________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली अनुमानम्, अणुपरिमाणतारतम्यं क्वचिद् विश्रान्तं परिमाणतारतम्यत्वाद् महत्परिमाणतारतम्भवत्, यत्रेदं विश्रान्तं यतः परमणुर्नास्ति सः परमाणुः। अत एव नित्यो द्रव्यत्वे सत्यनवयवत्वादाकाशवत् अथायं सावयवो न तहि परमाणुः, कार्य्यपरिमाणापेक्षया तदवयवपरिमाणस्य लोकेऽल्पीयस्त्वप्रतीतेः, यश्च तस्यावयवः सः परमाणुभविष्यति / अथ सोऽपि न भवति, अवयवान्तरसद्भावात् ? एवं तीनवस्था, ततश्चावयविनामल्पतरतमादिभावो न स्यात्, सर्वेषामनन्तकारणजन्यत्वाविशेषेण परिमाणप्रकर्षाप्रकर्ष हेत्वोः कारणसङ्ख्याभूयस्त्वयोरसम्भवात् / अस्ति तावदयं परिमाणभेदः, तस्मादणुपरिमाणं क्वचिनिरतिशयमिति सिद्धो नित्यः परमाणुः / स चैको नारम्भकः, एकस्य नित्यस्य चारम्भकत्वे कार्यस्य सततोत्पत्तिः स्यादपेक्षणीयाभावात, अविना [टि०] व्यवहारसिद्धत्वाच्च / अत एव इति-द्रव्यत्वस्य ग्रहणं बुद्धयादेः अनवयवत्वस्य तु घटादेव्यवच्छेदार्थम् / विपक्षे बाधकमाह-अथायं सावयव इत्यादि। आश्रयविनाशस्य इति-अंशुक्रियादिना तन्तुनाशे पटनाशः, आश्रयनाशात् तन्तुविभागेन त्ववयव विभागात् / यद्यपि चात्र संयोगनाशों द्रव्यनाशे कारणं तथापि सारूप्यापेक्षया विभागस्य कारणत्व. मुक्तम् / इह महत्कार्येति-महत: परिमाणस्याश्रयः' कार्यद्रव्यमिति षष्ठीसमास: भावप्रधानो वा महत्त्वेनोपलक्षितं 'कार्यद्रव्यं महत्कार्यद्रव्यमिति मयूरव्यंसकादित्वात् समासः / "व्यणुकं कार्येति:-अत्र महतः "परिमाणमस्येति [पं०] तस्य यत्परिमाणं तद्दिश्य - तदवयवपरिमाणस्थति = कार्यावयवपरिमाणस्यावयव्यपरिमाणस्येति यावत् / अथ सोऽपि न भवतीति अथ सोऽपि परमाणुन भवतीत्यर्थः / परिमाणप्रकर्षापकर्षहेतोरिति परिमाणप्रकर्षापकर्ष योर्हेतु, परिमाणप्रकर्षापकर्षहेतुतायाः, परिमाणप्रकर्षापकर्षहेत्वौः / इति सिद्धो नित्यः परमाणुरिति - परमाणुत्वसिद्धयादिनिरवयवत्वसिद्धिस्ततश्च नित्यत्वसिद्धिः / कार्यपथिवीप्रतिपादनायाह स चैक इत्यादि / अविनाशीत्वं च प्रसज्येत इति कार्यस्येति योगः / आश्रयविनाशस्यावयवविभागस्य च विनाशहेतोरभावादिति नित्यत्वादाश्रयविनाशाभावः / एकत्वात्त्ववयवविभागाभावः / त्र्याणामारम्भकत्वमप्ययुक्तमिति - व्याणामप्यारम्भकत्वमयुक्तमिति पदघटना / न केवलमेक: परमाणः कार्यद्रव्यं [क] साऽवयवेऽपर्यवसानबलान्निरवयवमल्पपरिमाणमादाय पर्यवस्यतीति परमाणसिद्धिः / न त्वेवमप्यपकर्षविश्रान्तिदष्टान्ते प्रकर्षविश्रान्तसिद्धिः तत्सिद्धौ तसिद्धिरितीत रेतराश्रयत्वं तदवस्थमिति चेत न, विभवान्महानाकाश इत्यादि प्रमाणान्तरादेव प्रकर्षविश्रान्तिसिद्धेः / एवं परमाणुस्वरूपायां पृथिव्यां प्रमाणमभिधाय तस्या: नित्यत्वे प्रमाणमाह -अत एवेति (कं. 31.18) / कार्यगुणः कर्मणा[व्यभि] चारपरिहाराय द्रव्यत्वे सतीति (कं. 31.19) विशेषलक्षणे प्रोच्यानुमा[न] पक्षधर्माता१ हेतोः - कं. 1, कं..२ / 2 चायं - जे. 1, जे. 2 / 3 नित्यस्यारम्भकत्वे-जे. 1, जे. 3 / 4 अवयवत्वस्य -अ, ब; 5 नाशनात्तत्र-अ 6 संयोगनाशे कारणम् - अ, ब; 7 सा द्रव्यापेक्षया-अ, भावरूपापेक्षया -ड; 8 भावप्राधान्ये वा-ड; 9 कार्यद्रव्यमिति मयूरव्यंसकादित्वाद् - अ, ब; 10 अणुक-अ, ब; 11 परिणामस्येति-अ, ब;