________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली प्रतिकूलसंवदेनीयं गन्धान्तरम्, न तु तदभावामात्रम्, विधिरूपेण सातिशयतया च संवेदनात् / उपेक्षणीयस्तु गन्धोऽनुद्भुतसुरभ्यसुरभिप्रभेद एवेति पृथङनोच्यते / अथवा सोऽप्यसुरभिरेव सुरभिगन्धादन्योऽसुरभिरिति व्युत्पादनात / / यथाभूतः स्पर्शोऽस्याः वैधयं तथा दर्शयति-स्पर्शोऽस्या इति / पाकजः स्पर्शः पृथिव्या वैधयं तस्य स्वरूपकथनमनुष्णाशीत इति / यद्यपि स्पर्शवत्पाकजौ रूपरसावप्यस्याः वैधर्म्यम्, तथापि रूपरसयोः पाकजत्वानभिधानम्, अन्यथापि तयोवैधर्म्यस्य सम्भवात्, वैध Hमात्रस्यैव प्रतिपादनस्यैव विवक्षितत्वात् / अप्रतीयमानपा केषु स्तम्भादिषु स्पर्शस्य पाकजत्वमनुमानात् / स्तम्भादिषु स्पर्शः पाकजः, पार्थिवस्पशत्वात्, [टि०] स्पर्शोऽपि द्विविध एवाभ्युपगन्तव्यो न त्वनुष्णाशीत इति ? सत्यम्, गन्धः प्रकारद्वयप्रतिपादितोऽपि पृथिवीत्वजातिनियतः स्पर्शस्तूष्णो वह्नित्वे नियतः शीतस्त्वप्त्वेऽनुष्णाशीतस्तु पृथिवीत्वे इति विविध एव नियन्तुं शक्यते इति / ___ अन्यथाऽपि तयोः इति - अन्यथाऽनेकप्रकारत्वेनेत्यर्थः / घटादिस्पर्शस्य इति - एकेन्द्रिय ग्राह्यत्वाद् इति तद्गतसङ्ख्यादिव्यवच्छेदार्थम् / तदगुणत्वादिति वायुस्पर्शव्यवच्छेदार्थम् / सर्पवृश्चिकादिस्पर्शविशेषाद्दःखविशेषोत्पत्तिभावो विपक्षे बाधकम् / द्रव्यमात्रस्य तत्कारणत्वे मदिरादीनां दर्शनस्पर्शनादिभेदे प्रायश्चित्तभेदानुपपत्तिः / [पं०] विधिरूपेणेति अभावो हि निषेधरूप: स्यादिति भावः / सातिशयतया चेति न ह्यभावस्य प्रकर्षापकर्षों भवतः / अन्यथापि तयोर्वधर्म्यस्य सम्भवादिति / पाकजत्वं विना रूपस्य चित्रत्वेन रसस्य च. षद्विधत्वेन वैधम्यं घटते इत्यर्थः / एकेन्द्रियग्राह्यत्वे सतीति संख्या परिमाणादिगुणव्यवच्छेदयो एकेन्द्रियग्रा ह्यत्वे सतीति विशेषणम् / तेषां दर्शनस्पर्शनाख्येन्द्रियग्राह्यत्वात् तद्गुणादिपार्थिवगुणत्वात् तद्गतरूपवदिति यथा घटादिगतरूपं एकस्य चक्षुरिन्द्रियस्य ग्राह्यं पार्थिवगुणश्च / [कुo] माश्रित्य गन्धसामानाधिकरण्यं समर्थयते असुरभिरिति (कं. 31.3) / तत्र हेतुमाह विधिरूपेणेति (कं. 31.4) मण्यादौ चानुमानसिद्धस्य गन्धस्य प्रतीयमानविधायास्तुप्रवे[शा]दे [व] शङश[ङ्का] भवति न विधान्त रत्वशङ्का इत्याह - "उपेक्षणीयमिति (कं. 31.4) / सुरभिगन्धादनुकूलवेदनीयावन्यः प्रतिकूलवेदनीयोऽसुरभिरिति व्युत्पादना[त्] तृतीयप्रकारकल्पनागौरवप्रसङ्गादिति भावः / ___तस्य स्वरूपकथनमिति (कं. 3.1.8) पृथिवी स्पर्शवती त्वगिन्द्रियग्राह्यत्वादुदकवदिति स्पर्शसिद्धानु[ग्णा]शीतत्वयोरनुपलम्भबाधे तृतीयस्पर्शसिद्धेः / शीतोष्णावेव स्पर्शी, अनुष्णाशीतव्यवहारस्तु परस्पराभिभवप्रयुक्त इति कल्पनाव्यामोहमात्रनिबन्धनमित्यनुसन्धेयम् / अन्यथापीति (कं. 31.9) अवान्तरजातिमत्तयेत्यर्थः / ननु तथापि पाकजत्वमपि विद्यमानत्वाद्वक्तव्यमेवेत्यत आह - "वैधर्म्यप्रतिपादनमात्रस्येति (कं. 31.10) नन्वस्तु प्रतीयमानपाकेषु 1 वैधय॑सम्भवात्-जे. 1, जे. 3 / 2 वैधय॑मात्रप्रतिपादनस्यैव-कं 1, कं. 2 / 3 पाकजेषु-कं. 1, कं. 2 / 4 पादितो-अ, 5 ग्राह्यतो-मु. जे. 1, 3; . 6 त्पत्त्यभावो विपक्ष-अ, ब, क; 7 मदिरादिरादीनां-अ; 8 दर्शनादिभेदे - अ, ब; 9 तद्गुणत्वात् - क.। 10 उपेक्षणीयस्तु-कं.। 11 बैधर्नामात्रप्रतिपादन-कं. /