________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् [49] सा 'च द्विविधा-नित्या चानित्या च। परमाणुलक्षणा नित्या, कार्यलक्षणा त्वनित्या / सा च स्थैर्याद्यवयवसन्निवेशविशिष्टाऽपरजातिबहुत्वोपेता शयनासनाद्यनेकोपकार'करी च / न्यायकन्दली घटादिस्पर्शवत् / घटादिस्पर्शस्यापि पाकजत्वमेकेन्द्रियग्राह्यत्वे सति तद्गुणत्वात् तद्गतरूपवत् / [49] अवान्तरभेदनिरूपणार्थमाह-नित्या चानित्या चेति / प्रकारान्तराभावसंसूचनार्थी चशब्दौ / का नित्या का चानित्येत्याह-परमाणुलक्षणा नित्या कार्यलक्षणा त्वनित्येति / उभयत्रापि लक्षणशब्दः स्वभावार्थः / परमाणुस्वभावायाः पृथिव्याः सत्त्वे किं प्रमाणम् ? [टि०] [49] परि'माणतारतम्यत्वाद् इति -वैयाकरणाभिप्रायेण तरतमगुणात् 'द्वण् स्वरूपे तु' 'त्व प्रत्यय इत्यविरोधः / यदुक्तं 'जातिगुणाज्जातिर्गुणे समासकृत्तद्धितद्धितात्तु सम्बन्धे डित्थादेः स्वरूपे त्वतलादीनां विधिर्भवतीति महतो द्रव्यस्य परिमाणतारतम्यं महत् परिमाणतारतम्यमिति विग्रहः, अन्यथा डात्वं स्यात्। नन्वत्र पक्षेऽणुशब्दप्रयोगो न तावन्मुख्यः परमाणुद्वयणुकादन्येषां द्रव्याणां “महत्त्वात्, नाप्यौपचारिक: परमाणुसिद्ध्यभावे मुख्याणु'त्वासिद्धौ गौणप्रयोगानुपपत्तेरितरेतराश्रयप्रसङ्गात् / नैवम्, अणुपरिमाणतारतम्यस्य महापरिमाणापकर्षतारतम्यार्थत्वात् अणुशब्दस्य [पं०] [49] महत्परिमाणतारतम्यवदिति महत्त्वेनोपलक्षितं परिमाण महत्परिमाणमिति व्याख्येयम् / न तु महत्त्व (त्त्वं) तत्परिमाणं चेति व्याख्येयम् / तथा व्याख्यायां हि आकारो महतः कार्यस्तुल्याधिकरणे पदे इत्यनेन महापरिमाणमिति सिद्धयते / द्रव्यत्वे सत्यनवयवत्वादिति रूपादिगुणव्यवच्छेदाय द्रव्यत्वे सतीति विशेषणम् / बुद्धयादीनां तु निरवयवत्वेऽपि द्रव्यत्वाभावादनित्यत्वमिति द्रष्टव्यम् / कार्यपरिमाणापेक्षयेति कार्यों घटादिरवयवी [कु०] कुम्भादिषु स्पर्शस्य पाकजत्वं प्रत्यक्षसिद्धत्वाद् अप्रतीयमानपाकेषु मणिस्तम्भादिषु कथमित्यत आह अप्रतीयमानेति (कं. 31.10) / न तु रूपरसादिवत्पाकजन्यविशेषाप्रतीते: कथं घटस्पर्शस्यापि पाकजत्वं, मृदुत्वकठिनत्वे तु प्रशिथिलसंयोगभेद विदे(धा)ति साध्यविकलो दृष्टान्त इत्यत आह घटेति (कं. 31.11) / एकेन्द्रियग्राह्यत्वे सतीति (कं. 31.11) विशेषणं परिमाणादिभिर्व्यभिचारपरिहाराय / आप्यशैत्येन परिहाराय तद्गुणत्वादिति (कं. 31.12) / - [49] अवान्तरभेदनिरूपणार्थमिति (कं. 31.12) नित्यत्वनियमे प्रमाणाभावादनित्यत्वनियमे च कार्यकारणव्यवस्थामुपपत्तेरिति दोषः / प्रकारान्तरभावेति (कं. 31.13) अनुष्णाशीतवत् क्वचिद्विहिता निषिद्धव्यतिरिक्तस्य सम्भवात् पदत्वान्तं निवर्तने नावधारणाएँ च शब्दादिति भावः / अणुपरिमाणतारतम्यमिति (कं. 31.15) न घणुशब्देन महत्त्वप्रतियोगिपरमाणुद्वयणुकपरमाणु परिभाषा] मुच्यते, यतः परमाणुसिद्धौ द्वयणुकसिद्धिः, [द्वयणुक] सिद्धौ तदपेक्षया निकर्षातिशयविश्रान्त्या परमाणुसिद्धिरितीतरेतराश्रयदोषः स्यात् / किन्तु बिल्वादाम (ण)लकमणु (सा) भामलकात्कुवलमण्विति येयं परिमाणातिशयापकर्षपरम्परा संवाणुपरिमाणतारतम्यमित्युच्यते; सा च विश्रान्तिः / 1 'तु'-कं.। 2 वती-दे। 3 तारतम्याद् - अ, ब, क; 4 ध्य? - छ; 5 तु प्रत्यय - अ, ब, क; 6 जातिसमासकृत्तद्धिमातुसम्बन्धे - अ; 7 पक्षेषु -अ, 8 सत्त्वात् -अ, ब, क; : णुत्वासिद्धौ-अ, ब, क;