः / अवयवानां सन्निवेशोऽवयवसंयोगविशेषः / स्थैर्यादयश्च तेऽवयवसन्निवेशाश्च तैविशिष्टा अपरजातिबहुत्वोपेता 'गोत्वश्वत्वादिजातिभूयस्त्वयुक्तेत्यर्थः / परमाण्वादिष्वपरजात्यभावेऽप्यदृष्टवशात्तथा तथा तेषां व्यूहो [टि०] व्यतिरेकाम्यां व्याप्तिर्दाढर्यादिति / ननु तहि अन्वयव्यतिरेकाभ्यां गृहीतव्याप्तेः कार्यद्रव्यत्वाद् द्वयणुकस्यापि कार्य'द्रव्यत्वारम्भत्वं प्रसज्यते ? न, आश्रयासिद्धे रनवस्थापाताच्चेति / तस्याणुपरिमाणेति-कारणयोर्द्वयोर्द्वयणुकयोमहत्त्वबहुत्वप्रचयानामभावात्कार्ये महत्त्वोत्पत्तौ कारणं नास्तीत्यणुत्वमेवोत्पद्यते, अणुत्वाच्च तस्य वैयर्थ्यमुपयोगाभावात् / ननु पार्थिवेषु परमाण्वादिषु कारणेषु गोत्वादिजातिनामभावात्तदारब्धे गवादौ कथं गोत्वादिदर्शनमित्याह-परमाण्वादिषु इति-आदिशब्दाद् द्वयणुकादिग्रहणम् / [पं०] इत्यर्थः / तस्येति द्वयणुकारब्धकार्यद्रव्यस्याणुत्वोत्पत्ता [त्तौ] चारम्भवैयर्थ्यादिति स्थूलत्वोत्पत्तौ ह्यारम्भस्य साफल्यं स्यात् / द्विद्वचणुकद्रव्यत्वाच्च स्थूलत्वं नोत्पद्यते / अणुत्वस्यवोत्पादात् / स्थूलत्वानपपत्तौ महतो घटादिद्रव्यस्यानुत्पत्तिप्रसगः / बहुषु त्वनियम इति व्योमशिवेन हि त्रिभिः द्वयणुकरारभ्यते-त्र्यणुकमिति नियमितम् / श्रीधरस्य तु मते द्वयणुककार्यं सर्वं त्र्यणुकमिति ज्ञेयम् / एतदेव स्पष्टयति - कदाचित्त्रिभिरारभ्यत इत्यादि त्रिभिः द्वयणुर्कः / ननू याद द्विदधणुकारब्धमणुस्यादिात श्याादाभरवारब्ध रब्धमणस्यादिति त्र्यादिभिरेवारब्धव्यं तदा कार्यद्रव्येण द्वयणुकेन कि कार्यमिति परप्रश्नमाशंक्याह न च "कार्यद्रव्यस्य व्यर्थतेत्यादि / न चैवं सति द्वरणुकानामेव घटारम्भकत्वप्रसक्तिरिति - त्र्यणकैरेव घट आरभ्यते / [कु०] भावे अवयविमहत्त्वप्रयोजकानामवयवमहत्त्वादीनामनुपपत्तेापकमपि? [व्याप्यमपि] व्यापकमेव धूमेन धूमेन वह्निव्यापकसामर्थ्यादनुमानदर्शनात् / न स्व-कार्याणामपि बहुत्वतङ्ख्याविरोध इति चेत्, न, अकार्यवर्तिबहुत्वस्य क्वचिदपि महत्त्वं प्रति सामर्थ्यादर्शनात् / परमाणुष्वेव भविष्यतीति चेत्, न, व्याप्तिमदूषयित्वा व्यापकानङ्गीकारे तु मात्रविलयापत्तेरिति / __न चैवं सतीति (कं. 32.11) कायैरेव महदारभ्यते इति हि नियमः / न च त्र्यणुकपटयोमहत्त्वं प्रत्यस्ति विशेष इति शङितुभावः / घटस्य भङ्ग इति (कं. 32.11) यद्यप्यन्त्यावयविनाशमपेक्षमाणस्तैरेव द्वयणुकैरवस्थितसंयोगा. पेक्षस्तत्र खण्डावयवत्वारम्भणेनाभ्युपपन्नमेतत्, तवाप्यवतिष्ठमान एव घटे बुद्ध्वोदय [बुध्नो] दरपार्श्वलोपा रसाद्यवयवविभागो नोपलभ्येत, खण्डावयविन्यारम्भणायापेक्षणीयान्त्यावयविनाशस्य तदानीमभावादिति भावः / 1 रम्भकल्पनात् - कं. 1, कं. 2 / 2 संयोगविभागविशेषः- कं. 1, कं. 2 / 3 °दयश्चावयव - कं. 1, कं. 2 / 4 गोत्वादिजाति-कं. 1, कं. 3 / 5 कार्यद्रव्याणुकस्य -- अ% B 6 द्रव्यारद्यत्वं -अ%B 7 रनवस्थाभ्यां व्याप्तिर्दाछ्यादिति पाताच्चेति - अ; 8 तस्थानु-ड; 9 नास्तीत्यणुत्वस्य वैयर्थ्यमुपयोगाभावात् - अ, ब; 10 'कथं' इति-अ-पुस्तके नास्ति / 11 न च कार्यस्य व्यर्थता-कं.।