________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् न्यायकन्दली शित्वञ्च प्रसज्येत, आश्रयविनाशस्यावयत्रविभागस्य च विनाशहेतोरभावात् / त्रयाणामप्यारम्भकत्वमयुक्तम्, इह महत्कार्यद्रव्यस्योत्पत्तौ स्वपरिमाणापेक्षयाऽल्पपरिमाणस्य कार्य्यद्रव्यस्यैव सामर्थ्यदर्शनात् / त्र्यणुकं कार्यद्रव्येणैव जन्यते, महत्परिमाणत्वात्, घटवत् / एवं त्रयाणामेकस्य चारम्भकत्वे प्रतिक्षिप्ते द्वाभ्यामेव परमाणुभ्यामारभ्यते यत् तद् द्वयणुकमिति सिद्धम् / द्वयणुकैर्बहुभिरारभ्यत इत्यपि नियमो न, द्वाभ्यां तस्याणुपरिमाणोत्पत्तौ कारणसद्भावेनाणुत्वोत्पत्तावारम्भवैयात, बहुषु त्वनियमः। कदाचित त्रिभिरारभ्यत इति त्र्यणुकमित्युच्यते, कदाचिच्च'तुभिरारभ्यते, कदाचित् पञ्चभिरिति यथेष्टं कल्पना। न च कार्य्यस्य व्यर्थता, यथा यथा कारणसङ्घयाबाहुल्यं तथा तथा महत्परिमाणतारतम्यस्योपलम्भात् / न चैवं सति द्वयणुकानामेव घटारम्भकत्वप्रसक्तिः, [टि०] व्यधिकरणो बहुव्रीहिः उष्ट्रमुखादित्वाद् डा-बाधनार्थः / 'मत्वर्थीये वाऽभ्रावप्रत्यये मयूरव्यंसकादित्वाद् उपलक्षणतती यासमासः / अत्र परममहत्यपि “महत्त्वसभावादाकाशेन व्यभिचारवारणार्थं महत्कार्यत्वादिति द्रष्टव्यम / महत्त्वेनोपलक्षितं कार्यद्रव्यमिति मयूरव्यंसकादित्वात्समासः / नन्वत्र विपक्षे बाधकाभावात् व्याप्यत्वासिद्धिः अन्वयव्यतिरेकावधारितसामर्थ्यात्कारणसंख्याबाहुल्यादेव "त्र्यणुके महत्वसिद्धेः ? नवम्, सर्वत्र कार्यत्वस्याप्यन्वय [पं०] नारभते, त्रयोऽपि परमाणव्ये [वः] नारम्भन्ते इत्यर्थः / स्वपरिमाणापेक्षयेति साध्यमानपरिमाणापेक्षया / कार्यद्रव्येणैवेति-यणकत्रयलक्षणेनैव / द्वाभ्यामेव परमाणभ्यामारभ्यते यत्तद द्वयणकमिति सिमिति द्वाभ्यामेव संयुक्ताभ्यां परमाणुभ्यां द्वयणुकमारभ्यते / ननु व्याणामपि संयोगः स्यात ततस्तैस्त्र्यणकमारभ्यताम् / नैवम् / त्र्यणुकं महत्कार्यद्रव्यं चाक्षुषं च। तत्कथं त्रिभिरणुभिरचाक्षुषैरारभ्यते / बहुभिरिति त्र्य [त्र्या ] दिभिः / आरभ्यते इति अग्रेतर्न कार्यद्रव्यम् / न द्वाभ्यामिति न द्वाभ्यां द्वयणुकाभ्यामग्रेतनं कार्यद्रव्यमारभ्यते, किन्तु व्यादिभिर्द्वषणुकरारभ्यत [कु०] पर्यालोचनया विशेष्यासिद्धिं परिहरति अथेति (कं. 31.19) / ननु "वियतः सावयवः द्रव्यत्वान्मूर्तत्वाद्वा सन्तुवदित्यनुमानेन तस्याप्यवयवत्वमनुपपन्नमित्याशङ्कय तदवयवसाधकानुमानस्य प्रतिकूलतर्कपराह (र) तिमाह अथ सोऽपीति (कं. 31.21) / निरतिशयं निरवयवम् / एवं तावन्नित्यायाः पृथिव्याः सद्भावे प्रमाणमभिधायानित्याया उत्पत्तिप्रकारं चिन्तयन् प्रसङ्गाद् द्वयणुके प्रमाणमाह स (ह) चैक इति (कं. 31.25) / नन्वेकस्यानारम्भकत्वेऽपि न द्वयणुकसिद्धि, त्रयाणां संयोगमपेक्ष्यारम्भकत्वेऽपि (कार्य) कार्यकादाचित्कत्वोपपत्तेरित्यतस्तर्कान्तरमाह त्रयाणामिति (कं. 32.2) / आकाशादौ व्यभिचारपरिहाराय कार्यत्वे सतीति विशेषणम् / नित्यद्रव्यगुणकर्मसु व्यभिचारपरिहाराय महत्वादिति पदम् / घटवदिति - (कं. 32.5) ननु घटस्य कार्यत्वकारणत्वमात्र प्रयोजकान्तम् (मन्) (महत्वे तु) अवयवमहत्वे . तु अवयवसङ्ख्याप्रचया: प्रयोजकाः / तदवयवकार्यत्वं तु अवर्गनीयं सन्धितया न व्यापकमिति चेत्, न, अवयवकार्यत्वा 1 त्रयाणामारम्भकत्वमप्ययुक्तम् - जे. 1, जे. 3 / 2 निश्चितम-जे. 1, जे. 3 / 3 चतुभिः-जे. 1, जे. 3 / 4 म्योपलम्भात् - कं. 1, कं. 2 / 5 त्वात्कात् -अ, ब; 6 मत्वर्थन - अ 7 तृतीय-ड; 8 महत्कृतसद्भाव-भ, ब; 9 कारणं-अ, ब, क; 10 अणुके-अ, ब, 11 'आकाश' इत्यर्थे कोऽपि शब्दो भवेत ?